।।श्रीमातङ्गीस्तोत्रम् ।। मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् । ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥ मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः । श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥ जयदेवि विशालाक्षि जय सर्वेश्वरि जय । जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३॥ महाविश्वेश दयिते जय ब्रह्मादि पूजिते । पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४॥ जयमातर्महाकृष्णे जय नीलोत्पलप्रभे । मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५॥ जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः । सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६॥ सर्वापदां नाशकरीं सर्वदारिद्रयनाशिनीम् । नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७॥ नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते । नमस्तुभ्यं महावाणि महालक्ष्मि नमोऽस्तुते ॥ ८॥ महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् । एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९॥ सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः । विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १०॥ राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः । दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११॥ महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् । अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२॥ लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् । अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३॥ श्रीराजमातङगी पादुकार्पणमस्तु । इति श्रीमातङ्गीस्तोत्रं सपूर्णम्।