📖 अथ द्वितीयोऽध्यायः ।।श्रीमद्भगवद्गीता द्वितीयोऽध्यायः।। सांख्ययोगः (1) संजय उवाच: तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् विषीदन्तम् इदम् वाक्यम् उवाच मधु-सूदनः (2) श्रीभगवानुवाच: कुतः त्वा कश्मलम् इदम् विषमे समुपस्थितम् अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन (3) क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परंतप (4) अर्जुन उवाच: कथम् भीष्मम् अहम् सांख्ये द्रोणम् च मधु-सूदन इषुभिः प्रतियोत्स्यामि पूजा-अर्हौ अरि-सूदन (5) गुरून् अहत्वा हि महा-अनुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके हत्वा अर्थ-कामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् (6) न च एतत् विद्मः कतरत् नः गरीयः यत् वा जयेम यदि वा नः जयेयुः यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः (7) कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम् (8) न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम् अवाप्य भूमौ असपत्नम् ऋद्धम् राज्यं सुराणाम् अपि च आधिपत्यम् (9) संजय उवाच: एवम् उक्त्वा हृषीकेशम् गुडाकेशः परंतप न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह (10) तम् उवाच हृषीकेशः प्रहसन् इव भारत सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः (11) श्रीभगवानुवाच: अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादान् च भाषसे गत-असून् अगत-असून् च न अनुशोचन्ति पण्डिताः (12) न तु एव अहम् जातु न आसम् न त्वम् न इमे जन-अधिपाः न च एव न भविष्यामः सर्वे वयम् अतः परम् (13) देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा तथा देह-अन्तर-प्राप्तिः धीरः तत्र न मुह्यति (14) मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः आगम-अपायिनः अनित्याः तान् तितिक्षस्व भारत (15) यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-र्षभ सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते (16) न असतः विद्यते भावः न अभावः विद्यते सतः उभयोः अपि दृष्टः अन्तः त्व् अनयोः तत्त्व-दर्शिभिः (17) अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति (18) अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत (19) यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते (20) न जायते म्रियते वा कदाचित् न अयम् भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे (21) वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम् (22) वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही (23) न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः (24) अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च नित्यः सर्व-गतः स्थाणुः अचलः अयम् सनातनः (25) अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि (26) अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम् तथा अपि त्वम् महा-बाहो न एवम् शोचितुम् अर्हसि (27) जातस्य हि ध्रुवः मृत्यु: ध्रुवम् जन्म मृतस्य च तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि (28) अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत अव्यक्त-निधनानि एव तत्र का परिदेवना (29) आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनम् वेद न च एव कश्चित् (30) देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि (31) स्व-धर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते (32) यदृच्छया च उपपन्नम् स्वर्ग-द्वारम् अपावृतम् सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् (33) अथ चेत् त्वम् इमम् धर्म्यम् संग्रामम् न करिष्यसि ततः स्व-धर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि (34) अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते (35) भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महा-रथाः येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम् (36) अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः निन्दन्तः तव सामर्थ्यम् ततः दुःख-तरम् नु किम् (37) हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः (38) सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि (39) एषा ते अभिहिता सांख्ये बुद्धिः योगे तु इमाम् शृणु बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम् प्रहास्यसि (40) न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् (41) व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् (42) याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः वेद-वाद-रताः पार्थ न अन्यत् अस्ति इति वादिनः (43) काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् क्रिया-विशेष-बहुलाम् भोग-ऐश्वर्य-गतिम् प्रति (44) भोग-ऐश्वर्य-प्रसक्तानाम् तया अपहृत-चेतसाम् व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते (45) त्रै-गुण्य-विषयाः वेदाः निस्त्रै-गुण्यः भव अर्जुन निर्द्वन्द्वः नित्य-सत्त्व-स्थः निर्योग-क्षेमः आत्मवान् (46) यावान् अर्थः उदपाने सर्वतः संप्लुत-उदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः (47) कर्मणि एव अधिकारः ते मा फलेषु कदाचन मा कर्म-फल-हेतुः भूः मा ते संगः अस्तु अकर्मणि (48) योग-स्थः कुरु कर्माणि संगम् त्यक्त्वा धनंजय सिद्धि-असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते (49) दूरेण हि अवरम् कर्म बुद्धि-योगात् धनंजय बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः (50) बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् (51) कर्म-जम् बुद्धि-युक्ताः हि फलम् त्यक्त्वा मनीषिणः जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् (52) यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च (53) श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि (54) अर्जुन उवाच: स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव स्थित-धीः किम् प्रभाषेत किम् आसीत व्रजेत किम् (55) श्रीभगवानुवाच: प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् आत्मनि एव आत्मना तुष्टः स्थित-प्रज्ञः तदा उच्यते (56) दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः वीत-राग-भय-क्रोधः स्थित-धीः मुनिः उच्यते (57) यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता (58) यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता (59) विषयाः विनिवर्तन्ते निराहारस्य देहिनः रस-वर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते (60) यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम् मनः (61) तानि सर्वाणि संयम्य युक्तः आसीत मत्-परः वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता (62) ध्यायतः विषयान् पुंसः संगः तेषु उपजायते संगात् संजायते कामः कामात् क्रोधः अभिजायते (63) क्रोधात् भवति संमोहः संमोहात् स्मृति-विभ्रमः स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति (64) राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन् आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति (65) प्रसादे सर्व-दुःखानाम् हानिः अस्य उपजायते प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते (66) न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् (67) इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि (68) तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता (69) या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः (70) आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत् तद्वत् कामाः यम् प्रविशन्ति सर्वे सः शान्तिम् आप्नोति न काम-कामी (71) विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः निर्ममः निरहंकारः सः शान्तिम् अधिगच्छति (72) एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति स्थित्वा अस्याम् अन्त-काले अपि ब्रह्म-निर्वाणम् ऋच्छति ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥2 ॥...