।।श्रीमद्भगवद्गीता षोडशोऽध्यायः।। ॥ अथ षोडशोऽध्यायः ॥ (दैवासुरसंपद्विभागयोगः) श्रीभगवानुवाच: श्लोक 1 अभयम् सत्त्व-संशुद्धिः ज्ञान-योग-व्यवस्थितिः । दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥ श्लोक 2 अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् । दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥ श्लोक 3 तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानिता । भवन्ति संपदम् दैवीम् अभिजातस्य भारत ॥ श्लोक 4 दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च । अज्ञानम् च अभिजातस्य पार्थ संपदम् आसुरीम् ॥ श्लोक 5 दैवी संपत् विमोक्षाय निबन्धाय आसुरी मता । मा शुचः संपदम् दैवीम् अभिजातः असि पाण्डव ॥ श्लोक 6 द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च । दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शृणु ॥ श्लोक 7 प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः । न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते ॥ श्लोक 8 असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् । अपरस्पर-सम्भूतम् किम् अन्यत् काम-हैतुकम् ॥ श्लोक 9 एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्प-बुद्धयः । प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः ॥ श्लोक 10 कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः । मोहात् गृहीत्वा असत्-ग्राहान् प्रवर्तन्ते अशुचि-व्रताः ॥ श्लोक 11 चिन्ताम् अपरिमेयाम् च प्रलय-अन्ताम् उपाश्रिताः । काम-उपभोग-परमाः एतावत् इति निश्चिताः ॥ श्लोक 12 आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोग-अर्थम् अन्यायेन अर्थ-संचयान् ॥ श्लोक 13 इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् । इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् ॥ श्लोक 14 असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि । ईश्वरः अहम् अहम् भोगी सिद्धः अहम् बलवान् सुखी ॥ श्लोक 15 आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया । यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः ॥ श्लोक 16 अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके अशुचौ ॥ श्लोक 17 आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः । यजन्ते नाम-यज्ञैः ते दम्भेन अविधि-पूर्वकम् ॥ श्लोक 18 अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥ श्लोक 19 तान् अहम् द्विषतः क्रूरान् संसारेषु नर-अधमान् । क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥ श्लोक 20 आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि । माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् ॥ श्लोक 21 त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः । कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥ श्लोक 22 एतैः विमुक्तः कौन्तेय तमो-द्वारैः त्रिभिः नरः । आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् ॥ श्लोक 23 यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥ श्लोक 24 तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥16 ॥