।। श्रीराधाष्टकम् ।। नमस्ते श्रियै राधिकायै परायै नमस्ते नमस्ते मुकुन्दप्रियायै । सदानन्दरूपे प्रसीद त्वमन्तः- प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ॥ १॥ स्ववासोपहारं यशोदासुतं वा स्वदध्यादिचौरं समाराधयन्तीम् । स्वदाम्नोदरे या बबन्धाशु नीव्या प्रपद्ये नु दामोदरप्रेयसीं ताम् ॥ २॥ दुराराध्यमाराध्य कृष्णं वशे तं महाप्रेमपूरेण राधाभिधाभूः । स्वयं नामकीर्त्या हरौ प्रेम यच्छत् प्रपन्नाय मे कृष्णरूपे समक्षम् ॥ ३॥ मुकुन्दस्त्वया प्रेमडोरेण बद्धः पतङ्गो यथा त्वामनुभ्राम्यमाणः । उपक्रीडयन् हार्दमेवानुगच्छन् कृपावर्तते कारयातो मयीष्टिम् ॥ ४॥ व्रजन्तीं स्ववृन्दावने नित्यकालं मुकुन्देन साकं विधायाङ्कमालाम् । समामोक्ष्यमाणानुकम्पाकटाक्षैः श्रियं चिन्तये सच्चिदानन्दरूपाम् ॥ ५॥ मुकुन्दानुरागेण रोमाञ्चिताङ्गै- रहं वेप्यमानां तनुस्वेदबिन्दुम् । महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या समालोकयन्तीं कदा मां विचक्षे ॥ ६॥ यद् अङ्कावलोके महालालसौघं मुकुन्दः करोति स्वयं ध्येयपादः । पदं राधिके ते सदा दर्शयान्तर्- हृदिस्थं नमन्तं किरद्रोचिषं माम् ॥ ७॥ सदा राधिकानाम जिह्वाग्रतः स्यात् सदा राधिकारूपमक्ष्यग्र आस्ताम् । श्रुतौ राधिकाकीर्तिरन्तःस्वभावे गुणा राधिकायाः श्रिया एतद् ईहे ॥ ८॥ इदं त्वष्टकं राधिकायाः प्रियायाः पठेयुः सदैवं हि दामोदरस्य । सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि सखीमूर्तयो युग्मसेवानुकूलाः ॥ ९॥ ।।इति श्रीनिम्बार्काचार्यविरचितम् राधाष्टकं सम्पूर्णम् ।। ********************************