श्रीभुवनेश्वरीशुद्धशक्तिखड्गमाला विनियोगः-- ॐ अस्य श्रीभुवनेश्वरी-खड्ग-माला-मन्त्रस्य श्रीप्रकाशात्मा ऋषिः, गायत्री छन्दः, श्रीभुवनेश्वरी देवता, हं बीजं, ईं शक्तिः, रं कीलकं, श्रीभुवनेश्वरी-पराम्बा-प्रसन्नार्थे जपे विनियोगः । ऋष्यादि-न्यासः- श्रीप्रकाशात्मा-ऋषये नमः शिरसि, गायत्री-छन्दसे नमः मुखे, श्रीभुवनेश्वरी-देवतायै नमः हृदि, हं बीजाय नमः गुह्ये, ईं शक्तये नमः पादयोः, रं कीलकाय नमः नाभौ, श्रीभुवनेश्वरीपराम्बा-प्रसन्नार्थे जपे विनियोगाय नमः सर्वाङ्गे । ध्यानं- स्मरेद् रवीन्द्वग्नि-विलोचनां तां, सत्पुस्तकां जाप्य-वटीं दधानाम् । सिंहासनां मध्यम-यन्त्र-संस्थां, श्रीतत्त्व-विद्यां पराम्बां भजामि ॥ य एनां-सचिन्तयेन्मन्त्री, सर्व-कामार्थ-सिद्धिदाम् । तस्य हस्ते सदैवास्ति, सर्व-सिद्धिर्न संशयः ॥ तादृशं खड्गमाप्नोति, येन हस्त-स्थितेन वै । अष्टादश-महा-द्वीपे, सम्राट् भोक्ता भविष्यति ॥ ॐ श्रीं ह्रीं श्रीं श्रीभुवनेश्वरी-हृदय-देवि शिरोदेवि शिखा-देवि कवच-देवि नेत्र-देव्यस्त्र-देवि कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये श्रीभुवनेश्वरि दिव्यौघ-गुरु-रूपिणि सिद्धौघ-गुरु-रूपिणि मानवौघ-गुरु-रूपिणि श्री-गुरु-रूपिणि परम-गुरु-रूपिणि परापर-गुरु-रूपिणि परमेष्ठी-गुरु-रूपिणि अमृतभैरव-सहित-श्रीभुवनेश्वरि हृदय-शक्ति शिरः-शक्ति शिखा-शक्ति कवच-शक्ति नेत्र-शक्त्यस्त्र-शक्ति हृल्लेखे गगने रक्ते करालिके महोच्छूष्मे सर्वानन्द-मयचक्र-स्वामिनि! गायत्री-सहित-ब्रह्म-मयि सावित्रीसहित-विष्णु-मयि सरस्वती-सहित-रुद्र-मयि लक्ष्मी-सहित-कुबेर-मयि रति-सहितकाम-मयि पुष्टि-सहित-विघ्न-राज-मयि शङ्ख-निधि-सहित-वसुधा-मयि पद्म-निधि-सहितवसुमति-मयि गायत्र्यादी-सह-श्रीभुवनेश्वरि ह्रां हृदय-दत्वे ह्रीं शिरो-देवि ह्रूं शिखा-देवी ह्रैं कवच-देवि ह्रौं नेत्र-देवि ह्रः अस्त्र-देवि सर्व-सिद्धि-प्रद-चक्र-स्वामिनि! अनङ्ग-कुसुमे अनङ्ग-कुसुमातुरे अनङ्ग-मदने अनङ्ग-मदनातुरे भुवन-पाले गगन-वेगे शशि-रेखे अनङ्ग-वेगे सर्व-रोग-हर-चक्र-स्वामिनि! कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये सर्व-संक्षोभण-चक्र-स्वामिनि! ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे महा-लक्ष्म्यं-ऽनङ्ग-रूपेऽनङ्ग-कुसुमे मदनातुरे भुवन-वेगे भुवन-पालिके सर्व-शिशिरेऽनङ्ग मदनेऽनङ्ग-मेखले सर्वाशा-परिपूरक-चक्र-स्वामिनि! इन्द्र-मय्यग्नि-मयि यम-मयि निऋति-मयि वरुण-मयि वायु मयि सोम-मयीशान-मयि ब्रह्म-मय्यनन्त-मयि वज्र-मय्यग्नि-मयि दण्ड-मयि खड्ग-मयि पाश-मय्यंकुश-मयि गदा-मयि त्रिशूल-मयि पद्म-मयि चक्र-मयि वर-मय्यङ्कुश-मयि पाश मय्यभय-मयि बटुक-मयि योगिनी-मयि क्षेत्रपाल-मयि गण-पति-मय्यष्ट-वसु-मयि द्वादशादित्य-मय्येकादश- रुद्र-मयि सर्व-भूत-मय्यमृतेश्वर-सहितश्रीभुवनेश्वरि त्रैलोक्य-मोहन-चक्र-स्वामिनि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीं श्रीं ॐ ॥ फल-श्रुतिः- कथयामि महादेवि! भुवनेशीं महेश्वरीम् । अनया सदृशो विद्या नान्या ज्ञानस्य साधने ॥ १॥ नात्र चित्त-विशुद्धिर्वा नारि-मित्रादि-दूषणम् । न वा प्रयास-बाहुल्यं समयासमयादिकम् ॥ २॥ देवैर्देवत्व-विधये सिद्धैः खेचर-सिद्धये । पन्नगै राक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः ॥ ३॥ कामिभिर्धर्मिभिश्चार्थ-लिप्सुभिः सेविता परा । न तथा व्यय-बाहुल्यं काम-क्लेश-करं तथा ॥ ४॥ य एवं चिन्तयेन्मन्त्री सर्व-कामार्थ-सिद्धिदाम् । तस्य हस्ते सदैवास्ति सर्व-सिद्धिर्न संशयः ॥ ५॥ गद्य-पद्य-मयी वाणी सभायां विजयी भवेत् । तस्य दर्शन-मात्रेण वादिनो निष्कृतादरः ॥ ६॥ राजानोऽपि हि दासत्वं भजन्ते किं प्रयोजनः । दिवा-रात्रौ पुरश्चर्या कर्तुश्चैव क्षमो भवेत् ॥ ७॥ सर्वस्यैव जनस्येह वल्लभः कीर्ति-वर्धनः । अन्ते च भजते देवी-गणत्वं दुर्लभं नरः ॥ ८॥ चन्द्र-सूर्य-समो भूत्वा वसेत् कल्पायुतं दिवि । न तस्य दुर्लभं किञ्चित् यो वेत्ति भुवनेश्वरीम् ॥ ९॥ इति श्रीभुवनेश्वरीरहस्ये श्रीशुद्धशक्तिखड्गमालास्तोत्रं सम्पूर्णम् ॥