॥ श्रीनृसिंह द्वादशनाम स्तोत्रम् ॥ प्रथमम्-तु-महा-ज्वालः। द्वितीयम्-उग्र-केसरी। वज्र-नखः-तृतीयम्-तु। चतुर्थम्-तु-विदारणः॥ १॥ सिंह-आस्यः-पञ्चमम्-च-एव। षष्ठम्-कशिपु-मर्दनः। सप्तमम्-रिपु-हन्ता-च। अष्टमम्-देव-वल्लभः॥ २॥ प्रह्लाद-राजः-नवमम्। दशमम्-द्वादश-आत्मकः। एकादशम्-महा-रुद्रः। द्वादशम्-करुणा-निधिः॥ ३॥ एतानि-द्वादश-नामानि-नृसिंहस्य-महा-आत्मनः। मन्त्र-राजः-इति-विख्यातम्-सर्व-पाप-हरम्-शुभम्॥ ४॥ ज्वर-अपस्मार-कुष्ठ-आदि-ताप-ज्वर-निवारणम्। राज-द्वारे-तथा-मार्गे-संग्रामेषु-जल-अन्तरे॥ ५॥ गिरि-गह्वर-गो-व्याघ्र-चोर-महा-उरगे। आवर्तनम्-सहस्रेषु-लभते-वाञ्छितम्-फलम्॥ ६॥ इति-श्री-ब्रह्म-पुराणे-ब्रह्म-नारद-संवादे-श्री-लक्ष्मी-नृसिंह-द्वादश-नाम-स्तोत्रम्-सम्पूर्णम्॥