श्रीसुदर्शनमालामन्त्रस्तोत्रम् अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः । अनुष्टुप् छन्दः । सुदर्शनचक्ररूपी श्रीहरिर्देवता । आचक्राय स्वाहेति बीजम् । सुचक्राय स्वाहेति शक्तिः । ज्वालाचक्राय स्वाहेति कीलकम् । श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः । ॐ आचक्राय स्वाहा । विचक्राय स्वाहा । सुचक्राय स्वाहा । धीचक्राय स्वाहा । ज्वालाचक्राय स्वाहा । सुचक्राय स्वाहेति कराङ्गन्यासौ । ध्यानम् कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेदां रिपुकुलभयदं वज्रदंष्ट्रादृहासम् । शङ्खं चक्रं कराग्रैः पृथुतरमुसलं चापपाशाङ्कुशादीन् बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रसंज्ञम् ॥ ॐ श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा । ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय पराय परमपुरुषाय परमात्मने परमन्त्रपरयन्त्रपरतन्त्रौषधास्त्रशस्त्राणि संहर संहर । मृत्योर्मोचय मृत्योर्मोचय । शत्रून्नाशय नाशय । ॐ नमो भगवते महासुदर्शनाय दीप्त्रे ज्वालापरीताय सर्वदिक्शोभनकराय ब्रह्मणे परञ्ज्योतिषे हुं फट् स्वाहा ॥ इति सुदर्शनमालामन्त्रस्तोत्रं सम्पूर्णम् ।