श्रीबालामहामालामन्त्रस्तवः अस्य श्रीबालात्रिपुरसुन्दरीमहामालामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थे महामालामन्त्रपारायणे विनियोगः । मूलविद्याद्विरावृत्त्या कर हृदयन्यासः - ध्यानम्- रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ १॥ विद्याक्षमालासुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् । मुक्ताफलालङ्कृतशोभिताङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥ २॥ भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाधूर्णिताक्षीम् । करैर्बीजपूरं कपालेषु चापं सपाशाङ्कुशं रक्तवर्णं दधानाम् ॥ ३॥ व्याख्यानमुद्रामृतकुम्भविद्यामक्षस्रजं सन्दधती कराग्रैः । चिद्रूपिणीं शारद चन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥ लमित्यादि पञ्चपूजां कुर्यात् वं वं वषट् वौषट् श्रौषट् आं ह्रीं क्रों ऐं क्लीं सौः आं ऐं ह्रीं क्लीं सौः । आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ह्सौः नमो भगवति बाला परमेश्वरि । ऐं ह्रीं श्रीं ह्सौः शौः सहक्षमलवरय ईं हसक्षमलवरय ऊं श्रीगुरु परमगुरु परमेष्ठिगुरु परापरगुरुस्वरूपे । ऐं क्लीं सौः सकलजगदुत्पत्ति मातृके । अकारादि क्षकारान्त मातृकावर्णस्वरूपिणि । इच्छा ज्ञान क्रिया शक्त्यात्मिके । ऐं क्लीं सौः बीजत्रयात्मिके । बिन्दुत्रयात्मिके । त्रिकूटात्मके । त्रिगुणात्मके । त्रिखण्डात्मके । त्रिचक्रात्मके । त्रिकोणात्मके । त्र्यक्षरे । त्रिपुरे । ऐं क्लीं सौः पञ्चभूतात्मके । त्रिशक्त्यात्मके । पञ्चकृत्यपरायणे । सृष्टिस्थितिसंहारतिरोधानानुग्रहकारिके । पञ्चप्रेतमञ्चाधिशायिनि । ऐं क्लीं सौः अतलवितलसुतल- तलातलरसातलमहातलपाताल-भूर्लोकभुवर्लोकसुवर्लोक- महोलोकजनोलोकतपोलोकसत्यलोकभुवनैकवीरमात्रे । समुद्यदादित्यसहस्राभे । सोमसूर्याग्निलोचनत्रयराजिते । चन्द्रकलावतंसे । रक्ताम्बरधारिणि । पुस्तकाक्षमालावराभयकरविभूषिते । कनकवज्रवैडूर्यमुक्तालङ्कारभूषिते । ऐं ऐं सौः क्लीं क्लीं ऐं सौः सौः क्लीं नवाक्षरात्मके । नवकोणपुरावासे । नववर्षवयोविशिष्टाङ्गि । बालात्रिपुरे । ब्राह्म्याद्यष्टमातृकापरिसेविते । अणिमाद्यष्टैश्वर्यप्रदे । बालाम्बिके । एह्येहि आगच्छागच्छ । मम शरीरे प्रवेशय प्रवेशय । मम सकलकार्याणि साधय साधय । दुर्गतिं मोचय मोचय । श्रियं प्रापय । प्रापय । आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः । ऐं ऐं नमो बलावागीश्वरि । ऐं ऐं कर्पूरधवलाकारप्रभे । ऐं ऐं व्रजमौक्तिकमुक्तालङ्कारभूषिते । ऐं ऐं मुक्ताक्षमालापुस्तकवराभयकर विभूषिते । ऐं ऐं शुभ्राम्बरधारिणि । ओं ह्रीं ह्स्रैं ह्रीं ओं ऐं धीं क्लीं सौः महासरस्वत्यात्मके । ऐं ऐं महासारस्वतप्रदे । ऐं ऐं वेदवेदाङ्गन्यायमीमांसापुराणधर्मशास्त्रात्मके । मम निखिलभाषासु अनवद्यगद्यपद्यरचनाचातुर्यं दापय दापय । विविधतर्कविगाहितसमस्तशास्त्रसागरगरीयःप्रतिभां प्रापय प्रापय । ऐं ऐं वद वद वाग्वादिनि । ऐं ऐं गङ्गातरङ्गकल्लोलवाक्पटुत्वप्रदे मम सकलभाषासु मृदुमधुररसभावभासुरवाग्जालं देहि देहि । आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः । क्लीं क्लीं नमो भगवति बाला कामेश्वरि । इच्छाकामफलप्रदे । क्लीं क्लीं रक्तगन्धानुलेपने । क्लीं क्लीं बन्धूककुसुमाकारकान्तिभूषण भूषिते । क्लीं क्लीं रक्तालङ्कारभूषिते । क्लीं क्लीं रक्तमाल्याम्बरधारिणि । क्लीं क्लीं इक्षुकोदण्डपुष्पेषुपाशाङ्कुशकरभूषिते । क्लीं क्लीं सर्वसत्त्ववशङ्करि । क्लीं क्लीं सर्वलोकाकर्षिणि । क्लीं क्लीं सकलकामप्रपूरणि । क्लीं क्लीं असाध्यसाधिनि । मम दृष्टादृष्टानां सर्वेषां स्त्रीपुरुषाणां जनानां गतिमति- हृदयचित्तादिकमाकर्षयाकर्षय । वशमानय वशमानय । सम्मोहय सम्मोहय । आं ऐं ह्रीं क्लीं क्रों सौः । आं ह्रीं क्रों ऐं क्लीं सौः । सौः सौः नमो बाला सौभाग्येश्वरि । सौः सौः हेमप्रभाभासमाने । सौः सौः विद्युन्निकरनमत्प्रभे । सौः सौः स्फुरचन्द्रकलापूर्णे । कलशवरदाभयज्ञानमुद्राकरविभूषिते । सौः सौः स्रवत्पीयूषधाराभिवर्षिणि । महासौन्दर्य सुभगे । सौः सौः महामृत्युविनाशिनि । सौः सौः सर्वशत्रुसंक्षोभिणि । मम शत्रुभिः कृत-क्रियमाण-करिष्यमाण निखिलमन्त्रयन्त्रतन्त्रप्रयोगान् उच्चाटय उच्चाटय । विविध प्रयोगान् नाशय नाशय । सौः सौः सर्वशत्रुभयङ्करि । मम शत्रूणां वाक्चित्तचक्षुर्जिह्वागलचेष्टादिकान् स्तम्भय स्तम्भय । आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः नमो बाला त्रिपुरसुन्दरि । ऐं क्लीं सौः सर्वोपद्रवनाशिनि । राजचोरसर्पसिंहवृश्चिकव्याघ्राग्निजलविषादिकोत्पन्नान् सर्वोपद्रवान् नाशय नाशय । ऐं क्लीं सौः सर्वव्याधिविनाशिनि । सर्वरोगान्नाशय नाशय । आरोग्यं दापय दापय । ऐं क्लीं सौः महासाम्राज्यदायिनि । ऐं क्लीं सौः सर्वसम्पत्प्रपूरणि । सर्वसौभाग्यप्रदे । महासम्पत्प्रदे मम सकलैश्वर्यं दापय दापय । ऐं क्लीं सौः जये विजये जिते अपराजिते सकललोकजयप्रदे मम सर्वत्र सर्वदा यशोविजयादिकं देहि देहि । सकुटुम्बं सपरिवारं मां रक्ष रक्ष आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः सकलजगन्नुतायै श्रीबालात्रिपुरसुन्दर्यै ह्रीं हुं फट् स्वाहा । अनेन मया कृतेन श्रीबालात्रिपुरसुन्दरीमहामालामन्त्रजपेन भगवती सर्वात्मिका श्रीबालात्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ! श्रीबालात्रिपुरसुन्दरीचरणसमर्पितोऽस्तु ! इति श्रीबालामहामालामन्त्रस्तवः सम्पूर्णः ।