।।श्रीमद्भगवद्गीता द्वादशोऽध्यायः।। अथ द्वादशोऽध्यायः (भक्तियोगः) अर्जुन उवाच: एवम् - सतत - युक्ताः - ये - भक्ताः - त्वाम् - पर्युपासते । ये - च - अपि - अक्षरम् - अव्यक्तम् - तेषाम् - के - योग - वित्तमाः ॥ 1 ॥ श्रीभगवानुवाच: मयि - आवेश्य - मनः - ये - माम् - नित्य - युक्ताः - उपासते । श्रद्धया - परया - उपेताः - ते - मे - युक्त - तमाः - मताः ॥ 2 ॥ ये - तु - अक्षरम् - अनिर्देश्यम् - अव्यक्तम् - पर्युपासते । सर्वत्र - गम् - अचिन्त्यम् - च - कूटस्थम् - अचलम् - ध्रुवम् ॥ 3 ॥ संनियम्य - इन्द्रिय - ग्रामम् - सर्वत्र - सम - बुद्धयः । ते - प्राप्नुवन्ति - माम् - एव - सर्व - भूत - हिते - रताः ॥ 4 ॥ क्लेशः - अधिकतरः - तेषाम् - अव्यक्त - आसक्त - चेतसाम् । अव्यक्ता - हि - गतिः - दुःखम् - देह - वद्भिः - अवाप्यते ॥ 5 ॥ ये - तु - सर्वाणि - कर्माणि - मयि - संन्यस्य - मत् - पराः । अनन्येन - एव - योगेन - माम् - ध्यायन्तः - उपासते ॥ 6 ॥ तेषाम् - अहम् - समुद्धर्ता - मृत्यु - संसार - सागरात् । भवामि - न - चिरात् - पार्थ - मयि - आवेशित - चेतसाम् ॥ 7 ॥ मयि - एव - मनः - आधत्स्व - मयि - बुद्धिम् - निवेशय । निवसिष्यसि - मयि - एव - अतः - ऊर्ध्वम् - न - संशयः ॥ 8 ॥ अथ - चित्तम् - समाधातुम् - न - शक्नोषि - मयि - स्थिरम् । अभ्यास - योगेन - ततः - माम् - इच्छ - आप्तुम् - धनंजय ॥ 9 ॥ अभ्यासे - अपि - असमर्थः - असि - मत् - कर्म - परमो - भव । मद् - अर्थम् - अपि - कर्माणि - कुर्वन् - सिद्धिम् - अवाप्स्यसि ॥ 10 ॥ अथ - एतत् - अपि - अशक्तः - असि - कर्तुम् - मत् - योगम् - आश्रितः । सर्व - कर्म - फल - त्यागम् - ततः - कुरु - यत - आत्मवान् ॥ 11 ॥ श्रेयः - हि - ज्ञानम् - अभ्यासात् - ज्ञानात् - ध्यानम् - विशिष्यते । ध्यानात् - कर्म - फल - त्यागः - त्यागात् - शान्तिः - अनन्तरम् ॥ 12 ॥ अद्वेष्टा - सर्व - भूतानाम् - मैत्रः - करुणः - एव - च । निर्ममः - निरहंकारः - सम - दुःख - सुखः - क्षमी ॥ 13 ॥ सन्तुष्टः - सततम् - योगी - यत - आत्मा - दृढ - निश्चयः । मयि - अर्पित - मनः - बुद्धिः - यः - मत् - भक्तः - सः - मे - प्रियः ॥ 14 ॥ यस्मात् - न - उद्विजते - लोकः - लोकात् - न - उद्विजते - च - यः । हर्ष - अमर्ष - भय - उद्वेगैः - मुक्तः - यः - सः - च - मे - प्रियः ॥ 15 ॥ अनपेक्षः - शुचिः - दक्षः - उदासीनः - गत - व्यथः । सर्व - आरम्भ - परित्यागी - यः - मत् - भक्तः - सः - मे - प्रियः ॥ 16 ॥ यः - न - हृष्यति - न - द्वेष्टि - न - शोचति - न - काङ्क्षति । शुभ - अशुभ - परित्यागी - भक्तिमान् - यः - सः - मे - प्रियः ॥ 17 ॥ समः - शत्रौ - च - मित्रे - च - तथा - मान - अपमानयोः । शीत - उष्ण - सुख - दुःखेषु - समः - सङ्ग - विवर्जितः ॥ 18 ॥ तुल्य - निन्दा - स्तुतिः - मौनी - सन्तुष्टः - येन - केन - चित् । अनिकेतः - स्थिर - मतिः - भक्तिमान् - मे - प्रियः - नरः ॥ 19 ॥ ये - तु - धर्म्य - अमृतम् - इदम् - यथा - उक्तम् - पर्युपासते । श्रद्दधानाः - मत् - परमा - भक्ताः - ते - अतीव - मे - प्रियाः ॥ 20 ॥ ॐ - तत् - सत् - इति - श्रीमद् - भगवद् - गीतासु - उपनिषत्सु - ब्रह्म - विद्यायाम् - योग - शास्त्रे - श्री - कृष्ण - अर्जुन - संवादे । भक्ति - योगः - नाम - द्वादशः - अध्यायः ॥ 12 ॥