📖 श्री देव्यथर्वशीर्षम् ।। ॐ सर्वे-वै-देवाः-देवीम्-उपतस्थुः-का-असि-त्वं-महादेवि-इति ॥1॥ सा-अब्रवीत्-अहम्-ब्रह्म-स्वरूपिणी। मत्तः-प्रकृति-पुरुष-आत्मकम्-जगत्। शून्यम्-च-अशून्यम्-च ॥2॥ अहम्-आनन्द-अनानन्दौ। अहम्-विज्ञान-अविज्ञाने। अहम्-ब्रह्म-अब्रह्मणि-वेदितव्ये। अहम्-पञ्च-भूतानि-अ-पञ्च-भूतानि। अहम्-अखिलम्-जगत् ॥3॥ वेदः-अहम्-अवेदः-अहम्। विद्या-अहम्-अविद्या-अहम्। अजा-अहम्-अनजा-अहम्। अधः-च-ऊर्ध्वम्-च-तिर्यक्-च-अहम् ॥4॥ अहम्-रुद्रेभिः-वसुभिः-च-चरामि। अहम्-आदित्यैः-उत-विश्वदेवैः। अहम्-मित्रावरुणौ-उभौ-बिभर्मि। अहम्-इन्द्राग्नी-अहम्-अश्विनौ-उभौ ॥5॥ अहम्-सोमम्-त्वष्टारम्-पूषणम्-भगम्-दधामि। अहम्-विष्णुम्-उरुक्रमम्-ब्रह्माणम्-उत-प्रजापतिम्-दधामि ॥6॥ अहम्-दधामि-द्रविणम्-हविष्मते-सुप्राव्ये-यजमानाय-सुन्वते। अहम्-राष्ट्रि-संगमनी-वसूनाम्-चिकितुषी-प्रथमा-यज्ञियानाम्। अहम्-सुवे-पितरम्-अस्य-मूर्धन्-मम-योनिः-अप्सु-अन्तः-समुद्रे। यः-एवम्-वेद-सः-देवीम्-सम्पदम्-आप्नोति ॥7॥ ते-देवाः-अब्रुवन्। नमः-देव्यै-महादेव्यै-शिवायै-सततम्-नमः। नमः-प्रकृत्यै-भद्रायै-नियताः-प्रणताः-स्म-ताम् ॥8॥ ताम्-अग्नि-वर्णाम्-तपसा-ज्वलन्तीम्-वैरोचनीम्-कर्म-फलेषु-जुष्टाम्। दुर्गाम्-देवीम्-शरणम्-प्रपद्यामहे-असुरान्-नाशयित्र्यै-ते-नमः ॥9॥ देवीम्-वाचम्-अजनयन्त-देवाः-ताम्-विश्व-रूपाः-पशवः-वदन्ति। सा-नः-मन्द्रा-ईषम्-ऊर्जम्-दुहाना-धेनुः-वाक्-अस्मान्-उप-सुष्टुत-एतु ॥10॥ कालरात्रिम्-ब्रह्म-स्तुताम्-वैष्णवीम्-स्कन्द-मातरम्। सरस्वतीम्-अदितिम्-दक्ष-दुहितरम्-नमामः-पावनाम्-शिवाम् ॥11॥ महालक्ष्म्यै-च-विद्महे-सर्वशक्त्यै-च-धीमहि। तत्-नः-देवी-प्रचोदयात् ॥12॥ अदितिः-हि-अजनिष्ट-दक्ष-या-दुहिता-तव। ताम्-देवाः-अन्वजायन्त-भद्राः-अमृत-बन्धवः ॥13॥ कामः-योनिः-कमला-वज्रपाणिः-गुहा-हसा-मातरिश्वा-अभ्रम्-इन्द्रः। पुनः-गुहा-सकला-मायया-च-पुरूचा-एषा-विश्वमाता-दिवि-इद्यम् ॥14॥ एषा-आत्म-शक्तिः। एषा-विश्व-मोहिनी। पाश-अङ्कुश-धनुः-बाण-धरा। एषा-श्री-महा-विद्या। यः-एवम्-वेद-सः-शोकम्-तरति ॥15॥ नमः-ते-अस्तु-भगवति-मातर्-अस्मान्-पाहि-सर्वतः ॥16॥ सा-एषा-अष्टौ-वसवः। सा-एषा-एकादश-रुद्राः। सा-एषा-द्वादश-आदित्याः। सा-एषा-विश्वे-देवाः-सोमपाः-असोमपाः-च। सा-एषा-यातुधानाः-असुराः-रक्षांसि-पिशाचाः-यक्षाः-सिद्धाः। सा-एषा-सत्त्व-रजस्-तमांसि। सा-एषा-ब्रह्म-विष्णु-रुद्र-रूपिणी। सा-एषा-प्रजापति-इन्द्र-मनवः। सा-एषा-ग्रह-नक्षत्र-ज्योतींषि-कलाकाष्ठ-आदि-काल-रूपिणी। ताम्-अहम्-प्रणौमि-नित्यम्। पाप-अपहारिणीम्-देवीम्-भुक्ति-मुक्ति-प्रदायिनीम्। अनन्ताम्-विजयाम्-शुद्धाम्-शरण्याम्-शिवदाम्-शिवाम् ॥17॥ वियत्-ईकार-संयुक्तम्-वीति-होत्र-समन्वितम्। अर्ध-इन्दु-लसितम्-देव्याः-बीजम्-सर्व-अर्थ-साधकम् ॥18॥ एवम्-एक-अक्षरम्-ब्रह्म-यतयः-शुद्ध-चेतसः। ध्यायन्ति-परम-आनन्द-मयाः-ज्ञान-अम्बु-राशयः ॥19॥ वाक्-माया-ब्रह्म-सूः-तस्मात्-षष्ठम्-वक्त्र-समन्वितम्। सूर्यः-अवाम-श्रोत्र-बिन्दु-संयुक्तः-अष्टात्-तृतीयकः। नारायणेन-सम्मिश्रः-वायुः-च-अधर-युक्ततः। विच्चे-नव-अर्णकः-अर्णः-स्यात्-महत्-आनन्द-दायकः ॥20॥ हृत्-पुण्डरीक-मध्य-स्थाम्-प्रातः-सूर्य-सम-प्रभाम्। पाश-अङ्कुश-धराम्-सौम्याम्-वरद-अभय-हस्त-काम्। त्रि-नेत्राम्-रक्त-वसनाम्-भक्त-काम-दुघाम्-भजे ॥21॥ नमामि-त्वाम्-महा-देवीम्-महा-भय-विनाशिनीम्। महा-दुर्ग-प्रशमनीम्-महा-कारुण्य-रूपिणीम् ॥22॥ यस्याः-स्वरूपम्-ब्रह्म-आदयः-न-जानन्ति-तस्मात्-उच्यते-अज्ञेया। यस्याः-अन्तः-न-लभ्यते-तस्मात्-उच्यते-अनन्ता। यस्याः-लक्ष्यम्-न-उपलक्ष्यते-तस्मात्-उच्यते-अलक्ष्या। यस्याः-जननम्-न-उपलभ्यते-तस्मात्-उच्यते-अजा। एका-एव-सर्वत्र-वर्तते-तस्मात्-उच्यते-एका। एका-एव-विश्व-रूपिणी-तस्मात्-उच्यते-नैका। अतः-एव-उच्यते-अज्ञेया-अनन्ता-अलक्ष्या-अजा-एका-नैका-इति ॥23॥ मन्त्राणाम्-मातृका-देवी-शब्दानाम्-ज्ञान-रूपिणी। ज्ञानानाम्-चिन्मया-अतीता-शून्यानाम्-शून्य-साक्षिणी। यस्याः-परतरम्-न-अस्ति-सा-एषा-दुर्गा-प्रकीर्तिता ॥24॥ ताम्-दुर्गाम्-दुर्गमाम्-देवीम्-दुराचार-विघातिनीम्। नमामि-भव-भीतः-अहम्-संसार-अर्णव-तारिणीम् ॥25॥ इदम्-अथर्व-शीर्षम्-यः-अधीते-सः-पञ्च-अथर्व-शीर्ष-जप-फलम्-आप्नोति। इदम्-अथर्व-शीर्षम्-अज्ञात्वा-यः-अर्चाम्-स्थापयति। शत-लक्षम्-प्रजप्त्वा-अपि-सः-अर्चा-सिद्धिम्-न-विन्दति। शतम्-अष्ट-उत्तरम्-च-अस्य-पुरश्चर्या-विधिः-स्मृतः। दश-वारम्-पठेत्-यः-तु-सद्यः-पापैः-प्रमुच्यते। महा-दुर्गाणि-तरति-महा-देव्याः-प्रसादतः ॥26॥ सायम्-अधीयानः-दिवस-कृतम्-पापम्-नाशयति। प्रातः-अधीयानः-रात्रि-कृतम्-पापम्-नाशयति। सायम्-प्रातः-प्रयुञ्जानः-अपापः-भवति। निशीथे-तुरीय-संध्यायाम्-जप्त्वा-वाक्-सिद्धिः-भवति। नूतनायाम्-प्रतिमायाम्-जप्त्वा-देवता-सान्निध्यम्-भवति। प्राण-प्रतिष्ठायाम्-जप्त्वा-प्राणानाम्-प्रतिष्ठा-भवति। भौम-अश्विन्याम्-महा-देवी-सन्निधौ-जप्त्वा-महा-मृत्युम्-तरति। सः-महा-मृत्युम्-तरति। यः-एवम्-वेद। इति-उपनिषत् ॥27॥ इति देव्यथर्वशीर्षम् ।