II श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम् II दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका । सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ 1 ॥ सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा । भूमिजा निर्गुणाऽऽधारशक्ति श्चानीश्वरी तथा ॥ 2 ॥ निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी । सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ 3 ॥ पार्वती देवमाता च वनीशा विन्ध्यवासिनी । तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ 4 ॥ देवता वह्निरूपा च सतेजा वर्णरूपिणी । गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥ 5 ॥ कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी । धर्मज्ञा धर्मनिष्ठा च सर्वकर्मविवर्जिता ॥ 6 ॥ कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता । शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ॥ 7 ॥ सुजया जयभूमिष्ठा जाह्नवी जनपूजिता । शास्त्री शास्त्रमयी नित्या शुभा चन्द्रार्धमस्तका ॥ 8 ॥ भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला । ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिस्रुता ॥ 9 ॥ ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्यधिकारिणी । ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ॥ 10 ॥ कात्यायनी कलातीता कालसंहारकारिणी । योगनिष्ठा योगिगम्या योगिध्येया तपस्विनी ॥ 11 ॥ ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा । भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ 12 ॥ स्वधा नारीमध्यगता षडाधारादिवर्धिनी । मोहितांशुभवा शुभ्रा सूक्ष्मा माता निरालसा ॥ 13 ॥ निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा । सर्वज्ञानप्रदाऽऽनन्ता सत्या दुर्लभरूपिणी ॥ 14 ॥ सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी । इति श्रीदुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