कालीकवचम् श्री जगन्मङ्गलकवचम् अथवा श्यामाकवचम् भैरव्युवाच - कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ॥ इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥ १॥ त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि । त्वमेव शरणन्नाथ त्राहिमां दुःखसङ्कटात् ॥ २॥ भैरव उवाच रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे । श्रीजगन्मङ्गलन्नाम कवचं मन्त्रविग्रहम् ॥ ३॥ पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ ४॥ योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूत्तमः । वरतृप्तो जघानैव रावणादिनिशाचरान् ॥ ५॥ यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः । धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ॥ ६॥ एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये । श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥ ७॥ छन्दोऽनुष्टुप्देवता च कालिका दक्षिणेरिता । जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ॥ ८॥ योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः । शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ॥ ९॥ क्रीङ्क्रीङ्क्रीं मे ललाटञ्च कालिका खड्गधारिणी । हूं हूं पातु नेत्रयुगं ह्रीं ह्रीं पातु श्रुती मम ॥ १०॥ दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी । क्रीङ्क्रीङ्क्रीं रसनाम्पातु हूं हूं पातु कपोलकम् ॥ ११॥ वदनं सकलम्पातु ह्रीँ ह्रीँ स्वाहास्वरूपिणी । द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ॥ १२॥ खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु । क्रींह्रूँह्रीँ त्र्यक्षरी पातु चामुण्डा हृदयं मम ॥ १३॥ ऐंहूँओंऐं स्तनद्वन्द्वं ह्रीम्फट्स्वाहा ककुत्स्थलम् । अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ॥ १४॥ क्रीङ्क्रींहूंहूंह्रींह्रीङ्कारी पातु षडक्षरी मम । क्रीं नाभिं मध्यदेशञ्च दक्षिणे कालिकाऽवतु ॥ १५॥ क्रींस्वाहा पातु पृष्ठञ्च कालिका सा दशाक्षरी । क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ॥ १६॥ सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता । ह्रींह्रीं दक्षिणे कालिके हूंहूं पातु कटिद्वयम् ॥ १७॥ काली दशाक्षरी विद्या स्वाहा मामूरुयुग्मकम् । ॐ क्रीङ्क्रीं मे स्वाहा पातु कालिका जानुनी सदा ॥ १८॥ कालीहृन्नामविद्येयञ्चतुर्वर्गफलप्रदा । क्रींह्रींह्रीं पातु सा गुल्फन्दक्षिणे कालिकाऽवतु ॥ १९॥ क्रींह्रूंह्रीं स्वाहा पदम्पातु चतुर्द्दशाक्षरी मम । खड्गमुण्डधरा काली वरदाभयधारिणी ॥ २०॥ विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥ २१॥ विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषा । नीला घना वलाका च मात्रा मुद्रा मिता च माम् ॥ २२॥ एतास्सर्वाः खड्गधरा मुण्डमालाविभूषणाः । रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ॥ २३॥ माहेश्वरी च चामुण्डा कौमारी चापराजिता । वाराही नारसिम्ही च सर्वाश्चामितभूषणाः ॥ २४॥ रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मां यथा तथा । इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ २५॥ श्रीजगन्मङ्गलन्नाम महाविद्यौघविग्रहम् । त्रैलोक्याकर्षणं ब्रह्मन्कवचं मन्मुखोदितम् ॥ २६॥ गुरुपूजाँ विधायाथ विधिवत्प्रपठेत्ततः । कवचन्त्रिस्सकृद्वापि यावज्जीवञ्च वा पुनः ॥ २७॥ एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् । त्रैलोक्यङ्क्षोभयत्येव कवचस्य प्रसादतः ॥ २८॥ महाकविर्भवेन्मासं सर्वसिद्धीश्वरो भवेत् । पुष्पाञ्जलीन्कालिकायै मूलेनैवार्पयेत् सकृत् ॥ २९॥ शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् । भूर्जे विलिखितञ्चैतत् स्वर्णस्थन्धारयेद्यदि ॥ ३०॥ विशाखायां दक्षबाहौ कण्ठे वा धारयेद्यदि । त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् ॥ ३१॥ पुत्रवान्धनवाञ्श्रीमान्नानाविद्यानिधिर्भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥ ३२॥ नाशमायाति या नारी वन्ध्या वा मृतपुत्रिनी । बह्वपत्या जीवतोका भवत्येव न संशयः ॥ ३३॥ न देयम्परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः । शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ३४॥ स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे सुखे । पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥ ३५॥ इदं कवचमज्ञात्वा यो भजेद्(कालि)घोरदक्षिणाम् ॥ शतलक्षम्प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ सहस्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ३६॥ इति कालीकवचं अथवा जगन्मङ्गलकवचम् अथवा श्यामाकवचं सम्पूर्णम् ।