श्रीमहागणपतिमूलमन्त्रपदमालास्तोत्रम् ॥ मूलमन्त्रम्॥ ॥ ॐ ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ॥ ॥ अथ स्तोत्रम्॥ ॐइत्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं ह्योमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः । ओमित्येव सदा जपन्ति यतयः स्वातमैकनिष्ठाः परं ह्योङ्काराकृतिवक्त्रमिन्दुनिटिलं विघ्नेश्वरं भवाये ॥ १॥ श्रीम्बीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृतिश्रीप्रदम् । स्वान्तःस्थात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं श्रीश्रीनायकसेविते भवदनप्रेमास्पदं भावये ॥ २॥ ह्रीम्बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् । मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ ३॥ क्लीम्बीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां धातृक्ष्मायुतशान्तिबिन्दुविलसद्वर्णात्मकं कामदम् । श्रीकृष्णप्रियमिन्दिरासुतमनःप्रीत्येकहेतुं परं हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ ४॥ ग्लौम्बीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा- हङ्काराकृतिदण्डिनीप्रियमजश्रीनाथरुद्रेष्टदम् । सर्वाकर्षिणिदेवराजभुवनार्णेन्द्वात्मकं श्रीकरं चित्ते विघ्ननिवारणाय गिरिजजातप्रियं भावये ॥ ५॥ गङ्गासुतं गन्धमुखोपचारप्रियं खगारोहणभागिनेयम् । गङ्गासुताद्यं वरगन्धतत्त्वमूलाम्बुजस्थं हृदि भावयेऽहम् ॥ ६॥ गणपतये वरगुणनिधये सुरगणपतये नतजनततये । मणिगणभूषितचरणयुगाश्रितमलहरणे चण ते नमः ॥ ७॥ वराभये मोदकमेकदन्तं कराम्बुजातैः सततं धरन्तम् । वराङ्गचन्द्रं परभक्तिसान्द्रैर्जनैर्भजन्तं कलये सदाऽन्तः ॥ ८॥ वरद नतजनानां सन्ततं वक्रतुण्ड स्वरमयनिजगात्र स्वात्मबोधैकहेतो । करलसदमृताम्भोपूर्णपत्राद्य मह्यं गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ ९॥ सर्वजनं परिपालय शर्वज पर्वसुधाकरगर्वहर । पर्वतनाथसुतासुत पालय खर्वं मा कुरु दीनमिमम् ॥ १० ॥ मेदोऽस्थिमांसरुधिरान्त्रमये शरीरे मेदिन्यबग्निमरुदम्बरलास्यमाने । मे दारुणं मदमुखाघमुमाज हृत्वा मेधाह्वयासनवरे वस दन्तिवक्त्र ॥ ११॥ वशं कुरु त्वं शिवजात मां ते वशीकृताशेषसमस्तलोक । वसार्णसंशोभितमूलपद्मलसच्छ्रियाऽलिङ्तवारणास्य ॥ १२॥ आनयाशुपदवारिजान्तिकं मां नयादिगुणवर्जितं तव । हानिहीनपदजामृतस्य ते पानयोग्यमिभवक्त्र मां कुरु ॥ १३॥ स्वाहास्वरूपेण विराजसे त्वं सुधाशनानां प्रियकर्मणीड्यम् । स्वधास्वरूपेण तु पित्र्यकर्मण्युमासुतेज्यामयविश्वमूर्ते ॥ १४॥ अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् । तुष्ट्यादिप्रदसद्गुरुत्तमपदाम्भोजे चिदानन्ददं शिष्टेष्टोऽहमनन्तसूत्रहृदयाऽऽबद्धं सुभक्त्याऽर्पये ॥ १५॥ ॥ इति श्रीअनन्तानन्दनाथकृतं श्रीगुरुचिदानन्दनाथसमर्पितं श्रीमहागणपतिमूलमन्त्रमालास्तोत्रम् ॥