🕉 दुर्गा सूक्तम् मन्त्र १ ॐ जात-वेदसे सुनवाम सोमम् अराति-यतः नि दहाति वेदः सः नः पर्षत् अति दुर्गाणि विश्वा नौः इव सिन्धुम् दुरितात् अति अग्निः मन्त्र २ ताम् अग्नि-वर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म-फलेषु जुष्टाम् दुर्गाम् देवीम् शरणम् अहम् प्रपद्ये सुतरासि तरसे नमः मन्त्र ३ अग्ने त्वम् पारया नव्यः अस्मान् स्वस्तिभिः अति दुर्गाणि विश्वा पूः च पृथ्वी बहुला नः उर्वी भव तोकाय तनयाय शम् योः मन्त्र ४ विश्वानि नः दुर्गहा जात-वेदः सिन्धुम् न नौः दुरितात् अति पर्षि अग्ने अत्रि-वत् मनसा गृणानः अस्माकम् बोधि अविता तनूनाम् मन्त्र ५ पृतना-जितम् सहमानम् उग्रम् अग्निम् हुवेम परमात् सदस्ठात् सः नः पर्षत् अति दुर्गाणि विश्वा क्षामत् देवः अति दुरितात् अति अग्निः मन्त्र ६ प्रत्-नः असि कम्-ईड्यः अध्वरेषु सनात् च होता नव्यः च सत्सि स्वाञ्चा अग्ने तनुवम् पिप्रयस्व अस्मभ्यम् च सौभगम् आयजस्व मन्त्र ७ गोभिः जुष्टम् अयुजः निषिक्तम् तव इन्द्र विष्णोः अनुसञ्चरेम नाकस्य पृष्ठम् अभि संवसानाः वैष्णवीम् लोकम् इह मादयन्ताम् मन्त्र ८ (दुर्गा गायत्री) ॐ कात्यायनाय विद्महे कन्या-कुमारी धीमहि तत् नः दुर्गिः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः