श्रीचिदम्बरदिग्बन्धनमालामन्त्रः ॐ अस्य श्री चिदम्बरमालामन्त्रस्य, सदाशिव ऋषिः, महा विराट् छन्दः, श्रीचिदम्बरेश्वरो देवता । हं बीजं, सः शक्तिः, सोऽहं कीलकं, श्रीमच्चिदम्बरेश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ ह्रीं श्रीं ह्रां शिवाय नमः । अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं श्रीं ह्रीं मशिवायन । तर्जनीभ्यां नमः । ॐ ह्रीं श्रीं ह्रूं नमः शिवाय । मध्यमाभ्यां नमः । ॐ ह्रीं श्रीं ह्रैं यनमशिवा । अनामिकाभ्यां नमः । ॐ ह्रीं श्रीं ह्रौं वायनमशि । कनिष्ठिकाभ्यां नमः । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रम् । करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम्- लोकानाहूय सर्वान् डमरुकनिनदैः घोरसंसारमग्नान् दत्वाऽभीतिं दयालुः प्रणत भयहरं कुञ्चितं पादपद्मम् । उद्धृत्येदं विमुक्तेरयनमिति करैः प्राणिनां प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायाच्छिवो नः ॥ लमित्यादिपञ्चपूजा । १. ॐ नमो भगवते आनन्दताण्डवेश्वराय जटामकुटधराय चन्द्रशेखराय विष्णुवल्लभाय श्रीशिवकामसुन्दरीमनोहराय पञ्चाक्षरपरिपूर्णाय ॐ लं लं लं लौं इन्द्रद्वारं *बन्धय बन्धय मां रक्ष रक्ष । मम शत्रून् भक्षय भक्षय । मम सर्वकार्याणि साधय साधय । सर्वदुष्टग्रहान्बन्धय बन्धय । हुं फट् स्वाहा (१) ॥ १. बन्धय .....स्वाहा इति प्रतिमन्त्रमनुवर्तते । २. ॐ नमो भगवते ऊर्ध्वताण्डवेश्वराय व्याघ्रचर्माम्बरधारण प्रियाय कृष्णसर्पयज्ञोपवीताय अनेककोटिब्रह्मकपालमालालङ्कृताय श्री शिवकामसुन्दरीमनोहराय पञ्चाक्षरपरिपूर्णाय ॐ रं रं रं रौं अग्निद्वारं बन्धय .....स्वाहा । ३. ॐ नमो भगवते उन्मत्तताण्डवेश्वराय उग्रत्रिणेत्राय भस्मोद्धूलितविग्रहाय रुद्राक्षमालाभरणाय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ हं हं हं हौं यमद्वारं बन्धय .....स्वाहा । ४. ॐ नमो भगवते हुङ्कारताण्डवेश्वराय त्रिशूलडमरुककपालमृगहस्ताय नीलकण्ठाय निरञ्जनाय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ षं षं षं षौं निरृति द्वारं बन्धय .....स्वाहा । ५. ॐ नमो भगवते उग्रत्रिशूलताण्डवेश्वराय चन्द्रशेखराय गङ्गाधराय परशुहस्ताय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ वं वं वं वौं वरुणद्वारं बन्धय .....स्वाहा । ६. ॐ नमो भगवते विजयताण्डवेश्वराय उरगमणिभूषणाय शार्दूलचर्मवसनाय सकलरिपुरम्पटविमोचनाय श्री शिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ यं यं यं यौं वायुद्वारं बन्धय .....स्वाहा । ७. ॐ नमो भगवते भीमताण्डवेश्वराय भूतप्रेत- पिशाचब्रह्मराक्षस संहारकाय अनेककोटिप्रमथगण पूजिताय श्रीशिवकामसुन्दरीमनोहराय पञ्चाक्षरपरिपूर्णाय ॐ सं सं सं सौं कुबेरद्वारं बन्धय .....स्वाहा । ८. ॐ नमो भगवते उग्रताण्डवेश्वराय अघोरवीरभद्राट्टहासाय कालहन्त्रे वायुवेगाय चञ्चलस्वरूपाय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ शं शं शं शौं ईशानद्वारं बन्धय .....स्वाहा । ९. ॐ नमो भगवते अमृतताण्डवेश्वराय आकाशगमनाय नन्दिवाहनप्रियाय गजचर्माम्बरधराय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ ठं ठं ठं ठौं आकाशद्वारं बन्धय .....स्वाहा । १०. ॐ नमो भगवते संहारताण्डवेश्वराय अपमृत्युविनाशनाय कालमृत्युसंहारकारणाय अनेककोटिभूतग्रहमर्दनाय सकललोक- नायकाय श्रीशिवकामसुन्दरीमनोहराय पञ्चाक्षरपरिपूर्णाय ॐ क्षं क्षं क्षं क्षौं अन्तरिक्षद्वारं बन्धय .....स्वाहा । ११. ॐ नमो भगवते अघोरताण्डवेश्वराय आभिचारविच्छेदनाय सर्वरक्षाकरेश्वराय परमानन्दस्वरूपाय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ न्यं न्यं न्यं न्यौं पातालद्वारं बन्धय .....स्वाहा । १२. ॐ नमो भगवते प्रलयकालताण्डवेश्वराय शशाङ्कशेखराय अनेककोटिगणनाथसेवितप्रियाय समस्तभूतप्रेतपिशाचदमनाय कालदेशपञ्चकाचञ्चलस्वरूपाय श्रीशिवकामसुन्दरी मनोहराय पञ्चाक्षरपरिपूर्णाय ॐ यं यं यं यौं आकर्षय आकर्षय । ब्रह्मराक्षसग्रहान् आकर्षय आकर्षय । बन्धय बन्धय । भक्षय भक्षय । ज्वालय ज्वालय । शोषय शोषय । क्ष्म्रौं कृं खं खेचरस्वरूपाय नागग्रहं आकर्षय आकर्षय । आवेशय आवेशय । १३. ॐ नमो भगवते आदिचिदम्बरेश्वराय पतञ्जलिव्याघ्रपाद सेवितप्रियाय अनेककोटिभूत लोकनायकाय अचञ्चलस्वरूपाय मम आत्मानं रक्ष रक्ष । परमन्त्रान् छिन्धि छिन्धि । परयन्त्रान् छिन्धि छिन्धि । ज्रां ज्रां ज्रां ज्रौं ह्रीङ्कार नाथाय श्रीङ्कारपीठाय क्लीङ्काररूपाय ओङ्कारमनुपाय राजग्रहं स्तम्भय स्तम्भय । चोरग्रहं स्तम्भय स्तम्भय । अनुभोगग्रहं स्तम्भय स्तम्भय । मूकग्रहं स्तम्भय स्तम्भय । म्लेच्छग्रहं स्तम्भय स्तम्भय । यक्षिणीग्रहं स्तम्भय स्तम्भय । कामिनीग्रहं स्तम्भय स्तम्भय । १४. ॐ नमो भगवते श्रीचिदम्बरेश्वराय जटामकुटधराय कृष्णसर्पयज्ञोपवीताय व्याघ्रचर्माम्बरधराय अनेककोटि- नागभूषिताय ॐ सौं सौं सौं सौं श्रीचिदम्बरेश्वराय बालग्रहं संहर संहर । ज्वालाग्रहं संहर संहर । ज्वरग्रहं संहर संहर । उच्छिष्टग्रहं संहर संहर । गन्धर्वग्रहं संहर संहर । देवताग्रहं संहर संहर । क्लीं क्लीं क्लीं (क्लौं) क्लीङ्काररूपाय हं हं हं हौं अनावृतनृत्तप्रियाय टीं टीं टीं ऐङ्कारप्रियाय आदिचिदम्बरेश्वराय ग्रामदेवताग्रहं स्तम्भय स्तम्भय । झटिकग्रहं स्तम्भय स्तम्भय । झौटिकग्रहं स्तम्भय स्तम्भय । शिव शिव हर हर आं लं लं लं लौं स्तम्भय स्तम्भय । आतोषय आतोषय । क्रां क्रीं क्रोडय । ह्रां ह्रीं ह्रौं मारय मारय शत्रून् । द्रां द्रीं द्रौं विद्रावय विद्रावय द्विषतः । दह दह । पच पच । दं दं दं दौं दमय दमय आद्रावय आकर्षय आवेशय आवेशय शिवद्रोहपातकान् नाशय नाशय । १५. ॐ नमो भगवते