🔱 ॥ श्रीगणेश पञ्चाशन्नाम स्तोत्रम् ॥ ॥ श्री गणेशाय नमः ॥ ॥ ऋषय ऊचुः ॥ १ गणेशः गणनाथः च हेरम्बः गिरि-आत्मजः ॥ पार्वती-नन्दनः वीरः देव-राजः गजाननः ॥१॥ २ लम्बोदरः विघ्न-राजः योगी सदा-योग-लक्षणः ॥ अग्र-पूज्यः चतुर्बाहुः एकदन्तः लिपि-ईश्वरः ॥२॥ ३ व्याघ्र-चर्म-अम्बरः धीरः सदा-मङ्गल-रूपवान् ॥ शुक्ल-आस्यः मूषिक-आरोही केवलः मोक्ष-दायकः ॥३॥ ४ पद्मी दन्त-करः दन्ती वैष्णवः परम-अर्थ-दृक् ॥ पञ्च-पाणिः पञ्च-वक्त्रः शिवः शङ्करः ईश्वरः ॥४॥ ५ हरि-गाता नृत्य-कारी शिव-पुत्रः स्रवन्-मदः ॥ आनन्द-आन्दोलित-मनाः शैवः धर्मः धन-ईश्वरः ॥५॥ ६ अनन्तः जगत्-आधारः शशि-सूर्य-विलोचनः ॥ समुद्र-पाता सामुद्रः समुद्र-जठरः यमः ॥६॥ ७ दिव्य-रूपः वारि-नाथः जयः च विजयः तथा ॥ नामानि एतानि पञ्चाशत् गणेशस्य पठेत् नरः ॥७॥ ८ यात्रायाम् पूजने दाने श्राद्धे गङ्गा-अवगाहने ॥ पुत्र-आदि-मङ्गले कार्ये प्रत्यहम् च त्रि-सन्ध्यकम् ॥८॥ ९ शृणुयात् यः भक्ति-युक्तः विघ्नाः तस्य विमूर्छिताः ॥ प्रत्यहम् मङ्गलम् तस्य धन-पुत्र-आदि-सम्भवम् ॥ इष्ट-देव-महा-भक्ति-दायकम् वाञ्छित-अर्थ-दम् ॥९॥ ॥ इति श्रीगणेशपञ्चाशन्नामस्तोत्रम् सम्पूर्णम् ॥ *************************************