।।श्रीमद्भगवद्गीता षष्ठोऽध्यायः।। अथ षष्ठोऽध्यायः (आत्मसंयमयोगः) श्रीभगवान्-उवाच । अनाश्रितः- कर्म-फलम्- कार्यम्- कर्म- करोति- यः । सः- संन्यासी- च- योगी- च- न- निरग्निः- न- च- अक्रियः ॥ 1 ॥ यम्- संन्यासम्- इति- प्राहुः- योगम्- तम्- विद्धि- पाण्डव । न- हि- असंन्यस्त- संकल्पः- योगी- भवति- कश्चन ॥ 2 ॥ आरुरुक्षोः- मुनेः- योगम्- कर्म- कारणम्- उच्यते । योग- आरूढस्य- तस्य- एव- शमः- कारणम्- उच्यते ॥ 3 ॥ यदा- हि- न- इन्द्रिय- अर्थेषु- न- कर्मसु- अनुसज्जते । सर्व- संकल्प- संन्यासी- योग- आरूढः- तदा- उच्यते ॥ 4 ॥ उद्धरेत्- आत्मना- आत्मानम्- न- आत्मानम्- अवसादयेत् । आत्मा- एव- हि- आत्मनः- बन्धुः- आत्मा- एव- रिपुः- आत्मनः ॥ 5 ॥ बन्धुः- आत्मा- आत्मनः- तस्य- येन- आत्मा- एव- आत्मना- जितः । अनात्मनः- तु- शत्रुत्वे- वर्तेत- आत्मा- एव- शत्रुवत् ॥ 6 ॥ जित- आत्मनः- प्रशान्तस्य- परमात्मा- समाहितः । शीत- उष्ण- सुख- दुःखेषु- तथा- मान- अपमानयोः ॥ 7 ॥ ज्ञान- विज्ञान- तृप्त- आत्मा- कूटस्थः- विजित- इन्द्रियः । युक्तः- इति- उच्यते- योगी- सम- लोष्ट- अश्म- काञ्चनः ॥ 8 ॥ सुहृत्- मित्र- अरि- उदासीन- मध्यस्थ- द्वेष्य- बन्धुषु । साधुषु- अपि- च- पापेषु- सम- बुद्धिः- विशिष्यते ॥ 9 ॥ योगी- युञ्जीत- सततम्- आत्मानम्- रहसि- स्थितः । एकाकी- यत- चित्त- आत्मा- निराशीः- अपरिग्रहः ॥ 10 ॥ शुचौ- देशे- प्रतिष्ठाप्य- स्थिरम्- आसनम्- आत्मनः । न- अति- उच्छ्रितम्- न- अति- नीचम्- चैल- अजिन- कुश- उत्तरम् ॥ 11 ॥ तत्र- एकाग्रम्- मनः- कृत्वा- यत- चित्त- इन्द्रिय- क्रियः । उपविश्य- आसने- युञ्ज्यात्- योगम्- आत्म- विशुद्धये ॥ 12 ॥ समम्- काय- शिरः- ग्रीवम्- धारयन्- अचलम्- स्थिरः । सम्प्रेक्ष्य- नासिका- अग्रं- स्वम्- दिशः- च- अनवलोकयन् ॥ 13 ॥ प्रशान्त- आत्मा- विगत- भीः- ब्रह्मचारि- व्रते- स्थितः । मनः- संयम्य- मत्- चित्तः- युक्तः- आसीत- मत्- परः ॥ 14 ॥ युञ्जन्- एवम्- सदा- आत्मानम्- योगी- नियत- मानसः । शान्तिम्- निर्वाण- परमाम्- मत्- संस्थाम्- अधिगच्छति ॥ 15 ॥ न- अति- अश्नतः- तु- योगः- अस्ति- न- च- एकान्तम्- अनश्नतः । न- च- अति- स्वप्न- शीलस्य- जाग्रतः- नैव- च- अर्जुन ॥ 16 ॥ युक्त- आहार- विहारस्य- युक्त- चेष्टस्य- कर्मसु । युक्त- स्वप्न- अवबोधस्य- योगः- भवति- दुःख- हा ॥ 17 ॥ यदा- विनियतं- चित्तम्- आत्मनि- एव- अवतिष्ठते । निःस्पृहः- सर्व- कामेभ्यः- युक्तः- इति- उच्यते- तदा ॥ 18 ॥ यथा- दीपः- निवात- स्थः- न- इङ्गते- सा- उपमा- स्मृता । योगिनः- यत- चित्तस्य- युञ्जतः- योगम्- आत्मनः ॥ 19 ॥ यत्र- उपरमते- चित्तम्- निरुद्धम्- योग- सेवया । यत्र- च- एव- आत्मना- आत्मानम्- पश्यन्- आत्मनि- तुष्यति ॥ 20 ॥ सुखम्- आत्यन्तिकम्- यत्- तत्- बुद्धि- ग्राह्यम्- अतीन्द्रियम् । वेत्ति- यत्र- न- च- एव- अयम्- स्थितः- चलति- तत्त्वतः ॥ 21 ॥ यम्- लब्ध्वा- च- अपरम्- लाभम्- मन्यते- न- अधिकम्- ततः । यस्मिन्- स्थितः- न- दुःखेन- गुरुणा- अपि- विचाल्यते ॥ 22 ॥ तम्- विद्यात्- दुःख- संयोग- वियोगम्- योग- संज्ञितम् । सः- निश्चयेन- योक्तव्यः- योगः- अनिर्विण्ण- चेतसा ॥ 23 ॥ संकल्प- प्रभवान्- कामान्- त्यक्त्वा- सर्वान्- अशेषतः । मनसा- एव- इन्द्रिय- ग्रामम्- विनियम्य- समन्ततः ॥ 