श्रीमदुग्रताराहृदयस्तोत्रम् श्रीशिव उवाच । शृणु पार्वति भद्रं ते लोकानां हितकारकम् । कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ १॥ श्रीपार्वत्युवाच । स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो । कथ्यतां सर्वसद्वृत्तं(सद् वृत्तं) कृपां कृत्वा ममोपरि ॥ २॥ श्रीशिव उवाच । रणे देवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये । दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम् ॥ ३॥ विनियोगः । ॐ अस्य श्रीमदुग्रताराहृदयस्तोत्रमन्त्रस्य श्रीभैरवऋषिः । अनुष्टुप् छन्दः । श्रीमदुग्रतारादेवता । स्त्रीं बीजम् । हूं शक्तिः । नमः कीलकम् । सकलशत्रुविनाशार्थे पाठे विनियोग ॥ ॥ ऋष्यादिन्यासः ॥ श्रीभैरव ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीमदुग्रतारा देवतायै नमः हृदि । स्त्रीं बीजाय नमः गुह्ये । हूं शक्तये नमः नाभौ । नमः कीलकाय नमः पादयोः । सकल शत्रुविनाशार्थे पाठे विनियोगाय नमः अञ्जलौ ॥ ॥ इति ऋष्यादिन्यासः ॥ ॥ अथ करन्यासः ॥ ॐ स्त्रीं अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ हूं मध्यमाभ्यां नमः । ॐ त्रीं अनामिकाभ्यां नमः । ॐ ऐं कनिष्ठिकाभ्यां नमः । ॐ हंसः करतल करपृष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्गन्यासः ॥ ॐ स्त्रीं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ हूं शिखायै वषट् । ॐ त्रीं कवचाय हुम् । ॐ ऐं नेत्रत्रयाय वौषट् । ॐ हंसः अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्गन्यासः ॥ ॥ अथ ध्यानम् ॥ ॐ ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्शेखरां रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननाम् । पाशं कर्त्रीमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम् ॥ ४॥ ॥ इति ध्यानम् ॥ एवं ध्यात्वा शुभां तारां ततस्यु हृदयं पठेत् ॥ तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका । रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे ॥ ५॥ सर्वदा शत्रुसंरम्भे तारा मे कुरुतां जयम् । स्त्रीं त्रींस्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ॥ ६॥ तव स्नेहान्मयाख्यातं न पैशुन्यं प्रकाश्यताम् । शृणुदेवि तव स्नेहात् तारानामानि तत्त्वतः ॥ ७॥ वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये । तारिणी तरला तारा त्रिरूपा तरणिप्रभा ॥ ८॥ सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका । रमणीया रजोरूपा जगत्सृष्टिकरी परा ॥ ९॥ तमोरूपा महामाया घोररावां भयानका । कालरूपा कालिकाख्या जगद्विध्वंसकारिका ॥ १०॥ तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा । रक्ताङ्गी रक्तवस्त्रा च रक्तमालाप्रशोभिता ॥ ११॥ सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया । नामान्येतानि ये मर्त्त्याः सर्वदैकाग्रमानसाः ॥ १२॥ प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् । तारां तारपरां देवीं तारकेश्वरपूजिताम् ॥ १३॥ तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् । स्त्रीं ह्रीं हूं त्रीं फट् मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ॥ १४॥ सर्वे रोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् । त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ॥ १५॥ तिलकं कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये । स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्ममन्त्रयेत् ॥ १६॥ शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति । ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं संशोध्य सप्तधा ॥ १७॥ उच्चाटनं नयत्याशु रिपूणां नैव संशयः । var भवत्याशु स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभिमन्त्रिताः ॥ १८॥ तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी। (हंसः ॐ ह्रीं स्त्रीं हूं हंसः) इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ॥ १९॥ तस्यैव तिलकं कृत्वा जगन्मोहं समाचरेत् । तारायाः हृदयं देवि सर्वपापप्रणाशनम् ॥ २०॥ वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम् । गङ्गादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् ॥ २१॥ महादुःखे महारोगे सङ्कटे प्राणसंशये । महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ॥ २२॥ सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे। गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ २३॥ ॥ इति श्रीभैरवीतन्त्रे शिवपार्वतीसम्वादे श्रीमदुग्रताराहृदयं सम्पूर्णम् ॥