📖 प्रथमोऽध्यायः ( पदविच्छेदः ) श्रीव्यास उवाच: एकदा नैमिषारण्ये ऋषयः शौनकादयः । पप्रच्छुः मुनयः सर्वे सूतम् पौराणिकम् खलु ॥ ऋषयः ऊचुः । व्रतेन तपसा किम् वा प्राप्यते वाञ्छितम् फलम् । तत् सर्वम् श्रोतुम् इच्छामः कथयस्व महामुने ॥ सूतः उवाच । नारदेन एव सम्पृष्टः भगवान् कमला-पतिः । सुर-ऋषये यथा एव आह तत् शृणुध्वम् समाहिताः ॥ एकदा नारदः योगी पर-अनुग्रह-काङ्क्षया । पर्यटन् विविधान् लोकान् मर्त्य-लोकम् उपागतः ॥ ततः दृष्ट्वा जनान् सर्वान् नाना-क्लेश-समन्वितान् । नाना-योनिः-समुत्पन्नान् स्व-कर्मभिः क्लिश्यमानान् ॥ केन उपायेन च एतेषाम् दुःख-नाशः भवेत् ध्रुवम् । इति सञ्चिन्त्य मनसा विष्णु-लोकम् गतः तदा ॥ तत्र नारायणम् देवम् शुक्ल-वर्णम् चतुर्भुजम् । शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ दृष्ट्वा तम् देव-देव-ईशम् स्तोतुम् समुपचक्रमे ॥ नारदः उवाच । नमः वाक्-मनसा-अतीत-रूपाय अनन्त-शक्तये । आदि-मध्य-अन्त-हीनाय निर्गुणाय गुण-आत्मने ॥ सर्वेषाम् आदि-भूताय भक्तानाम् आर्ति-नाशिने । श्रुत्वा स्तोत्रम् ततः विष्णुः नारदम् प्रत्यभाषत ॥ श्री-भगवान् उवाच । किम् अर्थम् आगतः असि त्वम् किम् ते मनसि वर्तते । कथयस्व महाभाग तत् सर्वम् कथयामि ते ॥ नारदः उवाच । मर्त्य-लोके जनाः सर्वे नाना-क्लेश-समन्विताः । नाना-योनिः-समुत्पन्नाः पच्यन्ते पाप-कर्मभिः ॥ तत् कथम् शमयेत् नाथ लघु-उपायेन तत् वद । श्रोतुम् इच्छामि तत् सर्वम् कृपा अस्ति यदि ते मयि ॥ श्री-भगवान् उवाच । साधु पृष्टम् त्वया वत्स लोक-अनुग्रह-काङ्क्षया । यत् कृत्वा मुच्यते मोहात् तत् शृणुष्व वदामि ते ॥ व्रतम् अस्ति महत् पुण्यम् स्वर्गे मर्त्ये च दुर्लभम् । तव स्नेहात् मया वत्स प्रकाश्यते अधुना ॥ सत्य-नारायणस्य एव व्रतम् सम्यक्-विधानतः । कृत्वा सद्यः सुखम् भुक्त्वा परत्र मोक्षम् आप्नुयात् ॥