।।श्री लक्ष्मी हृदय स्तोत्रम्।। ॐ अस्य श्री महालक्ष्मीहृदय स्तोत्र महामंत्रस्य भार्गव ऋषिः, अनुष्टुपादीनि नानाछंदांसि, आद्यादि श्रीमहालक्ष्मीर्देवता, श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं, आद्यादिमहालक्ष्मी प्रसादसिद्ध्यर्थं जपे विनियोगः ॥ ऋष्यादिन्यासः – ॐ भार्गवृषये नमः शिरसि । ॐ अनुष्टुपादिनानाछंदोभ्यो नमो मुखे । ॐ आद्यादिश्रीमहालक्ष्मी देवतायै नमो हृदये । ॐ श्रीं बीजाय नमो गुह्ये । ॐ ह्रीं शक्तये नमः पादयोः । ॐ ऐं कीलकाय नमो नाभौ । ॐ विनियोगाय नमः सर्वांगे । करन्यासः – ॐ श्रीं अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ श्रीं अनामिकाभ्यां नमः । ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतल करपृष्ठाभ्यां नमः । अंगन्यासः – ॐ श्रीं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ श्रीं कवचाय हुम् । ॐ ह्रीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् । ॐ श्रीं ह्रीं ऐं इति दिग्बंधः । अथ ध्यानम् । हस्तद्वयेन कमले धारयंतीं स्वलीलया । हारनूपुरसंयुक्तां लक्ष्मीं देवीं विचिंतये ॥ कौशेयपीतवसनामरविंदनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम् । उद्यच्छतार्कसदृशीं परमांकसंस्थां ध्यायेद्विधीशनतपादयुगां जनित्रीम् ॥ पीतवस्त्रां सुवर्णांगीं पद्महस्तद्वायान्विताम् । लक्ष्मीं ध्यात्वेति मंत्रेण स भवेत्पृथिवीपतिः ॥ मातुलुंगं गदां खेटं पाणौ पात्रं च बिभ्रती । नागं लिंगं च योनिं च बिभ्रतीं चैव मूर्धनि ॥ [ इति ध्यात्वा मानसोपचारैः संपूज्य । शंखचक्रगदाहस्ते शुभ्रवर्णे सुवासिनी । मम देहि वरं लक्ष्मीः सर्वसिद्धिप्रदायिनी । इति संप्रार्थ्य ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्यै सिंहवाहिन्यै स्वाहा इति मंत्रं जप्त्वा पुनः पूर्ववद्धृदयादि षडंगन्यासं कृत्वा स्तोत्रं पठेत् । ] स्तोत्रम् । वंदे लक्ष्मीं परमशिवमयीं शुद्धजांबूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलांगीम् । बीजापूरं कनककलशं हेमपद्मं दधाना- -माद्यां शक्तिं सकलजननीं विष्णुवामांकसंस्थाम् ॥ 1 ॥ श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् । सर्वकामफलावाप्तिसाधनैकसुखावहाम् ॥ 2 ॥ स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः । त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ 3 ॥ समस्तसंपत्सुखदां महाश्रियं समस्तसौभाग्यकरीं महाश्रियम् । समस्तकल्याणकरीं महाश्रियं भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ 4 ॥ विज्ञानसंपत्सुखदां सनातनीं विचित्रवाग्भूतिकरीं मनोहराम् । अनंतसंमोदसुखप्रदायिनीं नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ 5 ॥ समस्तभूतांतरसंस्थिता त्वं समस्तभोक्त्रीश्वरि विश्वरूपे । तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ 6 ॥ दारिद्र्य दुःखौघतमोपहंत्री त्वत्पादपद्मं मयि सन्निधत्स्व । दीनार्तिविच्छेदनहेतुभूतैः कृपाकटाक्षैरभिषिंच मां श्रीः ॥ 7 ॥ अंब प्रसीद करुणासुधयार्द्रदृष्ट्या मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व । आलोकय प्रणतहृद्गतशोकहंत्री त्वत्पादपद्मयुगलं प्रणमाम्यहं श्रीः ॥ 8 ॥ शांत्यै नमोऽस्तु शरणागतरक्षणायै कांत्यै नमोऽस्तु कमनीयगुणाश्रयायै । क्षांत्यै नमोऽस्तु दुरितक्षयकारणायै दात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ 9 ॥ शक्त्यै नमोऽस्तु शशिशेखरसंस्तुतायै रत्यै नमोऽस्तु रजनीकरसोदरायै । भक्त्यै नमोऽस्तु भवसागरतारकायै मत्यै नमोऽस्तु मधुसूदनवल्लभायै ॥ 