॥ दारिद्र्यनाशनं सिद्धि-लक्ष्मी-स्तोत्रम् ॥ श्री-गणेशाय नमः ॥ ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॐ सिद्धि-लक्ष्मी अङ्गुष्ठाभ्याम् नमः ॐ ह्रीं विष्णु-हृदये तर्जनीभ्याम् नमः ॐ क्लीं अमृत-आनन्दे मध्यमाभ्याम् नमः ॐ श्रीं दैत्य-मालिनी अनामिकाभ्याम् नमः ॐ तं तेजः-प्रकाशिनी कनिष्ठिकाभ्याम् नमः ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी कर-तल-कर-पृष्ठाभ्याम् नमः ॥ एवं हृदयादिन्यासः । ॐ सिद्धिलक्ष्मी हृदयाय नमः । ॐ ह्रीं वैष्णवी शिरसे स्वाहा । ॐ क्लीं अमृतानन्दे शिखायै वौषट् । ॐ श्रीं दैत्यमालिनी कवचाय हुम् । ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् । ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् 🪷 ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् । त्रिनेत्रां च त्रिशूलां च पद्मचक्र गदाधराम् ॥ १॥ पीताम्बरधरां देवीं नानालङ्कारभूषिताम् । तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥ ॐ-कार-लक्ष्मी-रूपेण विष्णोः हृदयम् अव्ययम् विष्णुम् आनन्द-मध्यस्थाम् ह्रीं-कार-बीज-रूपिणीम् ॥ ३ ॥ ॐ क्लीं अमृत-आनन्द-भद्रे सद्यः आनन्द-दायिनी ॐ श्रीं दैत्य-भक्ष-रदाम् शक्ति-मालिनी शत्रु-मर्दिनी ॥ ४ ॥ तेजः-प्रकाशिनी देवी वर-दा शुभ-कारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्त-शाम्भवी ॥ ५ ॥ आकार-ब्रह्म-रूपेण ॐ-कारम् विष्णुम् अव्ययम् सिद्धि-लक्ष्मि परा-लक्ष्मि लक्ष्य-लक्ष्मि नमः अस्तु ते ॥ ६ ॥ सूर्य-कोटि-प्रतीकाशम् चन्द्र-कोटि-सम-प्रभम् तत्-मध्ये निकरे सूक्ष्मम् ब्रह्म-रूप-व्यवस्थितम् ॥ ७ ॥ ॐ-कार-परमानन्दम् क्रियते सुख-सम्पदा सर्व-मङ्गल-माङ्गल्ये शिवे सर्व-अर्थ-साधिके ॥ ८ ॥ प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुर-सुन्दरी ॥ ९ ॥ पञ्चमे विष्णु-पत्नी च षष्ठे वैष्णवी तथा सप्तमे वर-आरोहा अष्टमे वर-दायिनी ॥ १० ॥ नवमे खड्ग-त्रि-शूला दशमे देव-देवता एकादशे सिद्धि-लक्ष्मी द्वादशे ललिता-आत्मिका ॥ ११ ॥ एतत्-स्तोत्रम् पठन्तः त्वाम् स्तुवन्ति भुवि मानवाः सर्व-उपद्रव-मुक्ताः ते न अत्र कार्या विचारणा ॥ १२ ॥ एक-मासम् द्वि-मासम् वा त्रि-मासम् च चतुर्थकम् पञ्च-मासम् च षण्-मासम् त्रि-कालम् यः पठेत् नरः ॥ १३ ॥ ब्राह्मणाः क्लेश-दुःख-दारिद्र-भय-पीडिताः जन्म-अन्तर-सहस्रेषु मुच्यन्ते सर्व-क्लेशतः ॥ १४ ॥ अ-लक्ष्मीः लभते लक्ष्मीम् अ-पुत्रः पुत्रम् उत्तमम् धन्यम् यशस्यम् आयुष्यम् वह्नि-चौर-भयेषु च ॥ १५ ॥ शाकिनी-भूत-वेताल-सर्व-व्याधि-निपातके राज-द्वारे महा-घोरे सङ्ग्रामे रिपु-सङ्कटे ॥ १६ ॥ सभा-स्थाने श्मशाने च कारा-गेह-अरी-बन्धने अशेष-भय-सम्प्राप्तौ सिद्धि-लक्ष्मीम् जपेत् नरः ॥ १७ ॥ ईश्वर-कृतम् स्तोत्रम् प्राणिनाम् हित-कारणम् स्तुवन्ति ब्राह्मणाः नित्यम् दारिद्र्यम् न च वर्धते ॥ १८ ॥ या श्रीः पद्म-वने कदम्ब-शिखरे राज-गृहे कुञ्जरे श्वेते च अश्व-युते वृषे च युगले यज्ञे च यूप-स्थिते शङ्खे देव-कुले नरेन्द्र-भवने गङ्गा-तटे गोकुले सा श्रीः तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ॥ १९ ॥ ॥ इति श्री-ब्रह्माण्ड-पुराणे ईश्वर-विष्णु-संवादे दारिद्र्य-नाशनम् सिद्धि-लक्ष्मी-स्तोत्रम् सम्पूर्णम् ॥ ****************************