श्रीबालाहृदयम् अस्य श्रीबालात्रिपुरसुन्दरीमालामन्त्रस्य । दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । बालात्रिपुरसुन्दरी देवता । ऐं बीजं क्लीं शक्तिः सौः कीलकम् । बालाप्रीत्यर्थे विनियोगः । मूलेन कराङ्गन्यासौ । ध्यानम् - आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं बन्धूकप्रसवारुणां बरधरां रक्ताम्बुजाध्यासिनीम् । त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ लमित्यादि पञ्च पूजा । आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ह्रीं बाले परमेश्वरि आवेशय आवेशय, आं ह्रीं क्रों हृदये चिरं तिष्ठ तिष्ठ, हुं फट् स्वाहा । हृन्मन्त्रं जपतोऽनेन वाञ्छितं फलति ध्रुवम् । बालाया हृदयं ह्येतत्सर्वपापौघनाशनम् ॥ सर्वपीडापहरणं सर्वसिद्धिप्रदायकम् ॥ इति श्रीबालाहृदयं सम्पूर्णम् ।