॥ अथश्रीललिताहृदयस्तोत्रम् ॥ श्रीललितांबिकायै नमः । देव्युवाच । देवदेव महादेव सच्चिदानंदविग्रहा । सुंदर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥ 1॥ ईश्वरौवाच । साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकम् । रहस्यमपिवक्ष्यामि सावधानमनाःशऋणु ॥ 2॥ श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीम् । नमामिललितां नित्यां भक्तानामिष्टदायिनीम् ॥ 3॥ बिंदुत्रिकोणसम्युक्तं वसुकोणसमन्वितम् । दशकोणद्वयोपेतं चतुर्द्दश समन्वितम् ॥ 4॥ दलाष्टकेसरोपेतं दलषोडशकान्वितम् । वृत्तत्रययान्वितंभूमिसदनत्रयभूषितम् ॥ 5॥ नमामि ललिताचक्रं भक्तानामिष्टदायकम् । अमृतांभोनिधिंतत्र रत्नद्वीपं नमाम्यहम् ॥ 6॥ नानावृक्षमहोद्यानं वंदेहं कल्पवाटिकाम् । संतानवाटिकांवंदे हरिचंदनवाटिकाम् ॥ 7॥ मंदारवाटिकां पारिजातवाटीं मुदा भजे । नमामितव देवेशि कदंबवनवाटिकाम् ॥ 8॥ पुष्यरागमहारत्नप्राकारं प्रणमाम्यहम् । पद्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥ 9॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारंप्रणमामि कुलेश्वरी ॥ 10॥ इंद्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् । मुक्ताफलमहारत्नप्राकारंप्रणमाम्यहम् ॥ 11॥ मरताख्यमहारत्नप्राकाराय नमोनमः । विद्रुमाख्यमहारत्नप्राकारंप्रणमाम्यहम् ॥ 12॥ माणिक्यमंडपं रत्नसहस्रस्तंभमंडपम् । ललिते!तवदेवेशि भजाम्यमृतवापिकाम् ॥ 13॥ आनंदवापिकां वंदेविमर्शवापिकां भजे । भजेबालातपोल्गारं चंद्रिकोगारिकां भजे ॥ 14॥ महाशऋंगारपरिखां महापत्माटवीं भजे । चिंतामणिमहारत्नगृहराजं नमाम्यहम् ॥ 15॥ पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहम् । दक्षिणांनायरूपंतेदक्षिणद्वारमाश्रये ॥ 16॥ नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकम् । वंदेहमुत्तरद्वारमुत्तराम्नायरूपकम् ॥ 17॥ ऊर्द्ध्वाम्नायमयं वंदे ह्यूर्द्धद्वारं कुलेश्वरि । ललितेतव देवेशि महासिंहासनं भजे ॥ 18॥ ब्रह्मात्मकं मंचपादमेकं तव नमाम्यहम् । एकंविष्णुमयं मंचपादमन्यं नमाम्यहम् ॥ 19॥ एकं रुद्रमयं मंचपादमन्यं नमाम्यहम् । मंचपादंममाम्येकं तव देवीश्वरात्मकम् ॥ 20॥ मंचैकफलकं वंदे सदाशिवमयं शुभम् । नमामितेहंसतूलतल्पकं परमेश्वरी! ॥ 21॥ नमामिते हंसतूलमहोपाधानमुत्तमम् । कौस्तुभास्तरणंवंदे तव नित्यं कुलेश्वरी ॥ 22॥ महावितानिकां वंदे महायविनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥ 23॥ स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् । अमितांस्तेमहादेवि दीपान् संदर्शयाम्यहम् ॥ 24॥ मूलेन त्रिपुराचक्रं तव संपूज्ययाम्यहम् । त्रिभिःखंडैस्तवख्यातैः पूजयामि महेश्वरि! ॥ 25॥ वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै । शोषाणांदाहनं चैव करोमि प्लावनं तथा ॥ 26॥ त्रिवारं मूलमंत्रेण प्राणायामं करोम्यहम् । पाषंडकारिणोभूता भूमौये चांतरिक्षके ॥ 27॥ करोम्यनेन मंत्रेण तालत्रयमहं शिवे । नारायणोऽहंब्रह्माहं भैरवोऽहं शिवोस्म्यहम् ॥ 28॥ देवोहं परमानंदोऽस्म्यहं त्रिपुरसुंदरि । ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहम् ॥ 29॥ कुमारीबीजसम्युक्तं महात्रिपुरसुंदरि! । मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि! ॥ 30॥ महादेव्यासनायेति प्रकरोम्यासनं शिवे । चक्रासनंनमस्यामि सर्वमंत्रासनं शिवे ॥ 31॥ साद्ध्यसिद्धासनं मंत्रैरेभिर्युक्तं महेश्वरि । करोम्यस्मिंचक्रमंत्रैर्देवतासनमुत्तमम् ॥ 32॥ करोम्यथ षडंगाख्यं मातृकां च कलां न्यसे । श्रीकंटंकेशवं चैव प्रपंचं योगमातृकाम् ॥ 33॥ तत्त्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे । लघुषोढांततः कूर्व्वे शक्तिन्यासं महोत्तमम् ॥ 34॥ पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये । कुंकुमन्यासकंचैव चक्रन्यासमथाचरे ॥ 35॥ चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयम् । षोडशार्ण्णमहामंत्रैरंगन्यासंकरोम्यहम् ॥ 36॥ महाषोढां ततः कुर्व्वे शांभवं च महाप्रिये । ततोमूलंप्रजप्त्वाथ पादुकांच ततः परम् ॥ 37॥ गुरवे सम्यगर्च्याथ देवतां हृदिसंभजे । करोमिमंडलं वृत्तं चतुरश्रं शिवप्रिये ॥ 38॥ पुष्पैरभ्यर्च्च्यसाधारं शंखं संपूजयामहम् । अर्च्चयामिषडंगेन जलमापूरयाम्यहम् ॥ 39॥ ददामि चादिमं बिंदुं कुर्वे मूलाभिमंत्रितम् । तज्जलेनजगन्मातस्त्रिकोणं वृत्तसम्युतम् ॥ 40॥ षल्कोणं चतुरश्रंच मंडलं प्रणमाम्यहम् । विद्ययापूजयामीह त्रिखंडेन तु पूजनम् ॥ 41॥ बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये । तस्मिंदेवीकलात्मानां मणिमंडलमाश्रये ॥ 42॥ धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा । ज्वालिनींच नमस्यामि वंदेहं विस्पुलिंगिनीम् ॥ 43॥ सुश्रियं च सुरूपांचकंपिलां प्रणमाम्यहम् । नौमिहव्यवहां नित्यां भजे कव्यवहां कलाम् ॥ 44॥ सूर्याग्निमंडलां तत्र सकलाद्वादशात्मकम् । अर्घ्यपाद्यमहंतत्र तपिनीं तापिनीं भजे ॥ 45॥ धूम्रां मरीचीं वंदेहं ज्वालिनीं मरुहं भजे । सुषुम्नांभोगदां वंदे भजे विश्वां च बोधिनीम् ॥ 46॥ धारिणीं च क्षमां वंदे सौरीरेताः कलाभजे । आश्रयेमण्मलं चांद्रं तल्कलाषोडशात्मकम् ॥ 47॥ अमृतां मानदां वंदे पूषां तुष्टीं भजाम्यहम् । पुष्टिंभजे महादेवि भजेऽहं च रतिं धृतिम् ॥ 48॥ रशनिं चंद्रिकां वंदे कांतीं जोत्सना श्रियं भजे । नेऔमिप्रीतिंचागतदांचपूर्ण्णिमाममृतांभजे ॥ 49॥ त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकम् । हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करम् ॥ 50॥ वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहम् । वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहम् ॥ 51॥ पुरतोग्न्यादिषल्ख़ओणं कखगेनार्च्चयाम्यहम् । श्रीविद्ययासप्तवारं करोम्यत्राभि मंत्रितम् ॥ 52॥ समर्प्पयामि देवेशि तस्मात् गंधाक्षतादिकम् । ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतम् ॥ 53॥ चतुर्न्नवतिसन्मंत्रान् स्पृष्ट्वा तत् प्रजपाम्यहम् । वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥ 54॥ आश्रये शोडषकलास्तत्र चंद्रमसस्तदा । सृष्टिम्वृद्धिं स्मृतिं वंदे मेधां कांतीं तथैव च ॥ 55॥ लक्ष्मीं द्युथिं स्थितां वंदे स्थितिं सिद्धिं भजाम्यहम् । एताब्रह्मकलावंदे जरांथां पालिनीं भजे ॥ 56॥ शांतिं नमामीश्वरीं च रतीं वंदे च कारिकाम् । वरदांह्लादिनीं वंदे प्रीतिं दीर्घां भजाभम्यहम् ॥ 57॥ एता विष्णुअकलावंदे तीक्षणां रौद्रिं भयां भजे । निद्रांतंद्रीं क्षुधां वंदे नमामि क्रोधिनीं क्रियाम् ॥ 58॥ उल्कारीं मृत्युरूपां च एता रुद्रकला भजे । नीलांपीतां भजे श्वेतां वंदेहमरुणां कलाम् ॥ 59॥ अनंतख्यां कलांचेति ईश्वरस्य कलाभजे । निवृत्तिंचप्रतिष्ठांचविद्यांशांतिं भजाम्यहम् ॥ 60॥ रोधिकां दीपिकां वंदे रेचिकां मोचिकां भजे । परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥ 61॥ ज्ञानाख्यांचनमस्यामि नौमिज्ञानामृतां कलाम् । आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहम् ॥ 62॥ कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् । विष्णुयोनिन्नमस्यामि मूलविद्यां नमाम्यहम् ॥ 63॥ त्रैयंबकं नमस्यामि तद्विष्णुं प्रणमाम्यहम् । विष्णुयोनिम्नमस्यामि मूलविद्यां नमाम्यहम् ॥ 64॥ अमृतं मंत्रितं वंदे चतुर्न्नवतिभिस्तथा । अखंडैकरसानंदकरेपरसुधात्मनि ॥ 65॥ स्वच्छंदस्पपुरणं मंत्रं नीधेहि कुलरूपिणि । अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥ 66॥ अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि । तद्रूपाणेकरस्यत्वंकृत्वाह्येतत्स्वरूपिणि ॥ 67॥ भूत्वा परामृताकारमयि चित् स्पुरणं कुरु । एभिर्म्मनूत्तमैर्वंदेमंत्रितं परमामृतम् ॥ 68॥ जोतिम्मयमिदं वंदे परमर्घ्यंच सुंदरि । तद्विंदुभिर्मेशिरसि गुरुं संतर्प्पयाम्यहम् ॥ 69॥ ब्रह्मास्मिन् तद्विंदुं कुंडलिन्यां जुहोम्यहम् । हृच्चक्रस्तां-महादेवीम्महात्रिपुरसुंदरीम् ॥ 70॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् । नासापुटात्परकलामथनिर्ग्गमयाम्यहम् ॥ 71॥ नमामियोनिमद्ध्यास्थां त्रिखंडकुसुमांंजलिम् । जगन्मातर्महादेवियंत्रेत्वां स्थापयाम्यहम् ॥ 72॥ सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव । अनेनदेविमंत्रयंत्रेत्वां स्थापयाम्यहम् ॥ 73॥ महापद्मवनांतस्थे कारणानंतविग्रहे । सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥ 74॥ देवेशी भक्तसुलभे सर्वाभरणभूषिते । यावत्वंपूजयामीहतावत्त्वं सुस्थिराभव ॥ 75॥ अनेन मंत्रयुग्मेन त्वामत्रावाहयाम्यहम् । कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहम् ॥ 76॥ गंधतैलाभ्यंजनंचमज्जशालाप्रवेशम् । कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनम् ॥ 77॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे । गृहाणोष्णादकस्नानंकल्पयाम्यभिषेचनम् ॥ 78॥ हेमकुंभायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनम् । कल्पयामिनमस्तुभ्यं धेऔतेन परिमार्ज्जनम् ॥ 79॥ बालभानु प्रतीकाशं दुकूलं परिधानकम् । अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहम् ॥ 80॥ प्रवेशनं कल्पयामि सर्वांगानि विलेपनम् । नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनम् ॥ 81॥ अष्टगंधैः कल्पयामि तवलेखनमंबिके । कालागरुमहाधूपंकल्पयामि नमश्शिवे ॥ 82॥ मल्लिकामालातीजाति चंपकादि मनोरमैः । अर्च्चितांकुसुमैर्म्मालां कल्पयामि नमश्शिवे ॥ 83॥ प्रवेशनं कल्पयामि नमो भूषणमंडपे । उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहम् ॥ 