10 ॥ लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै सिद्ध्यै नमोऽस्तु शिवसिद्धसुपूजितायै । धृत्यै नमोऽस्त्वमितदुर्गतिभंजनायै गत्यै नमोऽस्तु वरसद्गतिदायिकायै ॥ 11 ॥ देव्यै नमोऽस्तु दिवि देवगणार्चितायै भूत्यै नमोऽस्तु भुवनार्तिविनाशनायै । धात्र्यै नमोऽस्तु धरणीधरवल्लभायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 12 ॥ सुतीव्रदारिद्र्यविदुःखहंत्र्यै नमोऽस्तु ते सर्वभयापहंत्र्यै । श्रीविष्णुवक्षःस्थलसंस्थितायै नमो नमः सर्वविभूतिदायै ॥ 13 ॥ जयतु जयतु लक्ष्मीर्लक्षणालंकृतांगी जयतु जयतु पद्मा पद्मसद्माभिवंद्या । जयतु जयतु विद्या विष्णुवामांकसंस्था जयतु जयतु सम्यक्सर्वसंपत्करी श्रीः ॥ 14 ॥ जयतु जयतु देवी देवसंघाभिपूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा । जयतु जयतु नित्या निर्मलज्ञानवेद्या जयतु जयतु सत्या सर्वभूतांतरस्था ॥ 15 ॥ जयतु जयतु रम्या रत्नगर्भांतरस्था जयतु जयतु शुद्धा शुद्धजांबूनदाभा । जयतु जयतु कांता कांतिमद्भासितांगी जयतु जयतु शांता शीघ्रमागच्छ सौम्ये ॥ 16 ॥ यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्र प्रमुखाश्च देवाः । जीवंति सर्वेऽपि सशक्तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ 17 ॥ लिलेख निटिले विधिर्मम लिपिं विसृज्यांतरं त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये । तदंतरफलेस्फुटं कमलवासिनी श्रीरिमां समर्पय समुद्रिकां सकलभाग्यसंसूचिकाम् ॥ 18 ॥ कलया ते यथा देवि जीवंति सचराचराः । तथा संपत्करे लक्ष्मि सर्वदा संप्रसीद मे ॥ 19 ॥ यथा विष्णुर्ध्रुवे नित्यं स्वकलां संन्यवेशयत् । तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ 20 ॥ सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे । अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ 21 ॥ मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला सदा वैकुंठश्रीर्निवसतु कला मे नयनयोः । वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला श्रियः श्वेतद्वीपे निवसतु कला मे स्वकरयोः ॥ 22 ॥ तावन्नित्यं ममांगेषु क्षीराब्धौ श्रीकला वसेत् । सूर्याचंद्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियाः ॥ 23 ॥ सर्वमंगलसंपूर्णा सर्वैश्वर्यसमन्विता । आद्यादि श्रीर्महालक्ष्मी त्वत्कला मयि तिष्ठतु ॥ 24 ॥ अज्ञानतिमिरं हंतुं शुद्धज्ञानप्रकाशिका । सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ 25 ॥ अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा । वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ 26 ॥ ऐश्वर्यमंगलोत्पत्तिस्त्वत्कलायां निधीयते । मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ 27 ॥ भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि । त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ 28 ॥ पुनासि मां त्वत्कलयैव यस्मा- -दतः समागच्छ ममाग्रतस्त्वम् । परं पदं श्रीर्भव सुप्रसन्ना मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ 29 ॥ श्रीवैकुंठस्थिते लक्ष्मि समागच्छ ममाग्रतः । नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ 30 ॥ सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् । वासुदेवेन सहिता प्रसीद वरदा भव ॥ 31 ॥ श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते । विष्णुना सहिते देवि जगन्मातः प्रसीद मे ॥ 