॥ श्री बुध स्तोत्रम् ॥ न्यासः ॐ अस्य श्री-बुध-स्तोत्र-महामन्त्रस्य वसिष्ठः ऋषिः अनुष्टुप् छन्दः बुधः देवता बुध-प्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् : भुजैः चतुर्भिः वरद अभय असि गदं वहन्तम् सुमुखम् प्रशान्तम् । पीत-प्रभम् चन्द्र-सुतम् सुर-ईड्यम् सिंहे निषण्णम् बुधम् आश्रयामि ॥ बुध स्तोत्रम्: पीत-अम्बरः पीत-वपुः । पीत-ध्वज-रथ-स्थितः । पीयूष-रश्मि-तनयः । पातु माम् सर्वदा बुधः ॥ १॥ सिंह-वाहनम् सिद्ध-नुतम् । सौम्यम् सौम्य-गुण-अन्वितम् । सोम-सूनुम् सुर-आराध्यम् । सर्व-दम् सौम्यम् आश्रये ॥ २॥ बुधम् बुद्धि-प्रदाता-रम् । बाण-बाण-आसन-उज्ज्वलम् । भद्र-प्रदम् भीति-हरम् । भक्त-पालनम् आश्रये ॥ ३॥ आत्रेय-गोत्र-सञ्जातम् । आश्रित-आर्ति-निवारणम् । आदितेय-कुल-आराध्यम् । आशु-सिद्धि-दम् आश्रये ॥ ४॥ कला-निधि-तनू-जातम् । करुणा-रस-वारिधिम् । कल्याण-दायिनम् नित्यम् । कन्या-राशि-अधिपम् भजे ॥ ५॥ मन्द-स्मित-मुख-अम्भोजम् । मन्मथ-आयुत-सुन्दरम् । मिथुन-अधीशम् अनघम् । मृग-अङ्क-तनयम् भजे ॥ ६॥ चतु-र्भुजम् चारु-रूपम् । चर-अचर-जगत्-प्रभुम् । चर्म-खड्ग-धरम् वन्दे । चन्द्र-ग्रह-तनू-भवम् ॥ ७॥ पञ्च-आस्य-वाहन-गतम् । पञ्च-पातक-नाशनम् । पीत-गन्धम् पीत-माल्यम् । बुधम् बुध-नुतम् भजे ॥ ८॥ बुध-स्तोत्रम् इदम् गुह्यम् । वसिष्ठेन उदितम् पुरा । यः पठेत् शृणुयात् वा अपि । सर्व-अभीष्टम् वाप्नुयात् ॥ ९॥ ।। इति श्री-बुध-स्तोत्रम् सम्पूर्णम् ।। ********************************