।।श्रीमद्भगवद्गीता पंचमोऽध्यायः।। (अथ पंचमोऽध्यायः) कर्मसंन्यासयोगः अर्जुन उवाच : संन्यासम् — कर्मणाम् — कृष्ण — पुनः — योगम् — च — शंससि । यत् — श्रेयः — एतयोः — एकम् — तत् — मे — ब्रूहि — सुनिश्चितम् ॥ 1 ॥ श्रीभगवानुवाच । संन्यासः — कर्मयोगः — च — निःश्रेयसकरौ — उभौ । तयोः — तु — कर्मसंन्यासात् — कर्मयोगः — विशिष्यते ॥ 2 ॥ ज्ञेयः — सः — नित्यसंन्यासी — यः — न — द्वेष्टि — न — कांक्षति । निर्द्वंद्वः — हि — महाबाहो — सुखम् — बंधात् — प्रमुच्यते ॥ 3 ॥ सांख्ययोगौ — पृथक् — बालाः — प्रवदन्ति — न — पण्डिताः । एकम् — अपि — आस्थितः — सम्यक् — उभयोः — विन्दते — फलम् ॥ 4 ॥ यत् — सांख्यैः — प्राप्यते — स्थानम् — तत् — योगैः — अपि — गम्यते । एकम् — सांख्यम् — च — योगम् — च — यः — पश्यति — सः — पश्यति ॥ 5 ॥ संन्यासः — तु — महाबाहो — दुःखम् — आप्तुम् — अयोगतः । योगयुक्तः — मुनिः — ब्रह्म — न — चिरेण — अधिगच्छति ॥ 6 ॥ योगयुक्तः — विशुद्धात्मा — विजितात्मा — जितेन्द्रियः । सर्वभूतात्मभूतात्मा — कुर्वन् — अपि — न — लिप्यते ॥ 7 ॥ न — एव — किंचित् — करोमि — इति — युक्तः — मन्येत — तत्त्ववित् । पश्यन् — शृण्वन् — स्पृशन् — जिघ्रन् — अश्नन् — गच्छन् — स्वपन् — श्वसन् ॥ 8 ॥ प्रलपन् — विसृजन् — गृह्णन् — उन्मिषन् — निमिषन् — अपि । इन्द्रियाणि — इन्द्रियार्थेषु — वर्तन्ते — इति — धारयन् ॥ 9 ॥ ब्रह्मणि — आधाय — कर्माणि — संगम् — त्यक्त्वा — करोति — यः । लिप्यते — न — सः — पापेन — पद्मपत्रम् — इव — अम्भसा ॥ 10 ॥ कायेन — मनसा — बुद्ध्या — केवलैः — इन्द्रियैः — अपि । योगिनः — कर्म — कुर्वन्ति — संगम् — त्यक्त्वा — आत्मशुद्धये ॥ 11 ॥ युक्तः — कर्मफलम् — त्यक्त्वा — शान्तिम् — आप्नोति — नैष्ठिकीम् । अयुक्तः — कामकारेण — फले — सक्तः — निबध्यते ॥ 12 ॥ सर्वकर्माणि — मनसा — संन्यस्य — आस्ते — सुखम् — वशी । नवद्वारे — पुरे — देही — न — एव — कुर्वन् — न — कारयन् ॥ 13 ॥ न — कर्तृत्वम् — न — कर्माणि — लोकस्य — सृजति — प्रभुः । न — कर्मफलसंयोगम् — स्वभावः — तु — प्रवर्तते ॥ 14 ॥ न — आदत्ते — कस्यचित् — पापम् — न — च — एव — सुकृतम् — विभुः । अज्ञानेन — आवृतम् — ज्ञानम् — तेन — मुह्यन्ति — जन्तवः ॥ 15 ॥ ज्ञानेन — तु — तत् — अज्ञानम् — येषाम् — नाशितम् — आत्मनः । तेषाम् — आदित्यवत् — ज्ञानम् — प्रकाशयति — तत् — परम् ॥ 16 ॥ तत् — बुद्धयः — तत् — आत्मानः — तत् — निष्ठाः — तत् — परायणाः । गच्छन्ति — अपुनरावृत्तिम् — ज्ञाननिर्धूतकल्मषाः ॥ 17 ॥ विद्याविनयसंपन्ने — ब्राह्मणे — गवि — हस्तिनि । शुनि — च — एव — श्वपाके — च — पण्डिताः — समदर्शिनः ॥ 18 ॥ इह — एव — तैः — जितः — सर्गः — येषाम् — साम्ये — स्थितम् — मनः । निर्दोषम् — हि — समम् — ब्रह्म — तस्मात् — ब्रह्मणि — ते — स्थिताः ॥ 19 ॥ न — प्रहृष्येत् — प्रियम् — प्राप्य — न — उद्विजेत् — प्राप्य — च — अप्रियम् । स्थिरबुद्धिः — असंमूढः — ब्रह्मवित् — ब्रह्मणि — स्थितः ॥ 20 ॥ बाह्यस्पर्शेषु — असक्तात्मा — विन्दति — आत्मनि — यत् — सुखम् । सः — ब्रह्मयोगयुक्तात्मा — सुखम् — अक्षयम् — अश्नुते ॥ 21 ॥ ये — हि — संस्पर्शजाः — भोगाः — दुःखयोनयः — एव — ते । आदि — अन्तवन्तः — कौंतेय — न — तेषु — रमते — बुधः ॥ 22 ॥ शक्नोति — इह — एव — यः — सोढुम् — प्राक् — शरीरविमोक्षणात् । कामक्रोधोद्भवम् — वेगम् — सः — युक्तः — सः — सुखी — नरः ॥ 23 ॥ यः — अन्तःसुखः — अन्तरारामः — तथा — अन्तर्ज्योतिः — एव — यः । सः — योगी — ब्रह्मनिर्वाणम् — ब्रह्मभूतः — अधिगच्छति ॥ 24 ॥ लभन्ते — ब्रह्मनिर्वाणम् — ऋषयः — क्षीणकल्मषाः । छिन्नद्वैधाः — यतात्मानः — सर्वभूतहिते — रताः ॥ 25 ॥ कामक्रोधवियुक्तानाम् — यतीनाम् — यतचेतसाम् । अभितः — ब्रह्मनिर्वाणम् — वर्तते — विदितात्मनाम् ॥ 26 ॥ स्पर्शान् — कृत्वा — बहिः — बाह्यान् — चक्षुः — च — एव — अन्तरे — भ्रुवोः । प्राणापानौ — समौ — कृत्वा — नासाभ्यन्तरचारिणौ ॥ 27 ॥ यतेंद्रियमनोबुद्धिः — मुनिः — मोक्षपरायणः । विगतइच्छाभयक्रोधः — यः — सदा — मुक्तः — एव — सः ॥ 28 ॥ भोक्तारम् — यज्ञतपसाम् — सर्वलोकमहेश्वरम् । सुहृदम् — सर्वभूतानाम् — ज्ञात्वा — माम् — शान्तिम् — ऋच्छति ॥ 29 ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पंचमोऽध्यायः ॥5 ॥