।।श्रीमद्भगवद्गीता चतुर्दशोऽध्यायः।। अथ चतुर्दशोऽध्यायः (गुणत्रयविभागयोगः) श्रीभगवानुवाच: (1) परम् - भूयः - प्रवक्ष्यामि - ज्ञानानाम् - ज्ञानम् - उत्तमम् । यत् - ज्ञात्वा - मुनयः - सर्वे - पराम् - सिद्धिम् - इतः - गताः ॥ (2) इदम् - ज्ञानम् - उपाश्रित्य - मम - साधर्म्यम् - आगताः । सर्गे - अपि - न - उपजायन्ते - प्रलये - न - व्यथन्ति - च ॥ (3) मम - योनिः - महत् - ब्रह्म - तस्मिन् - गर्भम् - दधामि - अहम् । संभवः - सर्वभूतानाम् - ततः - भवति - भारत ॥ (4) सर्वयोनिषु - कौंतेय - मूर्तयः - संभवन्ति - याः । तासाम् - ब्रह्म - महत् - योनिः - अहम् - बीजप्रदः - पिता ॥ (5) सत्त्वम् - रजः - तमः - इति - गुणाः - प्रकृतिसंभवाः । निबध्नन्ति - महाबाहो - देहे - देहिनम् - अव्ययम् ॥ (6) तत्र - सत्त्वम् - निर्मलत्वात् - प्रकाशकम् - अनामयम् । सुखसंगेन - बध्नाति - ज्ञानसंगेन - च - अनघ ॥ (7) रजः - रागात्मकम् - विद्धि - तृष्णासंगसमुद्भवम् । तत् - निबध्नाति - कौंतेय - कर्मसंगेन - देहिनम् ॥ (8) तमः - तु - अज्ञानजम् - विद्धि - मोहनम् - सर्वदेहिनाम् । प्रमाद - आलस्य - निद्राभिः - तत् - निबध्नाति - भारत ॥ (9) सत्त्वम् - सुखे - संजयति - रजः - कर्मणि - भारत । ज्ञानम् - आवृत्य - तु - तमः - प्रमादे - संजयति - उत ॥ (10) रजः - तमः - च - अभिभूय - सत्त्वम् - भवति - भारत । रजः - सत्त्वम् - तमः - च - एव - तमः - सत्त्वम् - रजः - तथा ॥ (11) सर्वद्वारेषु - देहे - अस्मिन् - प्रकाशः - उपजायते । ज्ञानम् - यदा - तदा - विद्याद् - विवृद्धम् - सत्त्वम् - इति - उत ॥ (12) लोभः - प्रवृत्तिः - आरंभः - कर्मणाम् - अशमः - स्पृहा । रजसि - एतानि - जायन्ते - विवृद्धे - भरतर्षभ ॥ (13) अप्रकाशः - अप्रवृत्तिः - च - प्रमादः - मोहः - एव - च । तमसि - एतानि - जायन्ते - विवृद्धे - कुरुनंदन ॥ (14) यदा - सत्त्वे - प्रवृद्धे - तु - प्रलयम् - याति - देहभृत् । तदा - उत्तमविदाम् - लोकान् - अमलान् - प्रतिपद्यते ॥ (15) रजसि - प्रलयम् - गत्वा - कर्मसंगिषु - जायते । तथा - प्रलीनः - तमसि - मूढयोनिषु - जायते ॥ (16) कर्मणः - सुकृतस्य - आहुः - सात्त्विकम् - निर्मलम् - फलम् । रजसः - तु - फलम् - दुःखम् - अज्ञानम् - तमसः - फलम् ॥ (17) सत्त्वात् - संजायते - ज्ञानम् - रजसः - लोभः - एव - च । प्रमाद - मोहौ - तमसः - भवतः - अज्ञानम् - एव - च ॥ (18) ऊर्ध्वम् - गच्छन्ति - सत्त्वस्थाः - मध्ये - तिष्ठन्ति - राजसाः । जघन्यगुणवृत्तिस्थाः - अधः - गच्छन्ति - तामसाः ॥ (19) न - अन्यं - गुणेभ्यः - कर्तारम् - यदा - द्रष्टा - अनुपश्यति । गुणेभ्यः - च - परम् - वेत्ति - मद्भावम् - सः - अधिगच्छति ॥ (20) गुणान् - एतान् - अतीत्य - त्रीन् - देही - देहसमुद्भवान् । जन्म - मृत्यु - जरा - दुःखैः - विमुक्तः - अमृतम् - अश्नुते ॥ अर्जुन उवाच: (21) कैः - लिंगैः - त्रीन् - गुणान् - एतान् - अतीतः - भवति - प्रभो । किम् - आचारः - कथम् - च - एतान् - त्रीन् - गुणान् - अतिवर्तते ॥ श्रीभगवानुवाच: (22) प्रकाशम् - च - प्रवृत्तिम् - च - मोहम् - एव - च - पांडव । न - द्वेष्टि - संप्रवृत्तानि - न - निवृत्तानि - कांक्षति ॥ (23) उदासीनवत् - आसीनः - गुणैः - यः - न - विचाल्यते । गुणाः - वर्तन्ते - इति - एव - यः - अवतिष्ठति - न - इंगते ॥ (24) समदुःखसुखः - स्वस्थः - समलोष्टाश्मकांचनः । तुल्यप्रियाप्रियः - धीरः - तुल्यनिन्दात्मसंस्तुतिः ॥ (25) मान - अपमानयोः - तुल्यः - तुल्यः - मित्र - अरिपक्षयोः । सर्वारंभपरित्यागी - गुणातीतः - सः - उच्यते ॥ (26) माम् - च - यः - अव्यभिचारेण - भक्तियोगेन - सेवते । सः - गुणान् - समतीत्य - एतान् - ब्रह्मभूयाय - कल्पते ॥ (27) ब्रह्मणः - हि - प्रतिष्ठा - अहम् - अमृतस्य - अव्ययस्य - च । शाश्वतस्य - च - धर्मस्य - सुखस्य - एकान्तिकस्य - च ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥14 ॥