32 ॥ क्षीरांबुधिस्थिते लक्ष्मि समागच्छ समाधवा । त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ 33 ॥ रत्नगर्भस्थिते लक्ष्मि परिपूर्णे हिरण्मये । समागच्छ समागच्छ स्थित्वाऽऽशु पुरतो मम ॥ 34 ॥ स्थिरा भव महालक्ष्मि निश्चला भव निर्मले । प्रसन्ने कमले देवि प्रसन्नहृदया भव ॥ 35 ॥ श्रीधरे श्रीमहाभूते त्वदंतःस्थं महानिधिम् । शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ 36 ॥ वसुंधरे श्रीवसुधे वसुदोग्ध्रि कृपामये । त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे संप्रदर्शय ॥ 37 ॥ विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे । त्वद्गर्भगतहेमादीन् संप्रदर्शय दर्शय ॥ 38 ॥ रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः । न जाने परमं रूपं मातर्मे संप्रदर्शय ॥ 39 ॥ आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः । मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ 40 ॥ देवि शीघ्रं समागच्छ धरणीगर्भसंस्थिते । मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ 41 ॥ उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि । अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ 42 ॥ निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः । समुन्नतानना भूत्वा समाधेहि धरांतरात् ॥ 43 ॥ मत्सन्निधिं समागच्छ मदाहितकृपारसात् । प्रसीद श्रेयसां दोग्ध्री लक्ष्मीर्मे नयनाग्रतः ॥ 44 ॥ अत्रोपविश लक्ष्मि त्वं स्थिरा भव हिरण्मये । सुस्थिरा भव संप्रीत्या प्रसीद वरदा भव ॥ 45 ॥ आनीतांस्तु तथा देवि निधीन्मे संप्रदर्शय । अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ 46 ॥ मयि तिष्ठ तथा नित्यं यथेंद्रादिषु तिष्ठसि । अभयं कुरु मे देवि महालक्ष्मीर्नमोऽस्तु ते ॥ 47 ॥ समागच्छ महालक्ष्मि शुद्धजांबूनदप्रभे । प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ 48 ॥ लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी । तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ 49 ॥ क्रीडंती बहुधा भूमौ परिपूर्णकृपामयि । मम मूर्धनि ते हस्तमविलंबितमर्पय ॥ 50 ॥ फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनी । प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ 51 ॥ अयोध्यादिषु सर्वेषु नगरेषु समास्थिते । वैभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ 52 ॥ समागच्छ समागच्छ ममाग्रे भव सुस्थिरा । करुणारसनिष्यंदनेत्रद्वय विलासिनी ॥ 53 ॥ [निष्पन्न] सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके । करुणासुधया मां त्वमभिषिंच्य स्थिरं कुरु ॥ 54 ॥ सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते । [मुदान्विते] स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाऽभयं कुरु ॥ 55 ॥ सादरं मस्तके हस्तं मम त्वं कृपयार्पय । सर्वराजगृहे लक्ष्मि त्वत्कला मयि तिष्ठतु ॥ 56 ॥ आद्यादि श्रीमहालक्ष्मि विष्णुवामांकसंस्थिते । प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ 57 ॥ प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे । अचला भव संप्रीत्या सुस्थिरा भव मद्गृहे ॥ 58 ॥ यावत्तिष्ठंति वेदाश्च यावच्चंद्रदिवाकरौ । यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ 59 ॥ चांद्रीकला यथा शुक्ले वर्धते सा दिने दिने । तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ 60 ॥ यथा वैकुंठनगरे यथा वै क्षीरसागरे । तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 61 ॥ योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना । तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 62 ॥ नारायणस्य हृदये भवती यथास्ते नारायणोऽपि तव हृत्कमले यथास्ते । नारायणस्त्वमपि नित्यमुभौ तथैव तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ 63 ॥ विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः । दयासुवृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ 64 ॥ न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्तचिंतामणिकामधेनो । विश्वस्य मातर्भव सुप्रसन्ना गृहे कलत्रेषु च पुत्रवर्गे ॥ 65 ॥ आद्यादिमाये त्वमजांडबीजं त्वमेव साकारनिराकृतिस्त्वम् । त्वया धृताश्चाब्जभवांडसंघा- -श्चित्रं चरित्रं तव देवि विष्णोः ॥ 66 ॥ ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः । महिमानं तव स्तोतुं मंदोऽहं शक्नुयां कथम् ॥ 67 ॥ अंब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च । तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ 68 ॥ भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः । इति संचिंत्य मनसा त्वामहं शरणं व्रजे ॥ 69 ॥ अनंता नित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः । इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ 70 ॥ तव प्रतिज्ञा मद्भक्ता न नश्यंतीत्यपि क्वचित् । इति संचिंत्य संचिंत्य प्राणान् संधारयाम्यहम् ॥ 71 ॥ त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते । यावत्संपूर्णकामः स्यात्तावद्देहि दयानिधे ॥ 72 ॥ क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना । न जीवंतीह जलजा जलं त्यक्त्वा जलग्रहाः ॥ 73 ॥ यथा हि पुत्रवात्सल्याज्जननी प्रस्नुतस्तनी । वत्सं त्वरितमागत्य संप्रीणयति वत्सला ॥ 74 ॥ यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी । दयापयोधरस्तन्यसुधाभिरभिषिंच माम् ॥ 75 ॥ मृग्यो न गुणलेशोऽपि मयि दोषैकमंदिरे । पांसूनां वृष्टिबिंदूनां दोषाणां च न मे मतिः ॥ 76 ॥ पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः । दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 77 ॥ विधिनाहं न सृष्टश्चेन्न स्यात्तव दयालुता । आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 78 ॥ कृपा मदग्रजा किं ते अहं किं वा तदग्रजः । विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ 79 ॥ माता पिता त्वं गुरुसद्गतिः श्री- -स्त्वमेव संजीवनहेतुभूता । अन्यं न मन्ये जगदेकनाथे त्वमेव सर्वं मम देवि सत्ये ॥ 80 ॥ आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्री । अज्ञानहंत्री त्रिगुणातिरिक्ता प्रज्ञाननेत्री भव सुप्रसन्ना ॥ 81 ॥ अशेषवाग्जाड्यमलापहंत्री नवं नवं स्पष्टसुवाक्प्रदायिनी । ममेह जिह्वाग्र सुरंगनर्तकी [नर्तिनी] भव प्रसन्ना वदने च मे श्रीः ॥ 82 ॥ समस्तसंपत्सुविराजमाना समस्ततेजश्चयभासमाना । विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे नयने प्रसन्ना ॥ 83 ॥ सर्वप्रदर्शे सकलार्थदे त्वं प्रभासुलावण्यदयाप्रदोग्ध्री । सुवर्णदे त्वं सुमुखी भव श्री- -र्हिरण्मयी मे नयने प्रसन्ना ॥ 84 ॥ सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहंत्री । सर्वोन्नता त्वं सुमुखी भव श्री- -र्हिरण्मयी मे नयने प्रसन्ना ॥ 