श्रीकमलाकवचम् श्रीगणेशाय नमः । ॐ अस्याश्चतुरक्षराविष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषीः । अनुष्टुप्छन्दः । वाग्भवा देवता । वाग्भवं बीजम् । लज्जा शक्तिः । रमा कीलकम् । कामबीजात्मकं कवचम् । मम सुकवित्वपाण्डित्यसमृद्धिसिद्धये पाठे विनियोगः । ऐङ्कारो मस्तके पातु वाग्भवां सर्वसिद्धिदा । ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १॥ जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि । ओष्ठाधारे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २॥ पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ॥ कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३॥ हृदये मणिबन्धे च ग्रीवायां पार्श्वर्योद्वयोः । पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा ॥ ४॥ उपस्थे च नितम्बे च नाभौ जंघाद्वये पुनः । जानुचक्रे पदद्वन्द्वे घुटिकेऽङ्गुलिमूलके ॥ ५॥ स्वधा तु प्राणशक्त्यां वा सीमन्यां मस्तके तथा । सर्वाङ्गे पातु कामेशी महादेवी समुन्नतिः ॥ ६॥ पुष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु । ऋद्धिः पातु सदा देवी सर्वत्र शम्भुवल्लभा ॥ ७॥ वाग्भवा सर्वदा पातु पातु मां हरगेहिनी । रमा पातु महादेवी पातु माया स्वराट् स्वयम् ॥ ८॥ सर्वाङ्गे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी । विजया पातु भवने जया पातु सदा मम ॥ ९॥ शिवदूती सदा पातु सुन्दरी पातु सर्वदा । भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु ॥ १०॥ त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु । पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ॥ ११॥ नवदुर्गाः सदा पातु कामाख्या सर्वदाऽवतु । योगिन्यः सर्वदा पातु मुद्राः पातु सदा सम ॥ १२॥ मात्राः पातु सदा देव्यश्चक्रस्था योगिनी गणाः । सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ॥ १३॥ पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ॥ ॥ इति विश्वसारतन्त्रे श्रीकमलाकवचं सम्पूर्णम् ॥