अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य - भृगु ऋषिः - अनुष्टुप् छन्दः - महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं - श्रीअष्टलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै, ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी, धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी, वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय, सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं जहि जहि, सर्वसौभाग्यं कुरु कुरु, ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥ इति श्रीअष्टलक्ष्मीमालामन्त्रं सम्पूर्णम् ।