।।श्रीमद्भगवद्गीता चतुर्थोऽध्यायः।। 📖 अथ चतुर्थोऽध्यायः ज्ञानयोगः श्रीभगवान् उवाच : इमम् — विवस्वते — योगम् — प्रोक्तवान् — अहम् — अव्ययम् । विवस्वान् — मनवे — प्राह — मनुः — इक्ष्वाकवे — अब्रवीत् ॥1॥ एवम् — परंपरा — प्राप्तम् — इमम् — राजर्षयः — विदुः । सः — कालेन — इह — महता — योगः — नष्टः — परंतप ॥2॥ सः — एव — अयम् — मया — ते — अद्य — योगः — प्रोक्तः — पुरातनः । भक्तः — असि — मे — सखा — च — इति — रहस्यम् — हि — एतत् — उत्तमम् ॥3॥ अर्जुन उवाच — अपरम् — भवतः — जन्म — परम् — जन्म — विवस्वतः । कथम् — एतत् — विजानीयाम् — त्वम् — आदौ — प्रोक्तवान् — इति ॥4॥ श्रीभगवान् उवाच — बहूनि — मे — व्यतीतानि — जन्मानि — तव — च — अर्जुन । तानि — अहम् — वेद — सर्वाणि — न — त्वम् — वेत्थ — परंतप ॥5॥ अजः — अपि — सन् — अव्यय — आत्मा — भूतानाम् — ईश्वरः — अपि — सन् । प्रकृतिम् — स्वाम् — अधिष्ठाय — संभवामि — आत्म — मायया ॥6॥ यदा — यदा — हि — धर्मस्य — ग्लानिः — भवति — भारत । अभ्युत्थानम् — अधर्मस्य — तदा — आत्मानम् — सृजामि — अहम् ॥7॥ परित्राणाय — साधूनाम् — विनाशाय — च — दुष्कृताम् । धर्म — संस्थापन — अर्थाय — संभवामि — युगे — युगे ॥8॥ जन्म — कर्म — च — मे — दिव्यम् — एवम् — यः — वेत्ति — तत्त्वतः । त्यक्त्वा — देहम् — पुनर्जन्म — न — एति — माम् — एति — सः — अर्जुन ॥9॥ वीत — राग — भय — क्रोधाः — मन्मयाः — माम् — उपाश्रिताः । बहवः — ज्ञान — तपसा — पूताः — मद्भावम् — आगताः ॥10॥ ये — यथा — माम् — प्रपद्यन्ते — तान् — तथा — एव — भजामि — अहम् । मम — वर्त्म — अनुवर्तन्ते — मनुष्याः — पार्थ — सर्वशः ॥11॥ काङ्क्षन्तः — कर्मणाम् — सिद्धिम् — यजन्ते — इह — देवताः । क्षिप्रम् — हि — मानुषे — लोके — सिद्धिः — भवति — कर्मजा ॥12॥ चातुर्वर्ण्यम् — मया — सृष्टम् — गुण — कर्म — विभागशः । तस्य — कर्तारम् — अपि — माम् — विद्धि — अकर्तारम् — अव्ययम् ॥13॥ न — माम् — कर्माणि — लिंपन्ति — न — मे — कर्म — फले — स्पृहा । इति — माम् — यः — अभिजानाति — कर्मभिः — न — सः — बध्यते ॥14॥ एवम् — ज्ञात्वा — कृतम् — कर्म — पूर्वैः — अपि — मुमुक्षुभिः । कुरु — कर्म — एव — तस्मात् — त्वम् — पूर्वैः — पूर्वतरम् — कृतम् ॥15॥ किम् — कर्म — किम् — अकर्म — इति — कवयः — अपि — अत्र — मोहिताः । तत् — ते — कर्म — प्रवक्ष्यामि — यत् — ज्ञात्वा — मोक्ष्यसे — अशुभात् ॥16॥ कर्मणः — हि — अपि — बोद्धव्यम् । बोद्धव्यम् — च — विकर्मणः । अकर्मणः — च — बोद्धव्यम् । गहना — कर्मणः — गतिः ॥17॥ कर्मणि — अकर्म — यः — पश्येत् । अकर्मणि — च — कर्म — यः । सः — बुद्धिमान् — मनुष्येषु । सः — युक्तः — कृत्स्न — कर्म — कृत् ॥18॥ यस्य — सर्वे — समारंभाः — काम — संकल्प — वर्जिताः । ज्ञान — अग्नि — दग्ध — कर्माणम् — तम् — आहुः — पंडितम् — बुधाः ॥19॥ त्यक्त्वा — कर्म — फल — आसंगम् — नित्य — तृप्तः — निराश्रयः । कर्मणि — अभिप्रवृत्तः — अपि — न — एव — किंचित् — करोति — सः ॥20॥ निराशीः — यत-चित्त-आत्मा — त्यक्त-सर्व-परिग्रहः । शारीरम् — केवलम् — कर्म — कुर्वन् — न — आप्नोति — किल्बिषम् ॥21॥ २२ यदृच्छा-लाभ-संतुष्टः द्वन्द्व-अतीतः वि-मत्सरः । समः सिद्धौ-असिद्धौ च कृत्वा अपि न निबध्यते ॥ २३ गत-संगस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः । यज्ञाय आचरतः कर्म समग्रं प्रविलीयते ॥ २४ ब्रह्म-अर्पणम् ब्रह्म हविः ब्रह्म-अग्नौ ब्रह्मणा हुतम् । ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना ॥ २५ दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते । ब्रह्म-अग्नौ अपरे यज्ञम् यज्ञेन एव उपजुह्वति ॥ २६ श्रोत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति । शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति ॥ २७ सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे । आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते ॥ २८ द्रव्य-यज्ञाः तपः-यज्ञाः योग-यज्ञाः तथा अपरे । स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशित-व्रताः ॥ २९ अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे । प्राण-अपान-गती रुद्ध्वा प्राणायाम-परायणाः ॥ ३० अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति । सर्वे अपि एते यज्ञ-विदः यज्ञ-क्षपित-कल्मषाः ॥ ३१ यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम् । न अयम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरु-सत्तम ॥ ३२ एवम् बहु-विधाः यज्ञाः वितताः ब्रह्मणः मुखे । कर्म-जान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥ ३३ श्रेयात् द्रव्य-मयात् यज्ञात् ज्ञान-यज्ञः परंतप । सर्वम् कर्म अखिलम् पार्थ ज्ञाने परिसमाप्यते ॥ ३४ तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः ॥ ३५ यत् ज्ञात्वा न पुनः मोहं एवम् यास्यसि पाण्डव । येन भूतानि अशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३६ अपि चेत् असि पापेभ्यः सर्वेभ्यः पाप-कृत्-तमः । सर्वम् ज्ञान-प्लवेन एव वृजिनम् संतरिष्यसि ॥ ३७ यथा इधांसि समिद्धः अग्निः भस्म-सात् कुरुते अर्जुन । ज्ञान-अग्निः सर्व-कर्माणि भस्म-सात् कुरुते तथा ॥ ३८ न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते । तत् स्वयम् योग-संसिद्धः कालेन आत्मनि विन्दति ॥ ३९ श्रद्धावान् लभते ज्ञानम् तत्परः संयत-इन्द्रियः । ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेण अधिगच्छति ॥ ४० अज्ञः च अश्रद्दधानः च संशय-आत्मा विनश्यति । न अयम् लोकः अस्ति न परः न सुखम् संशय-आत्मनः ॥ ४१ योग-संन्यस्त-कर्माणम् ज्ञान-संछिन्न-संशयम् । आत्म-वंतम् न कर्माणि निबध्नन्ति धनंजय ॥ ४२ तस्मात् अज्ञान-सम्भूतम् हृत्-स्थम् ज्ञान-असिना आत्मनः । छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥4 ॥...