84॥ नवमाणिक्यमकुटं तत्रते कल्पयाम्यहम् । शरच्चंद्रनिभंयुक्तं तच्चंद्रशकलं तव ॥ 85॥ तत सीमंतसिंदूरं कस्तूरीतिलकं तव । कालाज्ञनंकल्पयामि पालीयुगलमुत्तमम् ॥ 86॥ मणिकुंडलयुग्मंच नासाभरणमीश्वरी! । ताटंकयुगलंदेवि ललिते धारयाम्यहम् ॥ 87॥ अथाद्यां भूषणं कंठे महाचिंताकमुत्तमम् । पदकंते कल्पयामि महापदकमुत्तमम् ॥ 88॥ मुक्तावलीं कल्पयामि चैकावलि समन्विताम् । छन्नवीरंचकेयूरयुगलानां चतुष्टयम् ॥ 89॥ वलयावलिमालानीं चोर्मिकावलिमीश्वरि । कांचीदामकटीसूत्रंसौभग्याभरणं च ते ॥ 90॥ त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् । पादांगुलीयकंतुभ्यं पाशमेकं करेतव ॥ 91॥ अन्ये करेंकुशं देवि पूंड्रेक्षुधनुषं तव । अपरेपुष्पबाणंच श्रीमन्माणिक्यपादुके ॥ 92॥ तदावरण देवेशि महामंचादिरोहणम् । कामेश्वरांकपर्यंकमुपवेशनमुत्तमम् ॥ 93॥ सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमम् । कर्प्पूरवीटिकांतुभ्यं कल्पयामि नमः शिवे ॥ 94॥ आनंदोल्लासविलसद्धंसं ते कल्पयाम्यहम् । मंगलारात्रिकंवंदे छत्रं ते कल्पयाम्यहम् ॥ 95॥ चामरं यूगलं देविदर्प्पणं कल्पयाम्यहम् । तालव्रिंतंकल्पयामिगंधपुष्पाक्षतैरपि ॥ 96॥ धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये । अथाहंबैंदवे चक्रे सर्वानंदमयात्मके ॥ 97॥ रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् । उद्यद्भानुसहस्राभांजपापुष्पसमप्रभाम् ॥ 98॥ नवरत्नप्रभायुक्तमकुटेन विराजिताम् । चंद्ररेखासमोपेतांकस्तूरितिलकांकिताम् ॥ 99॥ कामकोदंडसौंदर्यनिर्ज्जितभ्रूलतायुताम् । अंजनांचितनेत्रांतुपद्मपत्रनिभेषणाम् ॥ 100॥ मणिकुंडलसम्युक्त कर्ण्णद्वयविराजिताम् । तांबूलपूरितमुखींसुस्मितास्यविराजिताम् ॥ 101॥ आद्यभूषणसम्युक्तां हेमचिंताकसंयुताम् । पदकेनसमोपेतां महापदकसंयुताम् ॥ 102॥ मुक्ताफलसमोपेतामेकावलिसमन्विताम् । कौसुभांगदसंयुक्तचतुर्बाहुसमन्विताम् ॥ 103॥ अष्टगंधसमोपेतां श्रीचंदनविराजिताम् । हेमकुंभोपमप्रख्यस्तनद्वंदविराजिताम् ॥ 104॥ रक्तवस्त्रपरीधानां रक्तकंचुकसंयुताम् । सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥ 105॥ मुक्तामाणिक्यखचित कांचीयुतनितंबनीम् । सदाशिवाङकस्थबृहन्महाजघनमंडलाम् ॥ 106॥ कदलिस्तंभसंराजदूरुद्वयविराजिताम् । कपालीकांतिसंकाशजंघायुगलशोभिताम् ॥ 107॥ ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्विताम् । ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जितांघ्रिकाम् ॥ 108॥ कांत्या विराजितपदां भक्तत्राण परायणाम् । इक्षुकार्मुकपुष्पेषुपाशांकुशधरांशुभाम् ॥ 109॥ संवित्स्वरूपिणीं वंदे ध्यायामि परमेश्वरीम् । प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥ 110॥ त्वां तर्प्पयामि त्रिपुरे त्रिधना पार्व्वति । अग्नौमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥ 111॥ इंद्राशावारुणी भागे षडंगान्यर्च्चये क्रमात् । आद्यांकामेश्वरीं वंदे नमामि भगमालिनीम् ॥ 112॥ नित्यक्लिन्नां नमस्यामि भेरुंडां प्रणमाम्यहम् । वह्निवासान्नमस्यामि महाविद्येश्वरीं भजे ॥ 113॥ शिवदूतिं नमस्यामि त्वरितां कुल सुंदरीम् । नित्यान्नीलपताकांच विजयां सर्वमंगलाम् ॥ 114॥ ज्वालामालांच चित्रांच महानित्यां च संस्तुवे । प्रकाशानंदनाथाख्यांपराशक्तिनमाम्यहम् ॥ 115॥ शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीम् । परशिवानंदनाथाख्यांपराशक्ति नमाम्यहम् ॥ 116॥ कौलेश्वरानंदनाथं नौमि कामेश्वरीं सदा । भोगानंदन्नमस्यामि सिद्धौघंच वरानने ॥ 117॥ क्लिन्नानंदं नमस्यामि समयानंदमेवच । सहजानंदनाथंचप्रणमामि मुहुर्मुहु ॥ 118॥ मानवौघं नमस्यामि गगनानंदगप्यहम् । विश्वानंदन्नमस्यामि विमलानंदमेवच ॥ 119॥ मदनानंदनाथंच भुवनानंदरूपिणीम् । लीलानंदन्नमस्यामि स्वात्मानंदं महेश्वरि ॥ 120॥ प्रणमामिप्रियानंदं सर्वकामफलप्रदम् । परमेष्टिगुरुंवंदे परमंगुरुमाश्रये ॥ 121॥ श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीम् । श्रीमदानंदनाथाख्यश्रिगुरोपादुकां तथा ॥ 122॥ अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि । अणिमांलखिमां वंदे महिमां प्रणमाम्यहम् ॥ 123॥ ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहम् । प्राकाम्यसिद्धिंभुक्तिंच इच्छाप्राप्र्तिमहं भजे ॥ 124॥ सर्वकामप्रदां सर्वकामसिद्धिमहं भजे । मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥ 125॥ कौमारीं वैष्णवीं वंदे वाराहीं प्रणमाम्यहम् । माहेंद्रीमपिचामुंडाम्महालक्ष्मीमहं भजे ॥ 126॥ तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे । सर्वविद्रापिणीम्मुद्रां सर्वाकर्षिणिकां भजे ॥ 127॥ मुद्रां वशंकरीं वंदे सर्वोन्मादिनिकां भजे । भजेमहांकुशां मुद्रां खेचरीं प्रणमाम्यहम् ॥ 128॥ बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखंडिनीम् । त्रैलोक्यमोहनंचक्रं नमामि ललिते तव ॥ 129॥ नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदाम् । सुधार्ण्णवासनंवंदे तत्र ते परमेश्वरि ॥ 130॥ चक्रेश्वरि महं वंदे त्रिपुरां प्रणमाम्यहम् । सर्वसंक्षोभिणीम्मुद्रां ततोहं कलये शिवे ॥ 131॥ अथाहं षोडशदले कामाकर्षिणिकां भजे । बुद्ध्याकर्षिणिकां वंदेऽहंकाराकर्षिणीं भजे ॥ 132॥ शब्दाकर्षिणिकां वंदे स्पर्शाकर्षिणिकां भजे । रूपाकर्षिणिकांवंदे रसाकर्षिणिकां भजे ॥ 133॥ गंधाकर्षिणिकां वंदे चित्ताकर्षिणिकां भजे । धैर्याकर्षिणिकांवंदे स्मृत्याकर्षिणिकां भजे ॥ 134॥ नामाकर्षिणिकां वंदे बीजाकर्षिणिकां भजे । आत्माकर्षिणिकांवंदे अमृताकर्षिणिकां भजे ॥ 135॥ शरीराकर्षिणिकां वंदे नित्यां श्रीपरमेश्वरि । सर्वाशापूरकंवंदे कल्पयेहं तवेश्वरि ॥ 136॥ गुप्ताख्यां योगिनीं वंदे मातरं गुप्तपूज्यताम् । पोतांबुजासनंतत्र नमामि ललिते तव ॥ 137॥ त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदाम् । सर्वविद्राविणिमुद्रांतत्राहं ते विचंतये ॥ 138॥ सिवे तवाष्टपत्रेहमनंगकुसुमां भजे । अनंगमेखलांवंदे अनंगमदनां भजे ॥ 139॥ नमोहं प्रणस्यामि अनंगमदनातुराम् । अनंगरेखांकलये भजेनंगां च वेगिनीम् ॥ 140॥ अनंगाकुशवंदेऽहमनंगमालिनीं भजे । तत्राहंप्रणस्यामि देव्या आसनमुत्तमम् ॥ 141॥ नमामि जगतीशानीं तत्र त्रिपुरसुंदरीम् । सर्वाकर्षिणिकाम्मुद्रां तत्राह कल्पयामिते ॥ 142॥ भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे । सर्वविद्राविणींवंदे सर्वकर्षिणिकां भजे ॥ 143॥ सर्वह्लादिनीं वंदे सर्वसम्मोहिनीं भजे । सकलस्तंभिनीं वंदे कलये सर्वजृंभिणीम् ॥ 144॥ वशंकरीं नमस्यामि सर्वरज्ञिनिकां भजे । सकलोन्मदिनीं वंदे भजे सर्वार्थसाधके ॥ 145॥ संपत्तिपुरिकां वंदे सर्वमंत्रमयीं भजे । भजाम्येवततश्शक्तिं सर्वद्वंद्वक्ष्यंकरीम् ॥ 146॥ तत्राहं कलये चक्रं सर्वसौभाग्यदायकम् । नमामिजगतां धात्रीं संप्रदायाख्ययोगिनिम् ॥ 147॥ नमामि परमेशानीं महात्रिपुरवासिनिम् । कलयेहंतव शिवे मुद्रां सर्वशंकरीम् ॥ 148॥ बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसंपत्प्रदां वंदे सर्वप्रियंकरीं भजे ॥ 149॥ नमाम्यहं ततो देवीं सर्वमंगलकारिणीम् । सर्वकामप्रदांवंदे सर्वदुःखविमोचिनिम् ॥ 150॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् । सर्वांगसुंदरींवंदे सर्वसौभाग्यदायिनीम् ॥ 151॥ सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिंतये । तत्राहंते नमस्यामि कुलोत्तीर्णाख्य योगिनीम् ॥ 152॥ सर्वमंत्रसनं वंदे त्रिपुराश्रियमाश्रये । कलयामिततो मुद्रां सर्वोन्मादन कारिणीम् ॥ 153॥ अंतर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् । सर्वशक्तिन्नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ 154॥ सर्वज्ञानमयीं वंदे सर्वव्याधिविनाशिनीम् । सर्वाधारस्वरूपांचसर्वपापहरांभजे ॥ 155॥ सर्वानंदमयिं वंदे सर्वरक्षास्वरूपिणीम् । प्रणमामिमहादेवीं सर्वेप्सित फलप्रदाम् ॥ 156॥ सर्वरक्षाकरं चक्रं सुंदरीं कलये सदा । निगर्भयोनींवंदे तत्राहं प्रणमाम्यहम् ॥ 157॥ साद्ध्यसिद्धासनं वंदे भजे त्रिपुरमालिनीम् । कलयामिततो देवीं मुद्रां सर्वमहांकुशाम् ॥ 158॥ अष्टारे वशिनीं वंदे महा कामेश्वरीं भजे । मोदिनींविमलांवंदे अरुणाजयिनीं भजे ॥ 159॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् । सर्वरोगहरंचक्रं तत्राहं कलये सदा ॥ 160॥ नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीम् । महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥ 161॥ नमामि जृंभणाबाणं सर्वसम्मोहिनीं भजे । पाशंचापं भजे नित्यं भजे स्तंभनमंकुशम् ॥ 162॥ त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे । महावज्रेश्वरींवंदे महाश्रीभगमालिनीम् ॥ 163॥ महाश्रीसुंदरीं वंदे सर्वकामफलप्रदाम् । सर्वसिद्धिप्रदंचक्रं तवदेवि नमाम्यहम् ॥ 164॥ नमाम्यतिरहस्याख्यां योगिनीं तवकामदाम् । त्रिपुरांबान्नमस्यामि बीजामुद्रामहांभजे ॥ 165॥ मूलमंत्रेण ललिते तल्बिंदौ पूजयाम्यहम् । सर्वानंदमयंचक्रं तवदेवि भजाम्यहम् ॥ 166॥ परां पररहस्याख्यां योगिनीं तत्रकामदाम् । महाचक्रेश्वरींवंदे योनिमुद्रामहं भजे ॥ 167॥ धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहम् । त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥ 168॥ शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तम् । घृतसूपसमायुक्तंदधिक्षीरसमन्वितम् ॥ 169॥ सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितम् । निक्षिप्यकांचने पात्रे नैवेद्यं कल्पयामि ते ॥ 170॥ संकल्पबिंदुना चक्रं कुचौ बिंदुद्वयेन च । योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥ 171॥ एतत् कामकला रूपं भक्तानां सर्वकामदम् । सर्वसौभाग्यदंवंदे तत्र त्रिपुरसुंदरीम् ॥ 172॥ वामभागे महेशानि वृत्तं च चतुरस्रकम् । कृत्वागंधाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीम् ॥ 173॥ वाग्दवाद्यं नमस्यामि तत्र व्यापकमंडलम् । जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितम् ॥ 174॥ तत्र मंत्रेण दास्यामि देवि ते बलिमुत्तमम् । नमस्तेदेवदेवेशि नम स्त्रैलोक्यवंदिते ॥ 175॥ नमश्शिववरांकस्थे नमस्त्रीपुरसुंदरि । प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥ 176॥ तत संकल्पमंत्राणां समाजं परमेश्वरि । प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥ 177॥ तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि । महादेविमहेशानि महाशिवमये प्रिये ॥ 178॥ महानित्ये महासिद्धे त्वामहं शरणं शिवे । जयत्वंत्रिपुरे देवि ललिते परमेश्वरि ॥ 179॥ सदाशिव प्रियंकरि पाहिमां करुणानिधे । जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥ 180॥ जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये । अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥ 181॥ गिरिराजेंद्रतनये नमस्तीपुरसुंदरि । जयारींजयदेवेशिब्रह्ममातर्महेश्वरि ॥ 182॥ विष्णुमातरमाद्यंते हरमातस्सुरेश्वरि । ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥ 183॥ ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा । लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥ 184॥ भजामि तव पादाब्जं देवि त्रिपुरसुंदरि । त्वल्प्रीत्यर्त्थंयतः कांचीच्छक्तिं वैपूजयाम्यहम् ॥ 185॥ ततश्च केतनां शक्तिं तर्पयामि महेश्वरि । तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहम् ॥ 186॥ त्वल्प्रीत्यर्थ्यं महादेवि ममाभीष्टार्त्थ सिद्धये । बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहम् ॥ 187॥ तिष्ठमे हृदयेनित्यं त्रिपुरे परमेश्वरि । जगदंबमहाराज्ञि महाशक्ति शिवप्रिये ॥ 188॥ हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुंदरि । एतत्त्रिपुरसुंदर्या हृदयं सर्वकामदम् ॥ 189॥ महारहस्यं सततं दुर्ल्लभं दैवतैरपि । साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमम् ॥ 190॥ यः पतेत् श्रद्धया नित्यं शऋणुयाद्वा समाहितः । नित्यपूजाफलंदेव्यास्सलभेन्नात्र संशयः ॥ 191॥ पापैः समुच्यते सद्यः कायवाक्क् सित्तसंभवैः । पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥ 192॥ सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलम् । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ 193॥ अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभाम् । साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥ 194॥ अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः । घंडिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥ 195॥ श्रीमत्त्रिपुरांबिकायै नमः । ॥ श्रीललिताहृदयस्तोत्रं संपूर्णम् ॥ ॐ तत् सत् ॥