📖 अध्याय 1 ।।श्रीमद्भगवद्गीता प्रथमोऽध्यायः।। अर्जुनविषादयोगः (1) धृतराष्ट्र उवाच: धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः च एव किम् अकुर्वत संजय (2) संजय उवाच: दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् (3) पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम् व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता (4) अत्र शूराः महा-इष्वासाः भीम-अर्जुन-समाः युधि युयुधानः विराटः च द्रुपदः च महा-रथः (5) धृष्टकेतुः चेकितानः काशि-राजः च वीर्यवान् पुरुजित् कुन्ति-भोजः च शैब्यः च नर-पुङ्गवः (6) युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् सौभद्रः द्रौपदेयाः च सर्वे एव महा-रथाः (7) अस्माकम् तु विशिष्टाः ये तान् निबोध द्विज-उत्तम नायकाः मम सैन्यस्य संज्ञा-अर्थम् तान् ब्रवीमि ते (8) भवान् भीष्मः च कर्णः च कृपः च समितिम्-जयः अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च (9) अन्ये च बहवः शूराः मत्-अर्थे त्यक्त-जीविताः नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः (10) अपर्याप्तम् तत् अस्माकम् बलम् भीष्म-अभि-रक्षितम् पर्याप्तम् तु इदम् एतेषाम् बलम् भीम-अभि-रक्षितम् (11) अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः भीष्मम् एव अभि-रक्षन्तु भवन्तः सर्वे एव हि (12) तस्य संजनयन् हर्षम् कुरु-वृद्धः पितामहः सिंह-नादम् विनद्य उच्चैः शंखम् दध्मौ प्रतापवान् (13) ततः शंखाः च भेर्यः च पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् (14) ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शंखौ प्रदध्मतुः (15) पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनंजयः पौण्ड्रम् दध्मौ महा-शंखम् भीम-कर्मा वृकोदरः (16) अनन्त-विजयम् राजा कुन्ती-पुत्रः युधिष्ठिरः नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ (17) काश्यः च परम-इष्वासः शिखण्डी च महा-रथः धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः (18) द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते सौभद्रः च महा-बाहुः शंखान् दध्मुः पृथक् पृथक् (19) सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् नभः च पृथिवीम् च एव तुमुलः व्यनुनादयन् (20) अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः प्रवृत्ते शस्त्र-सम्पाते धनुः उद्यम्य पाण्डवः (21) हृषीकेशं तदा वाक्यमिदमाह महीपते। अर्जुन उवाच: सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत (22) यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान् कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे (23) योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः (24) संजय उवाच: एवम् उक्तः हृषीकेशः गुडाकेशेन भारत सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् (25) भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम् उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति (26) तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा (27) श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् (28) दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् (29) सीदन्ति मम गात्राणि मुखम् च परिशुष्यति वेपथुः च शरीरे मे रोम-हर्षः च जायते (30) गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः (31) निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे (32) न कांक्षे विजयम् कृष्ण न च राज्यम् सुखानि च किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा (33) येषाम् अर्थे कांक्षितम् नः राज्यम् भोगाः सुखानि च ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च (34) आचार्याः पितरः पुत्राः तथा एव च पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा (35) एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु मही-कृते (36) निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः (37) तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्व-बान्धवान् स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव (38) यदि अपि एते न पश्यन्ति लोभ-उपहत-चेतसः कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम् (39) कथम् न ज्ञेयम् अस्माभिः पापात् अस्मात् निवर्तितुम् कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन (40) कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत (41) अधर्म-अभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः (42) सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः (43) दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः उत्साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वता: (44) उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् जनार्दन नरके अनियतं वासः भवति इति अनुशुश्रुम (45) अहो बत महत् पापम् कर्तुम् व्यवसिता वयम् यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः (46) यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र-पाणयः धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत् (47) संजय उवाच: एवम् उक्त्वा अर्जुनः संख्ये रथ-उपस्थे उपाविशत् विसृज्य स-शरम् चापम् शोक-संविग्न-मानसः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥1 ॥...