।।श्रीमद्भगवद्गीता दशमोऽध्यायः।। अथ दशमोऽध्यायः । (विभूतियोगः) श्रीभगवानुवाच । 1 भूयः - एव - महाबाहो - शृणु - मे - परमम् - वचः । यत् - ते - अहम् - प्रीयमाणाय - वक्ष्यामि - हितकाम्यया ॥ 2 न - मे - विदुः - सुरगणाः - प्रभवम् - न - महर्षयः । अहम् - आदिः - हि - देवानाम् - महर्षीणाम् - च - सर्वशः ॥ 3 यः - माम् - अजम् - अनादिम् - च - वेत्ति - लोकमहेश्वरम् । असंमूढः - सः - मर्त्येषु - सर्वपापैः - प्रमुच्यते ॥ 4 बुद्धिः - ज्ञानम् - असंमोहः - क्षमा - सत्यम् - दमः - शमः । सुखम् - दुःखम् - भवः - अभावः - भयम् - च - अभयम् - एव - च ॥ 5 अहिंसा - समता - तुष्टिः - तपः - दानम् - यशः - अयशः । भवन्ति - भावाः - भूतानाम् - मतः - एव - पृथक् - विधाः ॥ 6 महर्षयः - सप्त - पूर्वे - चत्वारः - मनवः - तथा । मत् - भावाः - मानसा - जाताः - येषाम् - लोकः - इमाः - प्रजाः ॥ 7 एताम् - विभूतिम् - योगम् - च - मम - यः - वेत्ति - तत्त्वतः । सः - अविकम्पेन - योगेन - युज्यते - न - अत्र - संशयः ॥ 8 अहम् - सर्वस्य - प्रभवः - मत्तः - सर्वम् - प्रवर्तते । इति - मत्वा - भजन्ते - माम् - बुधाः - भावसमन्विताः ॥ 9 मत् - चित्ताः - मत् - गत - प्राणाः - बोधयन्तः - परस्परम् । कथयन्तः - च - माम् - नित्यम् - तुष्यन्ति - च - रमन्ति - च ॥ 10 तेषाम् - सतत - युक्तानाम् - भजताम् - प्रीति - पूर्वकम् । ददामि - बुद्धि - योगम् - तम् - येन - माम् - उपयान्ति - ते ॥ 11 तेषाम् - एव - अनुकम्पा - अर्थम् - अहम् - अज्ञान - जम् - तमः । नाशयामि - आत्म - भाव - स्थः - ज्ञान - दीपेन - भास्वता ॥ 12 अर्जुन उवाच: परम् - ब्रह्म - परम् - धाम - पवित्रम् - परमम् - भवान् । पुरुषम् - शाश्वतम् - दिव्यम् - आदि - देवम् - अजम् - विभुम् ॥ 13 आहुः - त्वाम् - ऋषयः - सर्वे - देवर्षिः - नारदः - तथा । असितः - देवलः - व्यासः - स्वयम् - च - एव - ब्रवीषि - मे ॥ 14 सर्वम् - एतत् - ऋतम् - मन्ये - यत् - माम् - वदसि - केशव । न - हि - ते - भगवन् - व्यक्तिम् - विदुः - देवाः - न - दानवाः ॥ 15 स्वयम् - एव - आत्मना - आत्मानम् - वेत्थ - त्वम् - पुरुषोत्तम । भूत - भावन - भूतेश - देव - देव - जगत् - पते ॥ 16 वक्तुम् - अर्हसि - अशेषेण - दिव्याः - हि - आत्म - विभूतयः । याभिः - विभूतिभिः - लोकान् - इमान् - त्वम् - व्याप्य - तिष्ठसि ॥ 17 कथम् - विद्याम् - अहम् - योगिन् - त्वाम् - सदा - परिचिन्तयन् । केषु - केषु - च - भावेषु - चिन्त्यः - असि - भगवन् - मया ॥ 18 विस्तरेण - आत्मनः - योगम् - विभूतिम् - च - जनार्दन । भूयः - कथय - तृप्तिः - हि - शृण्वतः - न - अस्ति - मे - अमृतम् ॥ 19 श्रीभगवानुवाच: हन्त - ते - कथयिष्यामि - दिव्याः - हि - आत्म - विभूतयः । प्राधान्यतः - कुरु - श्रेष्ठ - न - अस्ति - अन्तः - विस्तारस्य - मे ॥ 20 अहम् - आत्मा - गुडाकेश - सर्व - भूत - आशय - स्थितः । अहम् - आदिः - च - मध्यम् - च - भूतानाम् - अन्तः - एव - च ॥ 21 आदित्यानाम् - अहम् - विष्णुः - ज्योतिषाम् - रविः - अंशुमान् । मरीचिः - मरुताम् - अस्मि - नक्षत्राणाम् - अहम् - शशी ॥ 