24 ॥ शनैः- शनैः- उपरमेत्- बुद्ध्या- धृति- गृहीतया । आत्म- संस्थम्- मनः- कृत्वा- न- किञ्चित्- अपि- चिन्तयेत् ॥ 25 ॥ यतः- यतः- निश्चरति- मनः- चञ्चलम्- अस्थिरम् । ततः- ततः- नियम्य- एतत्- आत्मनि- एव- वशम्- नयेत् ॥ 26 ॥ प्रशान्त- मनसम्- हि- एनम्- योगिनम्- सुखम्- उत्तमम् । उपैति- शान्त- रजसम्- ब्रह्म- भूतम्- अकल्मषम् ॥ 27 ॥ युञ्जन्- एवम्- सदा- आत्मानम्- योगी- विगत- कल्मषः । सुखेन- ब्रह्म- संस्पर्शम्- अत्यन्तम्- सुखम्- अश्नुते ॥ 28 ॥ सर्व- भूत- स्थितम्- आत्मानम्- सर्व- भूतानि- च- आत्मनि । ईक्षते- योग- युक्त- आत्मा- सर्वत्र- सम- दर्शनः ॥ 29 ॥ यः- माम्- पश्यति- सर्वत्र- सर्वम्- च- मयि- पश्यति । तस्य- अहम्- न- प्रणश्यामि- सः- च- मे- न- प्रणश्यति ॥ 30 ॥ सर्व- भूत- स्थितम्- यः- माम्- भजति- एकत्वम्- आस्थितः । सर्वथा- वर्तमानः- अपि- सः- योगी- मयि- वर्तते ॥ 31 ॥ आत्म- औपम्येन- सर्वत्र- समम्- पश्यति- यः- अर्जुन । सुखम्- वा- यदि- वा- दुःखम्- सः- योगी- परम्- मतः ॥ 32 ॥ अर्जुनः- उवाच : यः- अयम्- योगः- त्वया- प्रोक्तः- साम्येन- मधुसूदन । एतस्य- अहम्- न- पश्यामि- चञ्चलत्वात्- स्थितिम्- स्थिराम् ॥ 33 ॥ चञ्चलम्- हि- मनः- कृष्ण- प्रमाथि- बलवत्- दृढम् । तस्य- अहम्- निग्रहम्- मन्ये- वायोः- इव- सुदुष्करम् ॥ 34 ॥ श्रीभगवान्-उवाच : असंशयम्- महा- बाहो- मनः- दुर्निग्रहम्- चलम् । अभ्यासेन- तु- कौन्तेय- वैराग्येण- च- गृह्यते ॥ 35 ॥ असंयत- आत्मना- योगः- दुष्प्रापः- इति- मे- मतिः । वश्य- आत्मना- तु- यतता- शक्यः- अवाप्तुम्- उपायतः ॥ 36 ॥ अर्जुनः- उवाच : अयतिः- श्रद्धया- उपेतः- योगात्- चलित- मानसः । अप्राप्य- योग- संसिद्धिम्- का- गतिम्- कृष्ण- गच्छति ॥ 37 ॥ कच्चित्- न- उभय- विभ्रष्टः- छिन्न- अभ्रम्- इव- नश्यति । अप्रतिष्ठः- महा- बाहो- विमूढः- ब्रह्मणः- पथि ॥ 38 ॥ एतत्- मे- संशयम्- कृष्ण- छेत्तुम्- अर्हसि- अशेषतः । त्वत्- अन्यः- संशयस्य- अस्य- छेत्ता- न- हि- उपपद्यते ॥ 39 ॥ श्रीभगवान्-उवाच : पार्थ- न- एव- इह- न- अमुत्र- विनाशः- तस्य- विद्यते । न- हि- कल्याण- कृत्- कश्चित्- दुर्गतिम्- तात- गच्छति ॥ 40 ॥ प्राप्य- पुण्य- कृताम्- लोकान्- उषित्वा- शाश्वतीः- समाः । शुचीनाम्- श्रीमताम्- गेहे- योग- भ्रष्टः- अभिजायते ॥ 41 ॥ अथवा- योगिनाम्- एव- कुले- भवति- धीमताम् । एतत्- हि- दुर्लभतरम्- लोके- जन्म- यत्- ईदृशम् ॥ 42 ॥ तत्र- तम्- बुद्धि- संयोगम्- लभते- पौर्व- देहिकम् । यतते- च- ततः- भूयः- संसिद्धौ- कुरु- नन्दन ॥ 43 ॥ पूर्व- अभ्यासेन- तेन- एव- ह्रियते- हि- अवशः- अपि- सः । जिज्ञासुः- अपि- योगस्य- शब्द- ब्रह्म- अतिवर्तते ॥ 44 ॥ प्रयत्नात्- यतमानः- तु- योगी- संशुद्ध- किल्बिषः । अनेक- जन्म- संसिद्धः- ततः- याति- पराम्- गतिम् ॥ 45 ॥ तपस्विभ्यः- अधिकः- योगी- ज्ञानिभ्यः- अपि- मतः- अधिकः । कर्मिभ्यः- च- अधिकः- योगी- तस्मात्- योगी- भव- अर्जुन ॥ 46 ॥ योगिनाम्- अपि- सर्वेषाम्- मत्- गतेन- अन्तर- आत्मना । श्रद्धावान्- भजते- यः- माम्- सः- मे- युक्ततमः- मतः ॥ 47 ॥ ॐ- तत्- सत्- इति- श्रीमद्- भगवद्- गीतासु- उपनिषत्सु- ब्रह्म- विद्यायाम्- योग- शास्त्रे- श्री- कृष्ण- अर्जुन- संवादे आत्म- संयम- योगः- नाम- षष्ठः- अध्यायः ॥ 6 ॥...