युगप्रपञ्चताण्डवेश्वराय उग्रत्रिणेत्राय रुद्राय पञ्चाक्षरपरिपूर्णाय रुद्राक्षमालाभरणाय भस्मोद्धूलितविग्रहाय एकाहज्वरं शमय शमय । त्र्यहज्वरं मासज्वरं द्वैमासिकज्वरं त्रैमासिकज्वरं षाण्मासिकज्वरं वत्सरज्वरं पित्तज्वरं श्लेष्मज्वरं (कफज्वरं) वातज्वरं सर्वज्वरं शमय शमय । १६. ॐ नमो भगवते महोग्रताण्डवेश्वराय रुद्राज्ञापरिपालनाय सर्वशत्रुसंहारकाय ॐ यं यं यं यौं ज्वालामुखग्रहं उच्चाटय उच्चाटय । शक्तिग्रहं उच्चाटय उच्चाटय । डाकिनीग्रहं उच्चाटय उच्चाटय । शाकिनीग्रहं उच्चाटय उच्चाटय । कूष्माण्डग्रहं उच्चाटय उच्चाटय । भेतालग्रहं उच्चाटय उच्चाटय । द्वात्रिंशद् यक्षिणीर्मोहय मोहय हुं फट् स्वाहा । १७. ॐ नमो भगवते सर्वसंहारताण्डवाय प्रलयाग्नि प्रभाय सहस्रशिरोभिर्युताय द्विसहस्रभुजाय चत्वारिंशत्सहस्रनखाय सकलायुधपाणिने वज्रताण्डवाय वज्रदेहाय सदाशिवाय स्वतन्त्रपरिपालकाय स्वमन्त्रपरिपालकाय स्वयन्त्रपरिपालकाय ॐ क्षं क्षं क्षं क्षौं विष्णुवल्लभाय चतुष्कोटिपिशाचान् आकर्षय आकर्षय । षोडश गणपतीन् आकर्षय आकर्षय । अष्टकोटि भैरवान् आकर्षय आकर्षय । नवकोटिदुर्गाः आकर्षय आकर्षय । दशकोटिकालीः आकर्षय आकर्षय । सप्तकोटिशास्तॄन् आकर्षय आकर्षय । पञ्चकोटिकूष्माण्डान् आकर्षय आकर्षय । नवकोटिरुद्रान् आकर्षय आकर्षय । अष्टकोटिविष्णुग्रहान् आकर्षय आकर्षय । पञ्चकोटि- ब्रह्मग्रहान् आकर्षय आकर्षय । पञ्चकोटि इन्द्रग्रहान् आकर्षय आकर्षय । कालदण्डान् ताडय ताडय । सप्तकोटि पैशाचान् आकर्षय आकर्षय । प्रें प्रैं कालपाशेन बन्धय बन्धय । भीषय भीषय ज्वालय ज्वालय । शोषय शोषय । उच्चाटय उच्चाटय । मारय मारय । हुं फट् स्वाहा । १८. ॐ नमो भगवते अदृहासमहाभीमताण्डवेश्वराय भक्तगणसंरक्षकाय सर्वमृत्युनिवारणाय सर्वरोगशमनाय सर्वशत्रून् शीघ्रं संहर संहर । अमृतानन्दस्वरूपाय ॐ हुं हुं हुं हुङ्कारनाथाय वज्रकवचाय पं पं पं पौं श्री शिवकामसुन्दरीमनोहराय आभिचारं छिन्धि छिन्धि । ॐ हौं हौं हौं अनन्तस्वरूपाय सकलदेवतासेविताय सकलजनसेविताय सर्वसम्मोहनाय श्रीचिदम्बरेश्वराय नादहरिप्रियाय विष्णुवाद्यप्रियाय बाणासुरसेविताय ब्रह्मवाद्यप्रियाय तुम्बुरुनारद- सेविताय कल्याणीरागप्रियाय चन्द्रसूर्य सेविताय लक्ष्मीसेविताय समस्तगणवाद्यघोषप्रियाय श्री आनन्दताण्डवेश्वराय शिव शिव शिव शरणम् । शिवानन्दरूपाय ओङ्कारमण्डपाय श्रीचिदम्बरेश्वराय नमो नमस्ते । ॐ ॐ ॐ ॐ ॐ श्रीं ह्रीं ऐं क्लीं सौः हंस हंस हर हर शिव शिव नमो नमस्ते । यः चिदम्बरमालामन्त्रमधीते स सर्वसिद्धिं लभते । स सर्वसौभाग्यं लभते लभत इति । हृदयादिन्यासः । भूर्भुवस्सुवरों इति दिग्विमोकः । ध्यानम् । लमित्यादि । गुह्यातिगुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा । इति समर्पयेत् । इति श्रीचिदम्बरदिग्बन्धनमालामन्त्रः सम्पूर्णः ।