कालीकवचम् श्रीमद्दक्षिणकालिकाकवचम् भैरव् उवाच - कालिका या महाविद्या कथिता भुवि दुर्लभा । तथापि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १॥ कवचन्तु महादेवि कथयस्वानुकम्पया । यदि नो कथ्यते मातर्व्विमुञ्चामि तदा तनुम् ॥ २॥ श्रीदेव्युवाच - शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् । न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३॥ कालिका जगतां माता शोकदुःखविनाशिनी । विशेषतः कलियुगे महापातकहारिणी ॥ ४॥ काली मे पुरतः पातु पृष्ठतश्च कपालिनी । कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५॥ विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी । उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६॥ वदनं पातु मे दीप्ता नीला च चिबुकं सदा । घना ग्रीवां सदा पातु बलाका बाहुयुग्मकम् ॥ ७॥ मात्रा पातु करद्वन्द्वं वक्षोमुद्रा सदावतु । मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८॥ ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा । ऊरु माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकम् ॥ ९॥ कौमारी च कटीं पातु तथैव जानुयुग्मकम् । अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १०॥ सन्धिस्थानं नारसिंही पत्रस्था देवतावतु । रक्षाहीनन्तु यत्स्थानं वर्जितं कवचेन तु ॥ ११॥ तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे । ऊर्द्धमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२॥ हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् । दक्षिणाकालिका देवी व्यपकत्वे सदावतु ॥ १३॥ इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणाम् । न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४॥ कवचेनावृतो नित्यं यत्र तत्रैव गच्छति । तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५॥ इति कालीकुलसर्वस्वे कालीकवचं अथवा श्रीमद्दक्षिणकालिकाकवचम् समाप्तम् ॥