॥ श्री कनकधारा स्तोत्रम् ॥ (पदच्छेद सहित शुद्ध पाठ) ॥ १ ॥ अङ्गम् हरेः पुलक भूषणम् आश्रयन्ती भृङ्ग अङ्गना इव मुकुल आभरणम् तमालम् अङ्गीकृता अखिल विभूतिः अपाङ्ग लीला माङ्गल्यदा अस्तु मम मङ्गल देवतायाः ॥१॥ ॥ २ ॥ मुग्धा मुहुः विदधती वदने मुरारेः प्रेम त्रपा प्रणिहितानि गता आगतानि माला दृशोः मधुकरी इव महोत्पले या सा मे श्रियम् दिशतु सागर सम्भवायाः ॥२॥ ॥ ३ ॥ विश्व अमरेन्द्र पद वीभ्रम दान दक्ष आनन्द हेतुḥ अधिकम् मुर विद्विषो अपि ईषत् निषीदतु मयि क्षण मीक्षण अर्धम् इन्दीवर उदर सहोदरम् इन्दिरायाः ॥३॥ ॥ ४ ॥ आमीलित अक्षम् अधिगम्य मुदा मुकुन्द आनन्द कन्दम् अनिमेषम् अनङ्ग तन्त्रम् आकेकर स्थित कनीनिक पक्ष्म नेत्रम् भूत्यै भवेत् मम भुजङ्ग शय अङ्गनायाः ॥४॥ ॥ ५ ॥ बाहु अन्तरे मधु जितः श्रित कौस्तुभे या हार आवली इव हरि नील मयी विभाति काम प्रदा भगवतः अपि कटाक्ष माला कल्याणम् आवहतु मे कमल आलयायाः ॥५॥ ॥ ६ ॥ काल अम्बुद आलि ललित उरसि कैटभ अरेः धारा धरे स्फुरति या तडित् अङ्गना इव मातुः समस्त जगताम् महनीय मूर्तिः भद्राणि मे दिशतु भार्गव नन्दनायाः ॥६॥ ॥ ७ ॥ प्राप्तम् पदम् प्रथमतः किल यत् प्रभावात् माङ्गल्य भाजि मधु माथिनि मन्मथेन मयि आपतेत् तत् इह मन्थर मीक्षण अर्धम् मन्दा अलसम् मकर आलय कन्यकायाः ॥७॥ ॥ ८ ॥ दद्यात् दया अनुपवनः द्रविण अम्बु धाराम् अस्मिन् अकिञ्चन विहङ्ग शिशौ विषण्णे दुष्कर्म घर्मम् अपनिय चिराय दूरम् नारायण प्रणयिनी नयन अम्बु वाहः ॥८॥ ॥ ९ ॥ इष्टा विशिष्ट मतयो अपि यया दया आर्द्र दृष्ट्या त्रिविष्टप पदम् सुलभम् लभन्ते दृष्टिः प्रहृष्ट कमल उदर दीप्तिः इष्टाम् पुष्टिम् कृषीष्ट मम पुष्कर विष्टरायाः ॥९॥ ॥ १० ॥ गीः देवते इति गरुड ध्वज भामिनी इति शाकम्भरी इति शशि शेखर वल्लभे इति सृष्टि स्थिति प्रलय केलिषु संस्थितायै तस्यै नमः त्रि भुवन एक गुरोः तरुण्यै ॥१०॥ ॥ ११ ॥ श्रुत्यै नमः अस्तु नमः त्रि भुवन एक फल प्रसूत्यै अरत्यै नमः अस्तु रमणीय गुण आश्रयायै शक्त्यै नमः अस्तु शत पत्र निकेतनायै पुष्ट्यै नमः अस्तु पुरुष उत्तम वल्लभायै ॥११॥ ॥ १२ ॥ नमः अस्तु नालीक निभ आननायै नमः अस्तु दुग्ध उदधि जन्म भूत्यै नमः अस्तु सोम अमृत सोदरायै नमः अस्तु नारायण वल्लभायै ॥१२॥ ॥ १३ ॥ नमः अस्तु हेम अम्बुज पीठिकायै नमः अस्तु भूमण्डल नायिकायै नमः अस्तु देव आदि दया परायै नमः अस्तु शार्ङ्ग आयुध वल्लभायै ॥१३॥ ॥ १४ ॥ नमः अस्तु देव्यै भृगु नन्दनायै नमः अस्तु विष्णोः उरसि स्थितायै नमः अस्तु लक्ष्म्यै कमल आलयायै नमः अस्तु दामोदर वल्लभायै ॥१४॥ ॥ १५ ॥ नमः अस्तु कान्त्यै कमल ईक्षणायै नमः अस्तु भूत्यै भुवन प्रसूत्यै नमः अस्तु देव आदिभिः अर्चितायै नमः अस्तु नन्द आत्मज वल्लभायै ॥१५॥ ॥ १६ ॥ सम्पत् कराणि सकल इन्द्रिय नन्दनानि साम्राज्य दान विभवानि सरोरुहाक्षि त्वत् वन्दनानि दुरित हरण उद्योगतानि माम् एव मातर् अनिशम् कलयन्तु नान्यत् ॥१६॥ ॥ १७ ॥ यत् कटाक्ष समुपासना विधिः सेवकस्य सकल अर्थ सम्पदः सन्तनोति वचन अङ्ग मानसैः त्वाम् मुरारि हृदय ईश्वरीम् भजे ॥१७॥ ॥ १८ ॥ सरसिज निलये सरोज हस्ते धवल तर अंशुक गन्ध माल्य शोभे भगवति हरि वल्लभे मनोज्ञे त्रि भुवन भूति करि प्रसीद मह्यम् ॥१८॥ ॥ १९ ॥ दिक् हस्तिभिः कनक कुम्भ मुख अवसृष्ट स्वर् वाहिनी विमल चारु जल प्लुत अङ्गीम् प्रातः नमामि जगताम् जननीम् अशेष लोक अधिराज गृहिणीम् अमृत अब्धि पुत्रीम् ॥१९॥ ॥ २० ॥ कमले कमल अक्ष वल्लभे त्वम् करुणा पूर तरङ्गितैः अपाङ्गैः अवलोकय माम् अकिञ्चनानाम् प्रथमम् पात्रम् अकृत्रिमम् दयायाः ॥२०॥ ॥ २१ ॥ स्तुवन्ति ये स्तुतिभिः अमीभिः अन्वहम् त्रयी मयीम् त्रि भुवन मातरम् रमाम् गुण अधिका गुरुतर भाग्य भागिनः भवन्ति ते भुवि बुध भावित आशयाः ॥२१॥ ********************************