।।श्रीमद्भगवद्गीता सप्तमोऽध्यायः।। अथ सप्तमोऽध्यायः (ज्ञान-विज्ञान-योगः) श्रीभगवान्-उवाच : मयि- आसक्त- मनाः- पार्थ- योगम्- युञ्जन्- मत्- आश्रयः । असंशयम्- समग्रम्- माम्- यथा- ज्ञास्यसि- तत्- शृणु ॥ 1 ॥ ज्ञानम्- ते- अहम्- स- विज्ञानम्- इदम्- वक्ष्यामि- अशेषतः । यत्- ज्ञात्वा- न- इह- भूयः- अन्यत्- ज्ञातव्यम्- अवशिष्यते ॥ 2 ॥ मनुष्याणाम्- सहस्रेषु- कश्चित्- यतति- सिद्धये । यतताम्- अपि- सिद्धानाम्- कश्चित्- माम्- वेत्ति- तत्त्वतः ॥ 3 ॥ भूमिः- आपः- अनलः- वायुः- खम्- मनः- बुद्धिः- एव- च । अहंकारः- इति- इयम्- मे- भिन्ना- प्रकृतिः- अष्टधा ॥ 4 ॥ अपरा- इयम्- इतः- तु- अन्याम्- प्रकृतिम्- विद्धि- मे- पराम् । जीव- भूताम्- महा- बाहो- यया- इदम्- धार्यते- जगत् ॥ 5 ॥ एतत्- योनिनि- भूतानि- सर्वाणि- इति- उपधारय । अहम्- कृत्स्नस्य- जगतः- प्रभवः- प्रलयः- तथा ॥ 6 ॥ मतः- परतरम्- न- अन्यत्- किञ्चित्- अस्ति- धनञ्जय । मयि- सर्वम्- इदम्- प्रोतम्- सूत्रे- मणि- गणाः- इव ॥ 7 ॥ रसः- अहम्- अप्सु- कौन्तेय- प्रभा- अस्मि- शशि- सूर्ययोः । प्रणवः- सर्व- वेदेषु- शब्दः- खे- पौरुषम्- नृषु ॥ 8 ॥ पुण्यः- गन्धः- पृथिव्याम्- च- तेजः- च- अस्मि- विभावसौ । जीवनम्- सर्व- भूतेषु- तपः- च- अस्मि- तपस्विषु ॥ 9 ॥ बीजम्- माम्- सर्व- भूतानाम्- विद्धि- पार्थ- सनातनम् । बुद्धिः- बुद्धि- मताम्- अस्मि- तेजः- तेजस्विनाम्- अहम् ॥ 10 ॥ बलम्- बलवताम्- च- अहम्- काम- राग- विवर्जितम् । धर्म- अविरुद्धः- भूतेषु- कामः- अस्मि- भरत- ऋषभ ॥ 11 ॥ ये- च- एव- सात्त्विकाः- भावाः- राजसाः- तामसाः- च- ये । मतः- एव- इति- तान्- विद्धि- न- तु- अहम्- तेषु- ते- मयि ॥ 12 ॥ त्रिभिः- गुण- मयैः- भावैः- एभिः- सर्वम्- इदम्- जगत् । मोहितम्- न- अभिजानाति- माम्- एभ्यः- परम्- अव्ययम् ॥ 13 ॥ दैवी- हि- एषा- गुण- मयी- मम- माया- दुरत्यया । माम्- एव- ये- प्रपद्यन्ते- मायाम्- एताम्- तरन्ति- ते ॥ 14 ॥ न- माम्- दुष्कृतिनः- मूढाः- प्रपद्यन्ते- नराधमाः । मायया- अपहृत- ज्ञानाः- आसुरम्- भावम्- आश्रिताः ॥ 15 ॥ चतुर्विधाः- भजन्ते- माम्- जनाः- सुकृतिनः- अर्जुन । आर्तः- जिज्ञासुः- अर्थार्थी- ज्ञानी- च- भरत- ऋषभ ॥ 16 ॥ तेषाम्- ज्ञानी- नित्य- युक्तः- एक- भक्तिः- विशिष्यते । प्रियः- हि- ज्ञानिनः- अत्यर्थम्- अहम्- सः- च- मम- प्रियः ॥ 17 ॥ उदाराः- सर्वे- एव- एते- ज्ञानी- तु- आत्मा- एव- मे- मतम् । आस्थितः- सः- हि- युक्त- आत्मा- माम्- एव- अनुत्तमाम्- गतिम् ॥ 18 ॥ बहूनाम्- जन्मनाम्- अन्ते- ज्ञानवान्- माम्- प्रपद्यते । वासुदेवः- सर्वम्- इति- सः- महात्मा- सु- दुर्लभः ॥ 19 ॥ कामैः- तैः- तैः- हृत- ज्ञानाः- प्रपद्यन्ते- अन्य- देवताः । तम्- तम्- नियमम्- आस्थाय- प्रकृत्या- नियताः- स्वया ॥ 20 ॥ यः- यः- याम्- याम्- तनुम्- भक्तः- श्रद्धया- अर्चितुम्- इच्छति । तस्य- तस्य- अचलाम्- श्रद्धाम्- ताम्- एव- विदधामि- अहम् ॥ 21 ॥ सः- तया- श्रद्धया- युक्तः- तस्य- आराधनम्- ईहते । लभते- च- ततः- कामान्- मया- एव- विहितान्- हि- तान् ॥ 22 ॥ अन्तवत्- तु- फलम्- तेषाम्- तत्- भवति- अल्प- मेधसाम् । देवान्- देव- यजः- यान्ति- मत्- भक्ताः- यान्ति- माम्- अपि ॥ 23 ॥ अव्यक्तम्- व्यक्तिम्- आपन्नम्- मन्यन्ते- माम्- अबुद्धयः । परम्- भावम्- अजानन्तः- मम- अव्ययम्- अनुत्तमम् ॥ 24 ॥ न- अहम्- प्रकाशः- सर्वस्य- योग- माया- समावृतः । मूढः- अयम्- न- अभिजानाति- लोकः- माम्- अजम्- अव्ययम् ॥ 25 ॥ वेद- अहम्- समतीतानि- वर्तमानानि- च- अर्जुन । भविष्याणि- च- भूतानि- माम्- तु- वेद- न- कश्चन ॥ 26 ॥ इच्छा- द्वेष- समुत्थेन- द्वन्द्व- मोहेन- भारत । सर्व- भूतानि- संमोहम्- सर्गे- यान्ति- परन्तप ॥ 27 ॥ येषाम्- तु- अन्त- गतम्- पापम्- जनानाम्- पुण्य- कर्मणाम् । ते- द्वन्द्व- मोह- निर्मुक्ताः- भजन्ते- माम्- दृढ- व्रताः ॥ 28 ॥ जरा- मरण- मोक्षाय- माम्- आश्रित्य- यतन्ति- ये । ते- ब्रह्म- तत्- विदुः- कृत्स्नम्- अध्यात्मम्- कर्म- च- अखिलम् ॥ 29 ॥ स- अधिभूत- अधिदैवम्- माम्- स- अधियज्ञम्- च- ये- विदुः । प्रयाण- काले- अपि- च- माम्- ते- विदुः- युक्त- चेतसः ॥ 30 ॥ ॐ- तत्- सत्- इति- श्रीमद्- भगवद्- गीतासु- उपनिषत्सु- ब्रह्म- विद्यायाम्- योग- शास्त्रे- श्री- कृष्ण- अर्जुन- संवादे ज्ञान- विज्ञान- योगः- नाम- सप्तमः- अध्यायः ॥ 7 ॥