ताराकवचम् श्रीगणेशाय नमः । ईश्वर उवाच । कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी । दिव्यं हि कवचं तस्याः शृणुष्व सर्वकामदम् ॥ १॥ अस्य ताराकवचस्य अक्षोभ्य ऋषिः , त्रिष्टुप् छन्दः , भगवती तारा देवता , सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः । प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी । ललाटे पातु ह्रींकारो बीजरूपा महेश्वरी ॥ २॥ स्त्रींकारो वदने नित्यं लज्जारूपा महेश्वरी । हूँकारः पातु हृदये भवानीरूपशक्तिधृक् ॥ ३॥ फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा । खर्वा मां पातु देवेशी गण्डयुग्मे भयापहा ॥ ४॥ निम्नोदरी सदा स्कन्धयुग्मे पातु महेश्वरी । व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया ॥ ५॥ पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी । रक्तवर्तुलनेत्रा च कटिदेशे सदाऽवतु ॥ ६॥ ललजिह्वा सदा पातु नाभौ मां भुवनेश्वरी । करालास्या सदा पातु लिङ्गे देवी हरप्रिया ॥ ७॥ पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी । प्रेतखर्परभृद्देवी जानुचक्रे महेश्वरी ॥ ८॥ नीलवर्णा सदा पातु जानुनी सर्वदा मम । नागकुण्डलधर्त्री च पातु पादयुगे ततः ॥ ९॥ नागहारधरा देवी सर्वाङ्गं पातु सर्वदा । नागकङ्कधरा देवी पातु प्रान्तरदेशतः ॥ १०॥ चतुर्भुजा सदा पातु गमने शत्रुनाशिनी । खड्गहस्ता महादेवी श्रवणे पातु सर्वदा ॥ ११॥ नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी । कर्त्रिहस्ता सदा पातु विवादे शत्रुमध्यतः ॥ १२॥ ब्रह्मरूपधरा देवी सङ्ग्रामे पातु सर्वदा । नागकङ्कणधर्त्री च भोजने पातु सर्वदा ॥ १३॥ शवकर्णा महादेवी शयने पातु सर्वदा । वीरासनधरा देवी निद्रायां पातु सर्वदा ॥ १४॥ धनुर्बाणधरा देवी पातु मां विघ्नसङ्कुले । नागाञ्चितकटी पातु देवी मां सर्वकर्मसु ॥ १५॥ छिन्नमुण्डधरा देवी कानने पातु सर्वदा । चितामध्यस्थिता देवी मारणे पातु सर्वदा ॥ १६॥ द्वीपिचर्मधरा देवी पुत्रदारधनादिषु । अलङ्कारान्विता देवी पातु मां हरवल्लभा ॥ १७॥ रक्ष रक्ष नदीकुञ्जे हूं हूं फट् सुसमन्विते । बीजरूपा महादेवी पर्वते पातु सर्वदा ॥ १८॥ मणिभृद्वज्रिणी देवी महाप्रतिसरे तथा । रक्ष रक्ष सदा हूं हूं ॐ ह्रीं स्वाहा महेश्वरी ॥ १९॥ पुष्पकेतुरजार्हेति कानने पातु सर्वदा । ॐ ह्रीं वज्रपुष्पं हुं फट् प्रान्तरे सर्वकामदा ॥ २०॥ ॐ पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी । हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा ॥ २१॥ ॐ आं हूं स्वाहा महेशानी पातु द्यूते हरप्रिया । ॐ ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदाऽवतु ॥ २२॥ ॐ पवित्रवज्रभूमे हुंफट्स्वाहा समन्विता । पूरिका पातु मां देवी सर्वविघ्नविनाशिनी ॥ २३॥ ॐ आः सुरेखे वज्ररेखे हुंफट्स्वाहासमन्विता । पाताले पातु सा देवी लाकिनी नामसंज्ञिका ॥ २४॥ ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी । स्त्रींकारी पातु देवेशी वधूरूपा महेश्वरी ॥ २५॥ हूंस्वरूपा महादेवी पातु मां क्रोधरूपिणी । फट्स्वरूपा महामाया उत्तरे पातु सर्वदा ॥ २६॥ पश्चिमे पातु मां देवी फट्स्वरूपा हरप्रिया । मध्ये मां पातु देवेशी हूंस्वरूपा नगात्मजा ॥ २७॥ नीलवर्णा सदा पातु सर्वतो वाग्भवा सदा । भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ॥ २८॥ विद्यादानरता देवी वक्त्रे नीलसरस्वती । शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ ॥ २९॥ भीमरूपा सदा पातु श्मशाने भयनाशिनी । भूतप्रेतालये घोरे दुर्गमा श्रीघनाऽवतु ॥ ३०॥ पातु नित्यं महेशानी सर्वत्र शिवदूतिका । कवचस्य माहात्म्यं नाहं वर्षशतैरपि ॥ ३१॥ शक्नोमि गदितुं देवि भवेत्तस्य फलं च यत् । पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा ॥ ३२॥ न विद्यते भयं तस्य नृपपूज्यो भवेच्च सः । शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम् ॥ ३३॥ प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः । सर्वशास्त्रे महेशानि कविराड् भवति ध्रुवम् ॥ ३४॥ सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः । रणे द्यूते विवादे च जयस्तत्र भवेद् ध्रुवम् ॥ ३५॥ पुत्रपौतान्वितो मर्त्यो विलासी सर्वयोषिताम् । शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ॥ ३६॥ गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् । मृत्युश्च वश्यतां याति दासास्तस्यावनीभुजः ॥ ३७॥ प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदम् । प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहणे क्षमः ॥ ३८॥ आनन्दवृन्दसिन्धूनामधिपः कविराड् भवेत् । सर्ववागिश्वरो मर्त्यो लोकवश्यः सदा सुखी ॥ ३९॥ गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् । तत्रापि कवचं देवि दुर्लभं भुवनत्रये ॥ ४०॥ गुरुर्देवो हरः साक्षात्तत्पत्नी तु हरप्रिया । अभेदेन भजेद्यस्तु तस्य सिद्धिदूरतः ॥ ४१॥ मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये । नाभौ ज्योतिस्तथा रक्तं हृदयोपरि चिन्तयेत् ॥ ४२॥ ऐश्वर्यं सुकवित्वं च महावागिश्वरो नृपः । नित्यं तस्य महेशानि महिलासङ्गमं चरेत् ॥ ४३॥ पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा । शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा ॥ ४४॥ ब्रह्मा विष्णुश्च रुद्रश्च ये देवासुरमानुषाः । तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ ४५॥ स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः । प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् ॥ ४६॥ विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले । प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ॥ ४७॥ इति ते कथितं देवि मया सम्यक्प्रकीर्तितम् । भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम् ॥ ४८॥ आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनं मोहेनापि मदेन चापि रहितो जाड्येन वा युज्यते । सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तके मित्रं तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च ॥ ४९॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि । तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद् ध्रुवम् ॥ ५०॥ इदं कवचमज्ञात्वा तारां यो भजते नरः । अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ॥ ५१॥ लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे । तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ ५२॥ गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा । यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ॥ ५३॥ अष्टम्यां मङ्गलदिने चतुर्द्दश्यामथापि वा । सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः ॥ ५४॥ मघायां श्रवणे वापि रेवत्यां वा विशेषतः । सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥ ५५॥ मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे । लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवेत् ॥ ५६॥ श्मशाने प्रान्तरे वापि शून्यागारे विशेषतः । निशायां वा लिखेन्मन्त्रं तस्य सिद्धिरचञ्चला ॥ ५७॥ भूर्जपत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि । ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः ॥ ५८॥ अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ॥ ५९॥ ॥ इति श्रीरुद्रयामले तन्त्रे उग्रताराकवचं सम्पूर्णम् ॥