पवित्रीकरण मंत्र : ॐ अपवित्र: पवित्रो वा सर्वावस्थाङ्गतोऽपि वा। य: स्मरेत् पुण्डरीकाक्षं स: बाह्याऽभंतर: शुचि:॥ ॐ पुण्डरीकाक्षः पुनातु ॥ हाथ में गंगाजल/जल लेकर इस मंत्र से शरीर और सभी वस्तुओं पर छिड़के । आसन पवित्रीकरण मंत्र : ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुनाधृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥ इस मंत्र से आसन पर जल छिड़क कर आसनशुद्धि करें। आचमन : ॐ केशवाय नमः॥ ॐ माधवाय नमः॥ ॐ नारायणाय नमः॥ मुख व हस्त मार्जन (२ बार) ॐ हृषिकेशाय नमः॥ ॐ गोविन्दाय नमः॥ तिलक : ॐ चन्दनं वन्द्यते नित्यं पवित्रं पापनाशनं। आपदां हरते नित्यं लक्ष्मीर्वसतु सर्वदा ॥ पंञ्चदेवता पूजन : अक्षत : इदं अक्षतं ॐ गणपत्यादि पञ्चदेवता: इहागच्छत इह तिष्ठत ॥ जल : एतानि पाद्यार्घाचमनीयस्नानीयानि ॐ गणपत्यादि पञ्चदेवताभ्यो नम: ॥ फूल चंदन : इदं सचंदनपुष्पं ॐ गणपत्यादि पञ्चदेवताभ्यो नम: ॥ अक्षत : इदं अक्षतं ॐ गणपत्यादि पञ्चदेवताभ्यो नम: ॥ जल : एतानि गंधपुष्पधूपदीपताम्बूल यथाभागनैवेद्यं ॐ गणपत्यादि पञ्चदेवताभ्यो नम: ॥ जल : आचमनीयं पुनराचमनीयम् ॐ गणपत्यादि पञ्चदेवताभ्यो नम: ॥ फूल : पुष्पांजलिं ॐ गणपत्यादि पञ्चदेवताभ्यो नम: ॥ विसर्जन : ॐ गणपत्यादि पञ्चदेवता: पूजितास्थ प्रसीदत प्रसन्ना: भवत छमध्वं स्व-स्व स्थानं गच्छत ॥ विष्णु पूजन मंत्र : तिल-यव : एते यवतिलाः ॐ भूर्भुवः स्व: भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ॥ जल : एतानि पाद्यार्घाचमनीयस्नानीयानि ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः। फूल चंदन : इदं सचंदनपुष्पं ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः ॥ तिल-यव : एते यवतिलाः ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः ॥ तुलसी : एतानि तुलसीदलानि ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः ॥ जल : एतानि गंधपुष्पधूपदीपताम्बूल यथाभागनैवेद्यं ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः ॥ जल : आचमनीयं पुनराचमनीयम् ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः ॥ फूल : पुष्पांजलिं ॐ भूर्भुवः स्व: भगवते श्री विष्णवे नमः ॥ विसर्जन : ॐ भूर्भुवः स्व: भगवन् विष्णो पूजितोसि प्रसीद प्रसन्नो भव छमस्व स्व स्थानं गच्छ ॥ स्वस्ति वाचन : ॐ स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥ भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वा ᳪ स॑स्त॒नूभि॒र्व्य॑शेमहि दे॒वहि॑तं॒ यदायुः॑ ॥ श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚न्त॒नूना᳚म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ॥ अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे᳚ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥ द्यौः शान्ति॑र॒न्तरि॑क्ष॒ ᳪ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोषध॑यः॒ शान्तिः॑। वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ ᳪ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥ यतो यत: समीहसे ततो नो अभयं कुरु । शं न: कुरु प्रजाभ्यो भयं न: पशुभ्य: ॥ सुशान्तिर्भवतु ॥ श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमा महेश्वराभ्यां नमः । वाणीहिरण्य-गर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वाभ्यो देवीभ्यो नमः। सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ दिग्बंधन मंत्र : ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ बांयें हाथ पीली सरसों लेकर दाहिने हाथ से ढंककर अभिमंत्रित करे, तत्पश्चात दशों दिशाओं में छिड़काव करना चाहिए। रक्षाबंधन या मौली बांधना : ॐ येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन त्वामनुबध्नामि रक्षे मा चल मा चल ॥ इस मंत्र से रक्षासूत्र बांधे। संकल्प विधि :- त्रिकुशा, पान-सुपारी, पुष्प-चंदन, तिल-जल, तुलसी-द्रव्य (रुपया) आदि दाहिने हाथ में लेकर संकल्प मंत्र पढें । ॐ अस्यां रात्रौ मासानां मासोत्तमे ………. मासे ………. पक्षे ……….. तिथौ ………… वासरे ……….. गोत्रस्य मम श्री ……….. शर्मणः/वर्मणः/गुप्तः (सपत्नीकः) सपरिवारस्य सकल दुरितोपसर्गापच्छान्ति पूर्वक दीर्घायु शरीरारोग्य कामनया धन-धान्य-बल-पुष्टि-कीर्ति-यश लाभार्थं, सकल मनोरथ सिध्यर्थं श्रुति स्मृति पुराणतन्त्रोक्त फलप्राप्त्यर्थं श्रीसत्यनारायण प्रीत्यर्थं यथामिलितोपचारैः अङ्गदेवता पूजन पूर्वकं श्रीसत्यनारायण पूजनं तद्व्रतकथा श्रवणं चाऽहं करिष्ये ॥ यदि दिन में पूजा कर रहे हों तो संकल्प करते समय अस्यां रात्रौ के स्थान पर अद्य कहे। कलश स्थापना विधि संकल्प के बाद कलश स्थापन करे। रात में कलश स्थापन करने का निषेध किया गया है इसलिये बिना मंत्र के ही स्थापना कर लें। अक्षत पुष्प से प्राण-प्रतिष्ठा करें : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों३ प्रतिष्ठ ॥ ॐ शान्तिपूर्णकलशाधिष्ठित गणेशादि देवताः अस्मिन्कलशे सुप्रतिष्ठिता: वरदा: भवन्तु ॥ ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ पंचोपचार पूजा मंत्र : कलश स्थापन पूजन विधि जल : एतानि पाद्यार्घाचमनीय-स्नानीय-पुनराचमनीयानि ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ चंदन : इदमनुलेपनं ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ पुष्प : इदं पुष्पं ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ (माला, दूर्वा, अक्षत आदि भी अर्पित करे) धूप : एष धूपः ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ दीप : एष दीपः ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ नैवेद्य : एतानि नैवेद्यानि ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ जल : आचमनीयं पुनराचमनीयम् ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ पुष्पांजलि : नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमंगलाय। सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते॥ एष मंत्र पुष्पांजलिं ॐ शान्तिपूर्ण कलशाधिष्ठित गणेशादि देवताभ्यो नमः॥ अङ्गदेवता पूजन : एक थाली में या चौकी आदि पर अष्टदल बना कर सभी पर पान-सुपारी-नैवेद्य आदि देकर पूर्व दिशा से क्रमशः पूजा करें : १. लक्ष्मी : इदं अक्षतं ॐ भूर्भुवः स्वः श्रीलक्ष्मि इहागच्छ इह तिष्ठ। आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्री लक्ष्म्यै नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ०, इदमनुलेपनं ०, इदं सिन्दूराभरणं०, इदमक्षतं०, इदं पुष्पं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्री लक्ष्म्यै नमः। २. सरस्वती : इदं अक्षतं ॐ भूर्भुवः स्वः श्रीसरस्वति इहागच्छ इह तिष्ठ। आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ०, इदमनुलेपनं ०, इदं सिन्दूराभरणं०, इदमक्षतं०, इदं पुष्पं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। ३. आदिपुरुष : इदं अक्षतं ॐ भूर्भुवः स्वः श्रीआदिपुरुष इहागच्छ इह तिष्ठ। आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीआदिपुरुषाय नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ० , इदमनुलेपनं ०, इदमक्षतं०, इदं पुष्पं०, इदं तुलसीपत्रं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीआदिपुरुषाय नमः। ४. अनादिपुरुष : इदं अक्षतं ॐ भूर्भुवः स्वः श्रीअनादिपुरुष इहागच्छ इह तिष्ठ। आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीअनादिपुरुषाय नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ०, इदमनुलेपनं ०, इदमक्षतं०, इदं पुष्पं०, इदं तुलसीपत्रं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीअनादिपुरुषाय नमः। ५. दश-दिक्पाल : इदं अक्षतं ॐ भूर्भुवः स्वः श्रीइन्द्रादि दशदिक्पालाः इहागच्छत इह तिष्ठत । आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीइन्द्रादि दशदिक्पालेभ्यो नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ०, इदमनुलेपनं ०, इदमक्षतं०, इदं पुष्पं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीइन्द्रादि दशदिक्पालेभ्यो नमः। ६. नवग्रह : इदं अक्षतं ॐ भूर्भुवः स्वः श्रीसूर्यादि नवग्रहाः इहागच्छत इह तिष्ठत । आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीसूर्यादि नवग्रहेभ्यो नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ० , इदमनुलेपनं ०, इदमक्षतं०, इदं पुष्पं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीसूर्यादि नवग्रहेभ्यो नमः। ७. सीता-राम-लक्ष्मण : ॐ भूर्भुवः स्वः श्रीससीतरामलक्ष्मणौ इहागच्छतं इह तिष्ठतं । आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीससीतरामलक्ष्मणाभ्यां नमः॥ एतानि पाद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ०, इदमनुलेपनं ०, एते यवतिलाः, इदं पुष्पं०, इदं तुलसीपत्रं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीससीतरामलक्ष्मणाभ्यां नमः। ८. आठवें दल पर गौरीशंकर की पूजा सत्यनारायण भगवान की पूजा के बाद करें। श्री सत्यनारायण पूजा विधि: १. तिल-जौ लेकर प्रतिष्ठा करें – ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञᳪ समिमं दधातु। विश्वे देवा स ऽइह मादयन्तामों३ प्रतिष्ठ ॥ ॐ भूर्भुवः स्वः भगवन् श्री सत्यनारायण इहागच्छ इह तिष्ठ ॥ च पराङ्गतिम् ॥ एतानि नैवेद्यानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ अपुङ्गनैवेद्यं – ॐ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम्। गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ॥ इदमपुङ्गनैवेद्यम् ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ पृथुकान्नानि – ॐ कदलीगुड़ संमिश्रमामतण्डुलसंयुतम् । शर्करादिसमायुक्तं नैवेद्यं प्रतिगृह्राताम् ॥ एतानि पृथुकान्नानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ शीतलप्रसाद – ॐ शर्कराकदलीयुक्तं गोदुग्धेन समन्वितम् । नैवेद्यमुत्तमं देव गृहाण पुरुषोत्तम ॥ एतानि सुस्वादुदिव्यान्नं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ फल – ॐ फलान्यमृतकल्पानि स्थापितानि पुरतस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ एतानि फलानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ दही-चूरा-चीनी – एतानि ससित दधिचिपटान्नानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ जल – ॐ सर्वपापहरं दिव्यं गाङ्गेयं निर्मल जलम् । दत्तमाचमनीयं ते गृहाण पुरुषोत्तम॥ इदं आचमनीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ ताम्बूल – ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ इदं ताम्बूलं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ आभूषण अथवा आभूषण हेतु द्रव्य – ॐ काञ्चनं रजतोपेतं नानारत्नसमन्वितम् । भूषणार्थं च देवेश गृहाण जगतीपते ॥ इदं भूषणं (भूषणार्थं द्रव्यं) ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ पुष्पाञ्जलि मंत्र : ॐ अमोघं पुण्डरीकाक्षं नृसिहं दैत्यसूदनम् । हृषीकेशं जगन्नाथं वागीशं वरदायकम् ॥ गुणत्रयं गुणातीतं गोविन्दं गरुडध्वजम् । जनार्दनं जनानन्दं जानकीवल्लभं जयम् ॥ प्रणमामि सदा सत्यनारायणमतः परम् । दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ॥ विविधापत्सु दुष्टेषु तथान्येष्वपि यद्भयं । नामान्येतानि सङ्कीर्त्यं ईप्सितं फलमाप्नुयात्॥ सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् । लीलया च ततो विश्वं येन तस्मै नमो नमः ॥ एष मंत्रपुष्पाञ्जलिः ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥ तत्पश्चात गौरीशङ्कर की पूजा करें : ॐ भूर्भुवः स्वः गौरीशंकरौ इहागच्छतं इह तिष्ठतं । आवाहन करके सभी वस्तुओं से पूजा करें, पूजन मंत्र – ॐ भूर्भुवः स्वः श्रीगौरीशंकराभ्यां नमः। एतानि पाद्यार्घाचमनीयस्नानीय,-पुनराचमनीयानि ०, इदमनुलेपनं ०, इदं अक्षतं०, इदं पुष्पं०, इदं बिल्वपत्रं०, एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल यथाभागं नैवेद्यं०, इदमाचमनीयं ०, इदं दक्षिणा-द्रव्यं०, एष पुष्पाञ्जलिः – ॐ भूर्भुवः स्वः श्रीगौरीशंकराभ्यां नमः। इसके बाद व्रत कथा का श्रवण करें।