85 ॥ समस्तविघ्नौघविनाशकारिणी समस्तभक्तोद्धरणे विचक्षणा । अनंतसौभाग्यसुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना ॥ 86 ॥ देवि प्रसीद दयनीयतमाय मह्यं देवाधिनाथभवदेवगणाभिवंद्ये । मातस्तथैव भव सन्निहिता दृशोर्मे पत्या समं मम मुखे भव सुप्रसन्ना ॥ 87 ॥ मा वत्स भैरभयदानकरोऽर्पितस्ते मौलौ ममेति मयि दीनदयानुकंपे । मातः समर्पय मुदा करुणाकटाक्षं मांगल्यबीजमिह नः सृज जन्म मातः ॥ 88 ॥ कटाक्ष इह कामधुक्तव मनस्तु चिंतामणिः करः सुरतरुः सदा नवनिधिस्त्वमेवेंदिरे । भवे तव दयारसो मम रसायनं चान्वहं मुखं तव कलानिधिर्विविधवांछितार्थप्रदम् ॥ 89 ॥ यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात्कमले तथा ते । कटाक्षसंस्पर्शनतो जनाना- -ममंगलानामपि मंगलत्वम् ॥ 90 ॥ देहीति नास्तीति वचः प्रवेशा- -द्भीतो रमे त्वां शरणं प्रपद्ये । अतः सदाऽस्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि ॥ 91 ॥ कल्पद्रुमेण मणिना सहिता सुरम्या श्रीस्ते कला मयि रसेन रसायनेन । आस्तां यतो मम शिरःकरदृष्टिपाद- -स्पृष्टाः सुवर्णवपुषः स्थिरजंगमाः स्युः ॥ 92 ॥ आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मयि सन्निधेहि । आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ 93 ॥ आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति । महादरिद्रोऽपि भवेद्धनाढ्य- -स्तदन्वये श्रीः स्थिरतां प्रयाति ॥ 94 ॥ यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा । तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ 95 ॥ इदं रहस्यं हृदयं सर्वकामफलप्रदम् । जपः पंचसहस्रं तु पुरश्चरणमुच्यते ॥ 96 ॥ त्रिकालमेककालं वा नरो भक्तिसमन्वितः । यः पठेच्छृणुयाद्वापि स याति परमां श्रियम् ॥ 97 ॥ महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे । इदं श्रीहृदयं जप्त्वा पंचवारं धनी भवेत् ॥ 98 ॥ अनेन हृदयेनान्नं गर्भिण्या अभिमंत्रितम् । ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ 99 ॥ नरेण वाऽथवा नार्या लक्ष्मीहृदयमंत्रिते । जले पीते च तद्वंशे मंदभाग्यो न जायते ॥ 100 ॥ य आश्विने मासि च शुक्लपक्षे रमोत्सवे सन्निहिते सुभक्त्या । पठेत्तथैकोत्तरवारवृद्ध्या लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ 101 ॥ य एकभक्तोऽन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी । स मंदभाग्योऽपि रमाकटाक्षा- -द्भवेत्सहस्राक्षशताधिकश्रीः ॥ 102 ॥ श्रीशांघ्रिभक्तिं हरिदासदास्यं प्रसन्नमंत्रार्थदृढैकनिष्ठाम् । गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥ 103 ॥ पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् । संपूर्णकीर्तिं बहुवर्षभोगं प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् ॥ 104 ॥ वादार्थसिद्धिं बहुलोकवश्यं वयः स्थिरत्वं ललनासुभोगम् । पौत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ 105 ॥ सुवर्णवृद्धिं कुरु मे गृहे श्रीः सुधान्यवृद्धिं कुरू मे गृहे श्रीः । कल्याणवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ 106 ॥ ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां विद्युद्वर्णांबरवरधरां भूषणाढ्यां सुशोभाम् । बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ 107 ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिता ॥ 108 ॥ इति श्रीअथर्वणरहस्ये श्रीलक्ष्मीहृदयस्तोत्रं संपूर्णम् ॥