श्रीकालिकाकवचम् अथवा श्रीत्रैलोक्य विजय कवचम् श्रीसदाशिव उवाच - कथितं परमं ब्रह्म प्रकृतेः स्तवनं महत् । आद्यायाः श्रीकालिकायाः कवचं शृणु साम्प्रतम् ॥ १॥ त्रैलोक्यविजयस्यास्य कवचस्य ऋषिः शिवः । छन्दोऽनुष्टुब्देवता च आद्या काली प्रकीर्तिता ॥ २॥ मायाबीजं बीजमिति रमा शक्त्तिरुदाहृता । क्रीं कीलकं काम्यसिद्धौ विनियोगः प्रकीर्तितः ॥ ३॥ ह्रीमाद्या मे शिरः पातु श्रीं काली वदनं मम । हृदयं क्रीं परा शक्त्तिः पायात्कण्ठं परात्परा ॥ ४॥ नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी । घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ५॥ दन्तान् रक्षतु कौमारी कपोलौ कमलालया । ओष्ठाधरौ क्षमा रक्षेच्चिबुकं चारुहासिनी ॥ ६॥ ग्रीवां पायात्कुलेशानी ककुत्पातु कृपामयी । द्वौ बाहू बाहुदा रक्षेत्करौ कैवल्यदायिनी ॥ ७॥ स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी । पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ८॥ नाभौ पातु विशालाक्षी प्रजस्थानं प्रभावती । ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ९॥ जयदुर्गावतु प्राणान्सर्वाङ्गं सर्वसिध्दिदा । रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन च ॥ १०॥ तत्सर्वं मे सदा रक्षेदाद्या काली सनातनी । इति ते कथितं दिव्यं त्रैलोक्यविजयाभिधम् ॥ ११॥ कवचं कालिकादेव्या आद्यायाः परमाद्भुतम् । पूजाकाले पठेत्यस्तु आद्याधिकृतमानसः ॥ १२॥ इति महानिर्वाणतन्त्रे सप्तम उल्लासे ५५-६६ श्लोकपर्यन्तं श्रीकालिकाकवचं सम्पूर्णम् ।