उमाऽक्षरमालास्तोत्रम् अक्षरं वाक्पथातीतं ऋक्षराजनिभाननम् । रक्षताद्वाम नः किञ्चिदुक्षवाहनमोहनम् ॥ १॥ आकाशकेशमहिषीं आकारविजितोर्वशीम् । आशाहिनजनध्येयां आशापालार्चितां नुमः ॥ २॥ इन्द्रप्रभृतिगीर्वाणवन्दिताङ्घ्रिकुशेशया । चन्द्रस्तनन्धयापीडजाया विजयतेतराम् ॥ ३॥ ईश्वरीं सर्वभूतानां कः शिवां स्तोतुमीश्वरः । चतुर्भिरसमेतो ना वदनैरुतबाहुभिः ॥ ४॥ उमा नामादिमा भामा वामा श्यामा विमानमा । विमानमान्यमाया मा भिमा रामानुमातु मा ॥ ५॥ ऊरुं तं दक्षिणं मातुः स्मरामि निजमासनम् । यस्मादहं परिभ्रष्टः कल्की भूभुवनं गतः ॥ ६॥ ऋषीणां चक्षुषो ज्योतिः बाला शैलस्य चक्षुषः । हरस्य चक्षुषः कान्ता मातोमा मम चक्षुषः ॥ ७॥ ॠकारं वेष्टितं द्वाभ्यां नाभ्यामुभयतो दिशम् । आकारो वा क्षमः पातुं स चन्द्रेण वतंसितः ॥ ८॥ लृकारः शीतलापाङ्गि ककारेणेव सर्वदा । श्लिष्ट एव त्वया गौरि मेरुधन्वा प्रयुज्यये ॥ ९॥ लॄकारोऽम्ब त्वया बाल्ये कलभाषिणि भाषितः । नचेदयमसन्वर्णो गृह्यते कथमागमे ॥ १०॥ एणस्तनन्धयालोकं एकान्तालोचनामृतम् । एकाम्रनायकदृशोर्भाग्यं विजयतेतराम् ॥ ११॥ ऐश्वर्यं कः पुमानीष्टे गिरिजायाः प्रभाषितुम् । चामरग्राहिणी यस्याः स्वयमम्भोजवासिनी ॥ १२॥ ओङ्कार इव शर्वस्य ह्रीङ्कारस्तव वाचकः । अनयोरम्बिके भेदं यो न वेद स वेद ना ॥ १३॥ औदार्ये देवता धेनुः सौन्दर्ये मणिपुत्रिका । स्वयं शक्तिर्नगसुता त्रिलोकी राज्यमर्हति ॥ १४॥ अंसयोर्विनतं सम्यगुन्नतं कुचकुम्भयोः ॥ अमृतं शङ्करदृशोः परं जयति दैवतम् ॥ १५॥ अः कुण्ठित्तोऽभवद्येषु तेषु दर्शितविक्रमा । यातुधानेषु भीमेषु पातु वो भीमभामिनी ॥ १६॥ कमलासुतेन यत्रात् कृतानि शृङ्गारतन्त्रसूत्राणि । स्तोकान्यपि बहुलार्थान्यगजाहसितानि पान्तु त्वाम् ॥ १७॥ खं भवती भूर्भवती पवनो भवती हुताशनो भवती । सलिलं च देवि भवती भवतीं हित्वा न किञ्चिदपि ॥ १८॥ गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः । अधरमणौ त्रिपुरजिते दधासि पीयूषमम्ब त्वम् ॥ १९॥ घनमतिदायकवेणी वाणीपतिमुख्यदेवताविनुता । पुररिपुपाणिगृहीती पूर्णं विदधातु मे कामम् ॥ २०॥ ङत्वं वादस्य लिपौ मातः केनापि लिङ्गभेदेन । त्वद्रूपता पुरारेस्तदभावे तु द्वयोरैक्यम् ॥ २१॥ चञ्चलविशालनयना तुङ्गकुचा चञ्चरीकनीलकचा । पञ्चमुखस्य पुरन्ध्री जगतोंऽहःसञ्चयं हरतु ॥ २२॥ छत्रग्रहणनियोज्या दशशतनेत्रस्य भामिनी यस्याः । तस्याश्चरणमुमाया भवातपे क्लिश्यतां छत्रम् ॥ २३॥ जम्बुकनायकनयनज्योत्स्नेयं रङ्गशायिनो भगिनी । अखिलानामण्डानामधिराज्ञी विजयते चण्डी ॥ २४॥ झङ्कृतिं करोति चेन्नमत्तषट्पदावली यन्मुखाम्बुजन्मना सुगन्धिना निमन्त्रिता । कर्णकुन्तलभ्रमाद्भवेन नैव वार्यते शैलशक्रपुत्रिका धुनोतु सा मम भ्रमम् ॥ २५॥ ञमङणनाः सम्प्रोक्त्ता चपकटताख्येषु गौरि वर्गेषु । उत्तमसंज्ञाः प्राज्ञैः नरवर्गे तु त्वदङ्घ्रिरताः ॥ २६॥ टङ्कृतिमुखरितदिक्कं सज्यं बाणासनं करे दधती । ध्येया माया शबरी शत्रुभयं तर्तुकामेन ॥ २७॥ ठङ्कमपूर्वं लक्ष्म्या प्रहसन्प्रवदस्यलं तु वदनस्य । परितो मुनिभिर्गीतः परिग्रहो धूर्जटेर्जयति ॥ २८॥ डमरुधरो भगवानपि गायति यस्याः शुभं गुणव्रातम् । तस्याः शिखरिसुताया नाकृतपुण्यो भवेद्वन्दी ॥ २९॥ ढक्कादिवाद्यहस्तप्रमथसमाराधितश्रवणयुग्मा । शुभ्रकिरणार्धमौलेः शुद्धान्तविलासिनी जयती ॥ ३०॥ णटधात्वर्थे चतुरो नाथो यस्यास्तरङ्गिणीधारी । अगपुरुहूतसुता सा करोतु मे मानसे नटनम् ॥ ३१॥ तनुकान्तिविजितकनका तरणिः संसारधोरजलराशेः । तरुणारुणाभचरणा तनोतु मे गिरिसुता क्षेमम् । ३२॥ थस्येव यस्य नास्ति प्रारम्भो येन न द्वितीयत्वम् । तस्य गृणन्त्यक्षरता यस्मिन्नपि तन्महो जयति ॥ ३३॥ दरहसितद्विगुणीकृतमुखकान्तिर्जयति पुरजितः कान्ता। नयनोन्मेषविलासो यस्याः सकलानि भुवनानि ॥ ३४॥ धरणीधरस्य दुहिता धरणीधरवासिनो वधूर्दयिता। धरणीविटस्य भगिनी धरणीमेतामुमा पातु ॥ ३५॥ नगजे पायं पायं लावण्यसुधां त्वदीयगात्रस्य । नयनाञ्जलिना शूली बभूव मृत्युञ्जयो मन्ये ॥ ३६॥ पतिरुग्रदृष्टिरुग्रो युवराजोऽयं सदा मदोपेतः । तव राज्ञि न करुणा चेद् भुवनस्य कथं शुभं भवतु ॥ ३७॥ फलितं ममाम्ब सुकृतं कालेनैतावता न सन्देहः । यद् भवदीयं स्तोत्रं पवित्रमीशानि रचयामि ॥ ३८॥ बलिभिर्निपीड्यमानानबलान् पातुं गृहीतजननाय । बलमम्ब देहि मह्यं बलिमेतत्कल्पयामि मनः ॥ ३९॥ भवदीयस्य महेश्वरि कटाक्षनाम्नो नवस्य मेधस्य । प्रावृषमहमाशङ्के करुणां कल्याणतोयमुचः ॥ ४०॥ मतिरहितः स्तुवसि त्वं यं कञ्चन धनपिशाचिकाविष्टम् । इष्टं च नैव लभसे पश्य जगन्मातरं स्तुत्वा ॥ ४१॥ यमिनां स्मर्तुं योग्यं निगमागमवाक्यसञ्चयैर्मृग्यम् । मूर्तं लोचनभाग्यं पुरामरेर्जयति नीपवने ॥ ४२॥ रथचरणपाणिभगिनी दानवदमनी नमद्विपच्छमनी । भुवनत्रयस्य जननी विन्ध्ये धरणीधरे जयति ॥ ४३॥ ललनाजनप्रकाण्डं कलनादपरास्तबालकलकण्ठम् । पुरवैरिणः कलत्रं मुरवैरि समर्चितं भज रे ॥ ४४॥ वन्द्यमुमापदकमलं निन्द्यमिदं सङ्गकारणसदनम् । वयसि सकलेऽप्यतीते नयसि मुधा मुग्ध किं कालम् । । ४५॥ शम्बरशात्रवशात्रवकलत्रपदमित्रमहमहो धन्यः । भूमण्डले विशाले सदृशः पुरुषो मया कोऽन्यः । ४६॥ षड्वदनस्य सवित्री षण्णां हन्त्री मनः सपत्रानाम् । षड्भिर्गम्यं मार्गैर्भर्गस्य पुरन्ध्रिकास्थानम् ॥ ४७॥ सर्वत्र सङ्गमुक्तो गर्ववियुक्तः स्वतन्त्रसञ्चारः । निर्वर्णयन् कदा वा शर्ववधूधाम विहरामि ॥ ४८॥ हरिमुखवन्दितचरणा हरिणाङ्कमदापहास्यरजीवा । हरिणस्तनन्धयाक्षि हरिनायकवाहना जयति ॥ ४९॥ क्षत्रियान्तकारिणः प्रसूत्वमेव केवलं नाप कापि यत्कला ममापि मातृतामगात् । दुष्टलोकमारिणी नृसिंहशक्तिरूपिणी धूर्जटेर्वधूटिका धुनोतु सा मदापदम् ॥ ५०॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः उमाऽक्षरमाला समाप्ता ॥