।।श्रीमद्भगवद्गीता पंचदशोऽध्यायः।। अथ पंचदशोऽध्यायः । (पुरुषोत्तमप्राप्तियोगः) श्रीभगवानुवाच : श्लोक 1 ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थम् प्राहुः अव्ययम् । छन्दांसि यस्य पर्णानि यः तम् वेद सः वेद-वित् ॥ श्लोक 2 अधः च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण-प्रवृद्धाः विषय-प्रवालाः । अधः च मूलानि अनुसंततानि कर्म-अनुबन्धीनि मनुष्य-लोके ॥ श्लोक 3 न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च संप्रतिष्ठा । अश्वत्थम् एनम् सुविरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥ श्लोक 4 ततः पदम् तत् परिमार्गितव्यम् यस्मिन् गताः न निवर्तन्ति भूयः । तम् एव च आद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ श्लोक 5 निर्मान-मोहाः जित-सङ्ग-दोषाः अध्यात्म-नित्याः विनिवृत्त-कामाः । द्वन्द्वैः विमुक्ताः सुख-दुःख-संज्ञैः गच्छन्ति अमूढाः पदम् अव्ययम् तत् ॥ श्लोक 6 न तत् भासयते सूर्यः न शशाङ्कः न पावकः । यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥ श्लोक 7 मम एव अंशः जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानि इन्द्रियाणि प्रकृति-स्थानि कर्षति ॥ श्लोक 8 शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः । गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ श्लोक 9 श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च । अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥ श्लोक 10 उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् । विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ श्लोक 11 यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् । यतन्तः अपि अकृत-आत्मानः न एनम् पश्यन्ति अचेतसः ॥ श्लोक 12 यत् आदित्य-गतम् तेजः जगत् भासयते अखिलम् । यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ श्लोक 13 गाम् आविश्य च भूतानि धारयामि अहम् ओजसा । पुष्णामि च औषधीः सर्वाः सोमः भूत्वा रस-आत्मकः ॥ श्लोक 14 अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः । प्राण-अपान-समायुक्तः पचामि अन्नम् चतुर्विधम् ॥ श्लोक 15 सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च । वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त-कृत् वेद-वित् एव च अहम् ॥ श्लोक 16 द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च । क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ श्लोक 17 उत्तमः पुरुषः तु अन्यः परम-आत्मा इति उदाहृतः । यः लोक-त्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥ श्लोक 18 यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः । अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ श्लोक 19 यः माम् एवम् असंमूढः जानाति पुरुषोत्तमम् । सः सर्व-वित् भजति माम् सर्व-भावेन भारत ॥ श्लोक 20 इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ । एतत् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यः च भारत ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पंचदशोऽध्यायः ॥15 ॥