|| संपूर्ण श्रीसूक्तम् || विनियोगः ॐ हिरण्यवर्णामिति पञ्चदशार्चस्य श्रीसूक्तस्य आनन्दकर्दम–चिक्लीतेन्दिरासुताः महर्षयः । श्रीरग्निर्देवता । आद्यास्तिस्रोऽनुष्टुभः । चतुर्थी बृहती । पञ्चमी–षष्ठ्यौ त्रिष्टुभौ । ततोऽष्टावनुष्टुभः । अन्त्या प्रस्तारपङ्क्तिः । हिरण्यवर्णामिति बीजम् । तां आवह जातवेद इति शक्तिः । कीर्तिमृद्धिं ददातु मे इति कीलकम् । मम श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थं न्यासे जपे च विनियोगः ॥ करशुद्धिः ‘श्रीं’ बीजस्य उच्चारणं कृत्वा त्रिवारं करयोः प्रक्षालनं कुर्यात् । (3 बार श्रीं का उच्चारण करके करशुद्धि करें) ऋष्यादिन्यासः ॐ आनन्दकर्दम-चिक्लीतेन्दिरासुत ऋषिभ्यो नमः — शिरसि। ॐ जातवेदाग्नि-श्रीमहालक्ष्मी देवतायै नमः — हृदये। ॐ अनुष्टुभादि छन्देभ्यो नमः — मुखे। ॐ हिरण्यवर्णामिति बीजाय नमः — नाभौ। ॐ तां आवह जातवेद इति शक्त्यै नमः — कटिदेशे। ॐ कीर्तिमृद्धिं ददातु मे इति कीलकाय नमः — पादयोः। ॐ मम सकल-विधि-धन-धान्य-यशः-श्री-पुत्रादि प्राप्तये श्रीमहालक्ष्मी-वरप्रसाद-सिद्ध्यर्थं जपे विनियोगः — सर्वाङ्गे। मन्त्राङ्गन्यासः ॐ आं ह्रीं क्रौं ऐं श्रीं क्लीं ब्लूं यौं रं वं श्रीं हिरण्यवर्णामिति — शिरसि। तां आवह जातवेद इति — नेत्रयोः। अश्वपूर्वामिति — कर्णयोः। कां सोऽस्मितामिति — नासिकायाम्। चन्द्रप्रभासामिति — मुखे। आदित्यवर्णामिति — कण्ठे। उपेतु मामिति — बाह्वोः। क्षुत्पिपासामिति — हृदये। गन्धद्वारामिति — नाभौ। मनसः काममिति — गुह्ये। कर्दमेनिति — वायौ। आपः सृजन्तिमिति — ऊरुषु। आर्द्रां पुष्करिणीं पुष्टिमिति — जान्वोः। आर्द्रां यः करिणीमिति — जङ्घयोः। तां आवह जातवेदो इति — पादयोः। करन्यासः ॐ श्रां नमो भगवत्यै महालक्ष्म्यै हिरण्यवर्णायै अङ्गुष्ठाभ्यां नमः। ॐ श्रीं नमो भगवत्यै महालक्ष्म्यै हिरण्यमय्यै तर्जनीभ्यां नमः। ॐ श्रुं नमो भगवत्यै महालक्ष्म्यै स्वर्णरजतस्रजायै मध्याभ्यां नमः। ॐ श्रैं नमो भगवत्यै महालक्ष्म्यै चन्द्रायै अनामिकाभ्यां नमः। ॐ श्रौं नमो भगवत्यै महालक्ष्म्यै हिरण्यमय्यै कनिष्ठिकाभ्यां नमः। ॐ श्रः नमो भगवत्यै महालक्ष्म्यै करतल-करपृष्ठाभ्यां अस्त्राय फट्। अङ्गन्यासः ॐ श्रां नमो भगवत्यै महालक्ष्म्यै हिरण्यवर्णायै हृदयाय नमः। ॐ श्रीं नमो भगवत्यै महालक्ष्म्यै हिरण्यमय्यै शिरसे स्वाहा। ॐ श्रुं नमो भगवत्यै महालक्ष्म्यै स्वर्णरजतस्रजायै शिखायै वषट्। ॐ श्रैं नमो भगवत्यै महालक्ष्म्यै चन्द्रायै कवचाय हुम्। ॐ श्रौं नमो भगवत्यै महालक्ष्म्यै हिरण्यमय्यै नेत्रत्रयाय वौषट्। ॐ श्रः नमो भगवत्यै महालक्ष्म्यै करतल-करपृष्ठाभ्यां अस्त्राय फट्। || श्री महालक्ष्मी ध्यान || अरुण कमल संस्था तद्रज:पुंज वर्णा कर कमल घृतेष्ठा भीति युग्माम्बु जाता। मणिमुकट विचित्रालंकृता कल्प जालै: सकल भुवन माता सन्ततम् श्रीं श्रिये नमः या रक्ताम्बुज वासिनी विलासिनी चण्डान्शु तेजस्विनी या रक्ता रूधिराम्बरा हरिसखी या श्रीहरिमनोऽलहादिनी या रत्नाकर मंथनात्प्रकटिता विष्णोर्स्वया गेहिनी साम् माम् पातु मनोरमा भगवती लक्ष्मीश्च पद्मावती वन्दे महालक्ष्मीं परब्रहमरूपिणी शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलांगीम् बीजापूरं कनककलशं हेमपद्मद्घानां माद्यां शक्तिं आद्यविष्णुवामांकसंस्थिताम् चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी । जगन्माता जीवदात्री नारायणी परमेश्वरी व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी । पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः । तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् कान्त्या काञ्चनसन्निभां हिमगिरि प्रख्यैश्चचतुर्भिर्गंजै हंस्तोत्क्षिप्त हिरण्मयामृतघटेरा सिंच्ययमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तं किरीटोज्ज्वलां क्षौमा बद्धनितम्बबिम्बलसितां वन्देरविन्दस्थिताम् ॥ || अथ संपूर्ण श्रीसूक्तम् || हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥1॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥2॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥3॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥4॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनीमीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ॥5॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥6॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह। प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥7॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥8॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥9॥ मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रूपमन्नस्य मयिश्रीः श्रयतां यशः ॥10॥ कर्दमेन प्रजाभूता सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥11॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे । नि च देवी मातरं श्रियं वासय मे कुले ॥12॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥13॥ आर्द्रा यः करिणीं यष्टिं सुवर्णां हेममालिनीम्। सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥14॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥15॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्। सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥16॥ पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि। विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि संनिधत्स्व ॥17॥ पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे । त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥18॥ अश्वदायी गोदायी धनदायी महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥19॥ पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥20॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥21॥ वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥22॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥23॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥24॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः । नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥25॥ लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम् । दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् । श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् । त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥26॥ सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती । श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥27॥ वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥28॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥ शरणागत दीनार्त परित्राण परायणे सर्वस्यार्ति हरे देवी नारायणी नमोस्तुते ॥29॥ सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥30॥ विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥31॥ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही । तन्नो लक्ष्मीः प्रचोदयात् ॥32॥ आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः । ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः ॥33॥ चन्द्रभां लक्ष्मीमीशानां सूर्यभां श्रियमीश्वरीम् । चन्द्र सूर्याग्नि सर्वाभां श्रीमहालक्ष्मीमुपास्महे ॥34॥ श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥35॥ ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥36॥ ॐ हरिणीं तु हरेः पत्नीं दारिद्र्य परिहारिणीम् । प्रपद्येऽहं हरिद्राभां हरिणाक्षीं हिरण्मयीम् ॥37॥ विश्वारणे नमस्तुभ्यं नमो विश्व विभूतये । सर्वासामपि सिद्धिनां नमस्ते मूलहेतवे । आदिदेवात्मभूतायै नारायण कुटुम्बिनी । समस्त जगदाराध्यै नमस्ते पदमयोन्यै ॥38॥ ॐ श्रीं देवी तां मम गृहे चिरं वासय मातरम् । नमोस्तु तुभ्यं चिक्लीत श्री देव्यै च नमो नमः । श्रींबीजपूजिते देवि हरिवक्षस्थलालये । सर्वसौमङ्गलाधात्रि महालक्ष्मि नमोस्तु ते ॥39॥ पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् । पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् । विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् । दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥40॥ नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् । त्रिकालज्ञानसम्पन्नां नमामि त्रिभुवनेश्वरीं महालक्ष्मीम् ॥41॥ पूर्णानन्दामयी त्वं हि पूर्णब्रहम सनातनी पराशक्ति पराभक्तिर्लक्ष्मीदेवी नमोस्तुते॥ पद्मासने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते महाविष्णु वक्षस्थलालये ॥42॥ ॐ सर्वबाधा विर्निमुक्तो धनधान्यसुतान्वित:। मनुष्यो मत्प्रसादेन भविष्यति न संशय: ॥43॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥44॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।45॥ प्रार्थना यावद् चंंद्रश्च सूर्य्यश्च यावद् देवा वसुन्धरा । तावन्मम गृहे देवि अचला सुस्थिरा भव ।। यावद् ब्रह्मादयो देवामनुभुञ्ज चतुर्दशः । तावन्मम गृहे देवि अचला सुस्थिरा भव ।। यावत् तारागणाकाशे यावद् इन्द्रादयो अप्सरा: तावन्मम गृहे देवि अचला सुस्थिरा भव ।। श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु । श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥ श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं सन्धत्तं सन्धीयते प्रजया पशुभिः । य एवं वेद । य एवं वेद ॐ महादेव्यै च विष्णुपत्नीं च धीमहि। तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः ॥ ओम शांति शांति शांति। ॥ इति शुभम् ॥ || पाठ फल || श्री लक्ष्मीर्वरदा विष्णुपत्नी वसुप्रदा, हिरण्यरूपा स्वर्णमालिनी रजतस्त्रजा स्वर्णप्रभा स्वर्णप्राकारा पदमवासिनी पदमहस्ता पदमप्रिया मुक्तालंकारा चन्द्रा सूर्या बिल्वप्रिया ईश्वरी भुक्तिर्मुक्ति विभूति ऋद्धि समृद्धि वृष्टि: पुष्टिर्धनदा धनेश्वरी श्रद्धा भोगिनी भोगदा सावित्री धात्रित्यादय: स सकल धन धान्य सत्पुत्र कलत्र हय भू: गज पशु महिषी दासी दासयो , ज्ञानवान भवतिर्न संशय: ज्ञानेश्वर सुखारोग्य धन-धान्य जयादिकम लक्ष्य यस्या समुद्दिष्ट सा लक्ष्मीरिती गद्यते II ********************************