।।नवग्रह सूक्तम्।। ॐ शुक्ल अम्बर धरम् विष्णुम् शशि वर्णम् चतुर्भुजम् । प्रसन्न वदनम् ध्यायेत् सर्व विघ्न उपशान्तये ॥ ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत् सवितुः वरेण्यम् भर्गः देवस्य धीमहि धियः यः नः प्रचोदयात् ॥ ॐ आपः ज्योतिः रसः अमृतम् ब्रह्म भूः भुवः सुवः ॐ ॥ मम उपात्त समस्त दुरित क्षय द्वारा श्री परमेश्वर प्रीति अर्थम् आदित्य आदि नवग्रह देवता प्रसाद सिद्धि अर्थम् आदित्य आदि नवग्रह नमस्कारान् करिष्ये ॥ ॐ आ सत्येन रजसा वर्तमानः निवेशयन् अमृतम् मर्त्यम् च । हिरण्ययेन सविता रथेन आ देवः याति भुवनानि विपश्यन् ॥ अग्निम् दूतम् वृणीमहे होतारम् विश्व वेदसम् । अस्य यज्ञस्य सु क्रतुम् ॥ येषाम् ईशे पशु पतिः पशूनाम् चतुष्पदाम् उत च द्विपदाम् । निष्क्रीतः अयम् यज्ञियम् भागम् एतु रायः पोषाः यजमानस्य सन्तु ॥ ॐ अधि देवता प्रति अधि देवता सहिताय आदित्याय नमः ॥ 1 ॥ ॐ आप्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ अप्सु मे सोमः अब्रवीत् अन्तर् विश्वानि भेषजा । अग्निम् च विश्व शम्भुवम् आपः च विश्व भेषजीः ॥ गौरी मिमाय सलिलानि तक्षति एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्र अक्षरा परमे व्योमन् ॥ ॐ अधि देवता प्रति अधि देवता सहिताय सोमाय नमः ॥ 2 ॥ ॐ अग्निः मूर्धा दिवः ककुत् पतिः पृथिव्याः अयम् । अपाम् रेतांसि जिन्वति ॥ स्योना पृथिवि भव अनृक्षरा निवेशनी । यच्छा नः शर्म स प्रथाः ॥ क्षेत्रस्य पतिना वयम् हि ते इव जयामसि । गाम् अश्वम् पोषयित्वा सः नः मृडाति ईदृशे ॥ ॐ अधि देवता प्रति अधि देवता सहिताय अङ्गारकाय नमः ॥ 3 ॥ ॐ उद्बुध्यस्व अग्ने प्रति जागृहि एनम् इष्ट पूर्ते सं सृजेथाम् अयम् च । पुनः कृण्वन् त्वा पितरम् युवानम् अन्वातांसि इत्त्वयि तन्तुम् एतम् ॥ इदम् विष्णुः विचक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य पांसु रेषु ॥ विष्णोः रराटम् असि विष्णोः पृष्ठम् असि विष्णोः स्नप्त्रे स्थः विष्णोः स्यूर् असि विष्णोः ध्रुवम् असि वैष्णवम् असि विष्णवे त्वा ॥ ॐ अधि देवता प्रति अधि देवता सहिताय बुधाय नमः ॥ 4 ॥ ॐ बृहस्पते अति यत् अर्यः अर्हात् द्युमत् विभाति क्रतुमत् जनिषु । यत् दीदयत् च अवस ऋत प्रजात तद् अस्मासु द्रविणम् धेहि चित्रम् ॥ इन्द्र मरुत्व इह पाहि सोमम् यथा शार्यातः अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन् आविवासन्ति कवयः सु यज्ञाः ॥ ब्रह्म जज्ञाणम् प्रथमम् पुरस्तात् विसीमतः सुरुचः वेनः आवः । स बुध्निया उपमा अस्य विष्ठाः सतः च योनिम् असतः च विवः ॥ ॐ अधि देवता प्रति अधि देवता सहिताय बृहस्पतये नमः ॥ 5 ॥ ॐ प्रवः शुक्राय भानवे भरध्वम् । हव्यम् मतिम् च अग्नये सुपूतम् । यः दैव्यानि मानुषा जनूंषि अन्तर् विश्वानि विद्म न जिगाति ॥ इन्द्राणीम् आसु नारिषु सुपत्नीम् अहम् अश्रवम् । न हि अस्याः अपरम् चन जरसा मरते पतिः ॥ इन्द्रम् वः विश्वतः परि हवामहे जनेभ्यः । अस्माकम् अस्तु केवलः ॥ ॐ अधि देवता प्रति अधि देवता सहिताय शुक्राय नमः ॥ 6 ॥ ॐ शं नः देवीः अभिष्टये आपः भवन्तु पीतये । शं यः अभि स्रवन्तु नः ॥ प्रजापते न त्वत् एतानि अन्यः विश्वा जातानि परिता बभूव । यत् कामाः ते जुहुमः तत् नः अस्तु वयम् स्याम पतयः रयीणाम् ॥ इमम् यम् प्रस्तरम् आहि सीद अङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कवि शस्ताः वहन्तु एन राजन् हविषा मादयस्व ॥ ॐ अधि देवता प्रति अधि देवता सहिताय शनैश्चराय नमः ॥ 7 ॥ ॐ कया नः चित्रा आभुवत् ऊती सदा वृधः सखा । कया शचिष्ठया वृता ॥ अयम् गौः पृष्निः अक्रमीत् असदन् मातरम् पुनः । पितरम् च प्रयन् सुवः ॥ यत् ते देवी निरृतिः आ बबन्ध दाम ग्रीवासु अविचर्त्यम् । इदम् ते तत् विष्यामि आयुषः न मध्यात् अथ जीवः पितुम् अद्धि प्रमुक्तः ॥ ॐ अधि देवता प्रति अधि देवता सहिताय राहवे नमः ॥ 8 ॥ ॐ केतुम् कृण्वन् अकेतवे पेशः मर्यः अपेशसे । समुषद्भिः अजायथाः ॥ ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिः विप्राणाम् महिषः मृगाणाम् । श्येनः गृध्राणाम् स्वधितिः वनानाम् सोमः पवित्रम् अति एति रेभन् ॥ स चित्रः चित्रम् चितयन् तमस्मे चित्रक्षत्र चित्रतमम् वयो धाम् । चन्द्रम् रयिम् पुरु वीरम् बृहन्तम् चन्द्र चन्द्राभिः गृणते युवस्व ॥ ॐ अधि देवता प्रति अधि देवता सहितेभ्यः केतुभ्यः नमः ॥ 9 ॥ ॥ ॐ आदित्य आदि नवग्रह देवताभ्यः नमः नमः ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