22 वेदानाम् - सामवेदः - अस्मि - देवानाम् - अस्मि - वासवः । इन्द्रियाणाम् - मनः - च - अस्मि - भूतानाम् - अस्मि - चेतना ॥ 23 रुद्राणाम् - शंकरः - च - अस्मि - वित्तेशः - यक्ष - रक्षसाम् । वसूनाम् - पावकः - च - अस्मि - मेरुः - शिखरिणाम् - अहम् ॥ 24 पुरोधसाम् - च - मुख्यम् - माम् - विद्धि - पार्थ - बृहस्पतिम् । सेनानीनाम् - अहम् - स्कन्दः - सरसाम् - अस्मि - सागरः ॥ 25 महर्षीणाम् - भृगुः - अहम् - गिराम् - अस्मि - एकम् - अक्षरम् । यज्ञानाम् - जप - यज्ञः - अस्मि - स्थावराणाम् - हिमालयः ॥ 26 अश्वत्थः - सर्व - वृक्षाणाम् - देवर्षीणाम् - च - नारदः । गन्धर्वाणाम् - चित्ररथः - सिद्धानाम् - कपिलः - मुनिः ॥ 27 उच्चैःश्रवसम् - अश्वानाम् - विद्धि - माम् - अमृत - उद्भवम् । ऐरावतम् - गजेन्द्राणाम् - नराणाम् - च - नराधिपम् ॥ 28 आयुधानाम् - अहम् - वज्रम् - धेनूनाम् - अस्मि - कामधुक् । प्रजनः - च - अस्मि - कन्दर्पः - सर्पाणाम् - अस्मि - वासुकिः ॥ 29 अनन्तः - च - अस्मि - नागानाम् - वरुणः - यादसाम् - अहम् । पितॄणाम् - अर्यमा - च - अस्मि - यमः - संयमताम् - अहम् ॥ 30 प्रह्लादः - च - अस्मि - दैत्यानाम् - कालः - कलयताम् - अहम् । मृगाणाम् - च - मृगेन्द्रः - अहम् - वैनतेयः - च - पक्षिणाम् ॥ 31 पवनः - पवताम् - अस्मि - रामः - शस्त्रभृताम् - अहम् । झषाणाम् - मकरः - च - अस्मि - स्रोतसाम् - अस्मि - जाह्नवी ॥ 32 सर्गाणाम् - आदिः - अन्तः - च - मध्यम् - च - एव - अहम् - अर्जुन । अध्यात्म - विद्या - विद्यानाम् - वादः - प्रवदताम् - अहम् ॥ 33 अक्षराणाम् - अकारः - अस्मि - द्वन्द्वः - सामासिकस्य - च । अहम् - एव - अक्षयः - कालः - धाता - अहम् - विश्वतोमुखः ॥ 34 मृत्युः - सर्व - हरः - च - अहम् - उद्भवः - च - भविष्यताम् । कीर्तिः - श्रीः - वाक् - च - नारीणाम् - स्मृतिः - मेधा - धृतिः - क्षमा ॥ 35 बृहत्साम - तथा - साम्नाम् - गायत्री - छन्दसाम् - अहम् । मासानाम् - मार्गशीर्षः - अहम् - ऋतूनाम् - कुसुमाकरः ॥ 36 द्यूतम् - छलयताम् - अस्मि - तेजः - तेजस्विनाम् - अहम् । जयः - अस्मि - व्यवसायः - अस्मि - सत्त्वम् - सत्त्ववताम् - अहम् ॥ 37 वृष्णीनाम् - वासुदेवः - अस्मि - पाण्डवानाम् - धनंजयः । मुनीनाम् - अपि - अहम् - व्यासः - कवीनाम् - उशनाः - कविः ॥ 38 दण्डः - दमयताम् - अस्मि - नीतिः - अस्मि - जिगीषताम् । मौनम् - च - एव - अस्मि - गुह्यानाम् - ज्ञानम् - ज्ञानवताम् - अहम् ॥ 39 यत् - च - अपि - सर्व - भूतानाम् - बीजम् - तत् - अहम् - अर्जुन । न - तत् - अस्ति - विना - यत् - स्यात् - मया - भूतम् - चराचरम् ॥ 40 न - अन्तः - अस्ति - मम - दिव्यानाम् - विभूतीनाम् - परंतप । एषः - तु - उद्देशतः - प्रोक्तः - विभूतेः - विस्तारः - मया ॥ 41 यत् - यत् - विभूतिमत् - सत्त्वम् - श्रीमत् - ऊर्जितम् - एव - वा । तत् - तत् - एव - अवगच्छ - त्वम् - मम - तेजः - अंश - सम्भवम् ॥ 42 अथवा - बहुना - एतेन - किम् - ज्ञातेन - तव - अर्जुन । विष्टभ्य - अहम् - इदम् - कृत्स्नम् - एक - अंशेन - स्थितः - जगत् ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥10 ॥...