श्रीछिन्नमस्ताहृदयम् श्रीगणेशाय नमः । श्रीपार्वत्युवाच । श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्जनिःसृतम् । हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥ १॥ ॐ महादेव उवाच । नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे । यत्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥ २॥ ॐ अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरव ऋषिः , सम्राट् छन्दः , छिन्नमस्ता देवता , हूं बीजम् , ॐ शक्तिः , ह्रीं कीलकं , शत्रुक्षयकरणार्थे पाठे विनियोगः ॥ ॐ भैरवऋषये नमः शिरसि । ॐ सम्राट्छन्दसे नमो मुखे । ॐ छिन्नमस्तादेवतायै नमो हृदि । ॐ हूं बीजाय नमो गुह्ये । ॐ ॐ शक्तये नमः पादयोः । ॐ ह्रीं कीलकाय नमो नाभौ । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः । ॐ ॐ अङ्गुष्ठाभ्यां नमः । ॐ हूं तर्जनीभ्यां नमः । ॐ ह्रीं मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ हूं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । ॐ ॐ हृदयाय नमः । ॐ हूं शिरसे स्वाहा । ॐ ह्रीं शिखायै वषट् । ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ हूं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । रक्ताभां रक्तकेशीं करकमललसत्कर्त्रिकां कालकान्तिं विच्छिन्नात्मीयमुण्डासृगरुणबहुलोदग्रधारां पिबन्तीम् । विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि ॥ इति ध्यानम् । वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां पराम् । छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् ॥ २॥ सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहाम् । सेवे सकलसम्पत्त्यै छिन्नमस्तां शुभप्रदाम् ॥ ३॥ यज्ञानां योगयज्ञाय या तु जाता युगे युगे । दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् ॥ ४॥ वैरोचनीं वरारोहां वामदेवविवर्द्धिताम् । कोटिसूर्य्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् ॥ ५॥ निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः । योगिनीस्तर्पयन्त्युग्रा तस्याश्चरणमाश्रये ॥ ६॥ हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः । यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे ॥ ७॥ हूं स्वाहेति मनुं सम्यग्यः स्मरत्यर्तिमान्नरः । छिनत्ति च्छिन्नमस्ताया तस्य बाधां नमामि ताम् ॥ ८॥ यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् । दूरतः सम्पलायन्ते च्छिन्नमस्तां भजामि ताम् ॥ ९॥ क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा छलयुतखलकक्षाच्छेदने क्षान्तिलक्ष्या । क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा जयतु जयतु चाक्षा च्छिन्नमस्तारिभक्षा ॥ १०॥ कलिकलुषकलानां कर्त्तने कर्त्रिहस्ता सुरकुवलयकाशा मन्दभानुप्रकाशा । असुरकुलकलापत्रासिकाऽम्लानमूर्ति जयतु जयतु काली च्छिन्नमस्ता कराली ॥ ११॥ भुवनभरणभूरिभ्राजमानानुभावा भवभवविभवानां भारणोद्भातभूतिः । द्विजकुलकमलानां भासिनी भानुमूर्ति भवतु भवतु वाणी च्छिन्नमस्ता भवानी ॥ १२॥ मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण । भवतु तव यशोऽलं छिन्धि शत्रून्खलान्मे मम च परिदिशेष्टं छिन्नमस्ते क्षमस्व ॥ १३॥ छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता । क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा ॥ १४॥ वैरोचनी वरारोहा बलिदानप्रहर्षिता । बलिपूजितपादाब्जा वासुदेवप्रपूजिता ॥ १५॥ इति द्वादशनामानि च्छिन्नमस्ताप्रियाणि यः । स्मरेत्प्रातः समुत्थाय तस्य नश्यन्ति शत्रवः ॥ १६॥ यां स्मृत्वा सन्ति सद्यः सकलसुरगणाः सर्वदा सम्पदाढ्याः शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति । तस्याः सङ्कल्पवन्तः सरसिजचरणां सततं संश्रयन्ति साऽऽद्या श्रीशादिसेव्या सुफलतु सुतरं छिन्नमस्ता प्रशस्ता ॥ १७॥ इदं हृदयमज्ञात्वा हन्तुमिच्छति यो द्विषम् । कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति ॥ १८॥ यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः । छिन्नमस्ता प्रसन्ना हि ददाति फलमीप्सितम् ॥ १९॥ शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् । आयुरारोग्यदं चैव पठतां पुण्यसाधनम् ॥ २०॥ ॥ इति श्रीनन्द्यावर्ते महादेवपार्वतीसंवादे श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ॥