।।नारायण सूक्तम्।। शान्ति मन्त्र ॐ सह नः अवतु सह नौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनौ अधीतम् अस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः (उपनिषद् मन्त्र) धाता पुरस्तात् यम् उदाजहार शक्रः प्रविद्वान् प्रदिशः चतस्रः तम् एवम् विद्वान् अमृतः इह भवति न अन्यः पन्था अयनाय विद्यते मन्त्र १ ॐ सहस्र-शीर्षम् देवम् विश्व-अक्षम् विश्व-शम्भुवम् विश्वम् नारायणम् देवम् अक्षरम् परमम् पदम् मन्त्र २ विश्वतः परम् नित्यम् विश्वम् नारायणम् हरिम् विश्वम् एव इदम् पुरुषः तत् विश्वम् उपजीवति मन्त्र ३ पतिम् विश्वस्य आत्म-ईश्वरम् शाश्वतम् शिवम् अच्युतम् नारायणम् महा-ज्ञेयम् विश्व-आत्मानम् परायणम् मन्त्र ४ नारायण-परः ज्योतिः आत्मा नारायणः परः नारायण-परम् ब्रह्म तत्त्वम् नारायणः परः मन्त्र ५ नारायण-परः ध्याता ध्यानम् नारायणः परः यत् च किञ्चित् जगत् सर्वम् दृश्यते श्रूयते अपि वा मन्त्र ६ अन्तः बहिः च तत् सर्वम् व्याप्य नारायणः स्थितः अनन्तम् अव्ययम् कविम् समुद्र-अन्तम् विश्व-शम्भुवम् मन्त्र ७ पद्म-कोश-प्रतीकाशम् हृदयम् च अपि अधो-मुखम् अधः निष्ट्या वितस्ति-अन्ते नाभ्याम् उपरि तिष्ठति मन्त्र ८ ज्वाला-माला-कुलम् भाति विश्वस्य आयतनम् महत् सन्ततम् शिलाभिः तु लम्बति आकोश-सन्निभम् मन्त्र ९ तस्य अन्ते सुषिरम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महान् अग्निः विश्व-अर्चिः विश्वतः मुखः मन्त्र १० सः अग्र-भुक् विभजन् तिष्ठन् आहारम् अजरः कविः तिर्यक् ऊर्ध्वम् अधः शायी रश्मयः तस्य सन्तताः मन्त्र ११ सन्तापयति स्वम् देहम् आपाद-तल-मस्तकः तस्य मध्ये वह्नि-शिखा अणीयः ऊर्ध्वा व्यवस्थितः मन्त्र १२ नील-तोयद-मध्य-स्था विद्युत्-लेखा इव भास्वरा नीवार-शूक-वत्तन्वी पीता भास्वती अणु-उपमा मन्त्र १३ तस्याः शिखायाः मध्ये परमात्मा व्यवस्थितः सः ब्रह्म सः शिवः सः हरिः सः इन्द्रः सः अक्षरः परमः स्वराट् मन्त्र १४ ऋतम् सत्यम् परम् ब्रह्म पुरुषम् कृष्ण-पिङ्गलम् ऊर्ध्व-रेतम् विरूपाक्षम् विश्व-रूपाय वै नमः नमः नारायण गायत्री ॐ नारायणाय विद्महे वासुदेवाय धीमहि तत् नः विष्णुः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः