।।महा गणपति सहस्रनाम स्तोत्रम्।। मुनिरुवाच कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् । शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥ ब्रह्मोवाच देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥ मनसा स विनिर्धार्य ददृशे विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3 ॥ विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् । संतुष्टः पूजया शंभोर्महागणपतिः स्वयम् ॥ 4 ॥ सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् । ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5 ॥ अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामंत्रस्य । गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छंदांसि । हुमिति बीजम्, तुंगमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् । सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ करन्यासः गणेश्वरो गणक्रीड इत्यंगुष्ठाभ्यां नमः । कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ ब्रह्मांडकुंभश्चिद्व्योमेति मध्यमाभ्यां नमः । रक्तो रक्तांबरधर इत्यनामिकाभ्यां नमः सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः । लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥ अथ अंगन्यासः छंदश्छंदोद्भव इति हृदयाय नमः । निष्कलो निर्मल इति शिरसे स्वाहा । सृष्टिस्थितिलयक्रीड इति शिखायै वषट् । ज्ञानं विज्ञानमानंद इति कवचाय हुम् । अष्टांगयोगफलभृदिति नेत्रत्रयाय वौषट् । अनंतशक्तिसहित इत्यस्त्राय फट् । भूर्भुवः स्वरों इति दिग्बंधः । अथ ध्यानम् गजवदनमचिंत्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि ॥ श्रीगणपतिरुवाच ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदंतो वक्रतुंडो गजवक्त्रो महोदरः ॥ 1 ॥ लंबोदरो धूम्रवर्णो विकटो विघ्ननाशनः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ 2 ॥ भीमः प्रमोद आमोदः सुरानंदो मदोत्कटः । हेरंबः शंबरः शंभुर्लंबकर्णो महाबलः ॥ 3 ॥ नंदनो लंपटो भीमो मेघनादो गणंजयः । विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ 4 ॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ 5 ॥ कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ 6 ॥ अविघ्नस्तुंबुरुः सिंहवाहनो मोहिनीप्रियः । कटंकटो राजपुत्रः शाकलः संमितोमितः ॥ 7 ॥ कूष्मांडसामसंभूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ 8 ॥ विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ 9 ॥ ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरांतःस्थः सूर्यमंडलमध्यगः ॥ 10 ॥ कराहतिध्वस्तसिंधुसलिलः पूषदंतभित् । उमांककेलिकुतुकी मुक्तिदः कुलपावनः ॥ 11 ॥ किरीटी कुंडली हारी वनमाली मनोमयः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ 12 ॥ सद्योजातः स्वर्णमुंजमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ 13 ॥ सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । पीतांबरः खंडरदः खंडवैशाखसंस्थितः ॥ 14 ॥ चित्रांगः श्यामदशनो भालचंद्रो हविर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ 15 ॥ गणाधिराजो विजयः स्थिरो गजपतिध्वजी । देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ 16 ॥ विपश्चिद्वरदो नादो नादभिन्नमहाचलः । वराहरदनो मृत्युंजयो व्याघ्राजिनांबरः ॥ 17 ॥ इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः । शंभुवक्त्रोद्भवः शंभुकोपहा शंभुहास्यभूः ॥ 18 ॥ शंभुतेजाः शिवाशोकहारी गौरीसुखावहः । उमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ 19 ॥ यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ 20 ॥ ब्रह्मांडकुंभश्चिद्व्योमभालःसत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ 21 ॥ गिरींद्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ 22 ॥ भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः । कुलाचलांसः सोमार्कघंटो रुद्रशिरोधरः ॥ 23 ॥ नदीनदभुजः सर्पांगुलीकस्तारकानखः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ 24 ॥ कुक्षिस्थयक्षगंधर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिंगः शैलोरुर्दस्रजानुकः ॥ 25 ॥ पातालजंघो मुनिपात्कालांगुष्ठस्त्रयीतनुः । ज्योतिर्मंडललांगूलो हृदयालाननिश्चलः ॥ 26 ॥ हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ 27 ॥ प्रतापी काश्यपो मंता गणको विष्टपी बली । यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ 28 ॥ चिंतामणिर्द्वीपपतिः कल्पद्रुमवनालयः । रत्नमंडपमध्यस्थो रत्नसिंहासनाश्रयः ॥ 29 ॥ तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः । नंदानंदितपीठश्रीर्भोगदो भूषितासनः ॥ 30 ॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ 31 ॥ सविघ्ननाशिनीपीठः सर्वशक्त्यंबुजालयः । लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ 32 ॥ उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः । पीनजंघः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ 33 ॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कंधः कंबुकंठो लंबोष्ठो लंबनासिकः ॥ 34 ॥ भग्नवामरदस्तुंगसव्यदंतो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ 35 ॥ स्तबकाकारकुंभाग्रो रत्नमौलिर्निरंकुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ 36 ॥ सर्पकोटीरकटकः सर्पग्रैवेयकांगदः । सर्पकक्षोदराबंधः सर्पराजोत्तरच्छदः ॥ 37 ॥ रक्तो रक्तांबरधरो रक्तमालाविभूषणः । रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ 38 ॥ श्वेतः श्वेतांबरधरः श्वेतमालाविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 39 ॥ सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ 40 ॥ सर्वमंगलमांगल्यः सर्वकारणकारणम् । सर्वदेववरः शारंगी बीजपूरी गदाधरः ॥ 41 ॥ शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः । किरीटी कुंडली हारी वनमाली शुभांगदः ॥ 42 ॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमंजरीभृत्स्वदंतभृत् ॥ 43 ॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ 44 ॥ पूर्णपात्री कंबुधरो विधृतांकुशमूलकः । करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ 45 ॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुंदरीनाथो विनायकरतिप्रियः ॥ 46 ॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वांगो दक्षिणोमामहेश्वरः ॥ 47 ॥ महीवराहवामांगो रतिकंदर्पपश्चिमः । आमोदमोदजननः सप्रमोदप्रमोदनः ॥ 48 ॥ संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः । दंतसौमुख्यसुमुखः कांतिकंदलिताश्रयः ॥ 49 ॥ मदनावत्याश्रितांघ्रिः कृतवैमुख्यदुर्मुखः । विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ 50 ॥ विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ 51 ॥ मोहिनीमोहनो भोगदायिनीकांतिमंडनः । कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधरः ॥ 52 ॥ वसुधारामदोन्नादो महाशंखनिधिप्रियः । नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ 53 ॥ सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेंद्रशिखः पवननंदनः ॥ 54 ॥ प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् । ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ 55 ॥ वज्राद्यस्त्रपरीवारो गणचंडसमाश्रयः । जयाजयपरिकरो विजयाविजयावहः ॥ 56 ॥ अजयार्चितपादाब्जो नित्यानंदवनस्थितः । विलासिनीकृतोल्लासः शौंडी सौंदर्यमंडितः ॥ 57 ॥ अनंतानंतसुखदः सुमंगलसुमंगलः । ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ 58 ॥ सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीपालनः कामकामिनीकेलिलालितः ॥ 59 ॥ सरस्वत्याश्रयो गौरीनंदनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ 60 ॥ नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिकः ॥ 61 ॥ विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ 62 ॥ उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगंबरः ॥ 63 ॥ अनपायोऽनंतदृष्टिरप्रमेयोऽजरामरः । अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ 64 ॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः । अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ 65 ॥ अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठमाधार आधाराधेयवर्जितः ॥ 66 ॥ आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ 67 ॥ इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः ॥ 68 ॥ इंदीवरदलश्याम इंदुमंडलमंडितः । इध्मप्रिय इडाभाग इडावानिंदिराप्रियः ॥ 69 ॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ 70 ॥ ईषणात्रयकल्पांत ईहामात्रविवर्जितः । उपेंद्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ 71 ॥ उन्नतानन उत्तुंग उदारस्त्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ 72 ॥ ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः । ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ 73 ॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ 74 ॥ एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ 75 ॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ 76 ॥ ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ 77 ॥ अंकुशः सुरनागानामंकुशाकारसंस्थितः । अः समस्तविसर्गांतपदेषु परिकीर्तितः ॥ 78 ॥ कमंडलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 79 ॥ कदंबगोलकाकारः कूष्मांडगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ 80 ॥ खर्वः खड्गप्रियः खड्गः खांतांतःस्थः खनिर्मलः । खल्वाटशृंगनिलयः खट्वांगी खदुरासदः ॥ 81 ॥ गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ 82 ॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ 83 ॥ घंटाघर्घरिकामाली घटकुंभो घटोदरः । ङकारवाच्यो ङाकारो ङकाराकारशुंडभृत् ॥ 84 ॥ चंडश्चंडेश्वरश्चंडी चंडेशश्चंडविक्रमः । चराचरपिता चिंतामणिश्चर्वणलालसः ॥ 85 ॥ छंदश्छंदोद्भवश्छंदो दुर्लक्ष्यश्छंदविग्रहः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 86 ॥ जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः । स्रवद्गंडोल्लसद्धानझंकारिभ्रमराकुलः ॥ 87 ॥ टंकारस्फारसंरावष्टंकारमणिनूपुरः । ठद्वयीपल्लवांतस्थसर्वमंत्रेषु सिद्धिदः ॥ 88 ॥ डिंडिमुंडो डाकिनीशो डामरो डिंडिमप्रियः । ढक्कानिनादमुदितो ढौंको ढुंढिविनायकः ॥ 89 ॥ तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः । तारकांतरसंस्थानस्तारकस्तारकांतकः ॥ 90 ॥ स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगमं जगत् । दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ 91 ॥ दयावांदिव्यविभवो दंडभृद्दंडनायकः । दंतप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ 92 ॥ दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः । धनं धनपतेर्बंधुर्धनदो धरणीधरः ॥ 93 ॥ ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः । ध्वनिप्रकृतिचीत्कारो ब्रह्मांडावलिमेखलः ॥ 94 ॥ नंद्यो नंदिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ 95 ॥ परं व्योम परं धाम परमात्मा परं पदम् ॥ 96 ॥ परात्परः पशुपतिः पशुपाशविमोचनः । पूर्णानंदः परानंदः पुराणपुरुषोत्तमः ॥ 97 ॥ पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः । प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ 98 ॥ फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः । बाणार्चितांघ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 99 ॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्मांडावलिमेखलः ॥ 100 ॥ भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101 ॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मंत्रो मंत्रपतिर्मंत्री मदमत्तो मनो मयः ॥ 102 ॥ मेखलाहीश्वरो मंदगतिर्मंदनिभेक्षणः । महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103 ॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104 ॥ रसो रसप्रियो रस्यो रंजको रावणार्चितः । राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105 ॥ लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः । लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106 ॥ वरेण्यो वह्निवदनो वंद्यो वेदांतगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107 ॥ वामदेवो विश्वनेता वज्रिवज्रनिवारणः । विवस्वद्बंधनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108 ॥ शब्दब्रह्म शमप्राप्यः शंभुशक्तिगणेश्वरः । शास्ता शिखाग्रनिलयः शरण्यः शंबरेश्वरः ॥ 109 ॥ षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110 ॥ सृष्टिस्थितिलयक्रीडः सुरकुंजरभेदकः । सिंदूरितमहाकुंभः सदसद्भक्तिदायकः ॥ 111 ॥ साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः । स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी ॥ 112 ॥ हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् । हव्यं हुतप्रियो हृष्टो हृल्लेखामंत्रमध्यगः ॥ 113 ॥ क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः । क्षिप्रक्षेमकरः क्षेमानंदः क्षोणीसुरद्रुमः ॥ 114 ॥ धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115 ॥ आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116 ॥ मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः । प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः ॥ 117 ॥ पराभिचारशमनो दुःखहा बंधमोक्षदः । लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118 ॥ घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् । पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119 ॥ राशिस्तारा तिथिर्योगो वारः करणमंशकम् । लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120 ॥ राहुर्मंदः कविर्जीवो बुधो भौमः शशी रविः । कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं जगत् ॥ 121 ॥ भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् । ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122 ॥ त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः । सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123 ॥ समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः । सांख्यं पातंजलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124 ॥ वेदांगानि सदाचारो मीमांसा न्यायविस्तरः । आयुर्वेदो धनुर्वेदो गांधर्वं काव्यनाटकम् ॥ 125 ॥ वैखानसं भागवतं मानुषं पांचरात्रकम् । शैवं पाशुपतं कालामुखंभैरवशासनम् ॥ 126 ॥ शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127 ॥ बंधो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् । स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ॥ ज्ञानं विज्ञानमानंदो बोधः संवित्समोऽसमः । एक एकाक्षराधार एकाक्षरपरायणः ॥ 129 ॥ एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् । द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130 ॥ द्वैमातुरो द्विवदनो द्वंद्वहीनो द्वयातिगः । त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131 ॥ त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः । चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132 ॥ चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्भुजः । चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ॥ चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसंभवः ॥ पंचाक्षरात्मा पंचात्मा पंचास्यः पंचकृत्तमः ॥ 134 ॥ पंचाधारः पंचवर्णः पंचाक्षरपरायणः । पंचतालः पंचकरः पंचप्रणवमातृकः ॥ 135 ॥ पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः । पंचभक्षप्रियः पंचबाणः पंचशिखात्मकः ॥ 136 ॥ षट्कोणपीठः षट्चक्रधामा षड्ग्रंथिभेदकः । षडंगध्वांतविध्वंसी षडंगुलमहाह्रदः ॥ 137 ॥ षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः ॥ 138 ॥ षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः । सप्तपातालचरणः सप्तद्वीपोरुमंडलः ॥ 139 ॥ सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः । सप्तांगराज्यसुखदः सप्तर्षिगणवंदितः ॥ 140 ॥ सप्तच्छंदोनिधिः सप्तहोत्रः सप्तस्वराश्रयः । सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141 ॥ सप्तच्छंदो मोदमदः सप्तच्छंदो मखप्रभुः । अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142 ॥ अष्टांगयोगफलभृदष्टपत्रांबुजासनः । अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143 ॥ अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत् ॥ 144 ॥ अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः । नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145 ॥ नवद्वारपुरावृत्तो नवद्वारनिकेतनः । नवनाथमहानाथो नवनागविभूषितः ॥ 146 ॥ नवनारायणस्तुल्यो नवदुर्गानिषेवितः । नवरत्नविचित्रांगो नवशक्तिशिरोद्धृतः ॥ 147 ॥ दशात्मको दशभुजो दशदिक्पतिवंदितः । दशाध्यायो दशप्राणो दशेंद्रियनियामकः ॥ 148 ॥ दशाक्षरमहामंत्रो दशाशाव्यापिविग्रहः । एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149 ॥ द्वादशद्विदशाष्टादिदोर्दंडास्त्रनिकेतनः । त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150 ॥ चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151 ॥ सामपंचदशः पंचदशीशीतांशुनिर्मलः । तिथिपंचदशाकारस्तिथ्या पंचदशार्चितः ॥ 152 ॥ षोडशाधारनिलयः षोडशस्वरमातृकः । षोडशांतपदावासः षोडशेंदुकलात्मकः ॥ 153 ॥ कलासप्तदशी सप्तदशसप्तदशाक्षरः । अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154 ॥ अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः । अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155 ॥ अष्टादशान्नसंपत्तिरष्टादशविजातिकृत् । एकविंशः पुमानेकविंशत्यंगुलिपल्लवः ॥ 156 ॥ चतुर्विंशतितत्त्वात्मा पंचविंशाख्यपूरुषः । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157 ॥ द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः । षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः ॥ 158 ॥ पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः । द्विपंचाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः । पंचाशदक्षरश्रेणीपंचाशद्रुद्रविग्रहः ॥ 159 ॥ चतुःषष्टिमहासिद्धियोगिनीवृंदवंदितः । नमदेकोनपंचाशन्मरुद्वर्गनिरर्गलः ॥ 160 ॥ चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः । अष्टषष्टिमहातीर्थक्षेत्रभैरववंदितः ॥ 161 ॥ चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः । शतानंदः शतधृतिः शतपत्रायतेक्षणः ॥ 162 ॥ शतानीकः शतमखः शतधारावरायुधः । सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163 ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164 ॥ दशसाहस्रफणिभृत्फणिराजकृतासनः । अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165 ॥ लक्षाधारः प्रियाधारो लक्षाधारमनोमयः । चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166 ॥ चतुरशीतिलक्षाणां जीवानां देहसंस्थितः । कोटिसूर्यप्रतीकाशः कोटिचंद्रांशुनिर्मलः ॥ 167 ॥ शिवोद्भवाद्यष्टकोटिवैनायकधुरंधरः । सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः ॥ 168 ॥ त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः । अनंतदेवतासेव्यो ह्यनंतशुभदायकः ॥ 169 ॥ अनंतनामानंतश्रीरनंतोऽनंतसौख्यदः । अनंतशक्तिसहितो ह्यनंतमुनिसंस्तुतः ॥ 170 ॥ इति वैनायकं नाम्नां सहस्रमिदमीरितम् । इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171 ॥ करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् । आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172 ॥ मेधा प्रज्ञा धृतिः कांतिः सौभाग्यमभिरूपता । सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता ॥ 173 ॥ जगत्संवननं विश्वसंवादो वेदपाटवम् । सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसम् ॥ 174 ॥ ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता । ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175 ॥ धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् । वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176 ॥ राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिणः । जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177 ॥ धर्मार्थकाममोक्षाणामनायासेन साधनम् । शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178 ॥ साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् । समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179 ॥ दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् । षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180 ॥ परकृत्यप्रशमनं परचक्रप्रमर्दनम् । संग्राममार्गे सवेषामिदमेकं जयावहम् ॥ 181 ॥ सर्ववंध्यत्वदोषघ्नं गर्भरक्षैककारणम् । पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182 ॥ देशे तत्र न दुर्भिक्षमीतयो दुरितानि च । न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183 ॥ क्षयकुष्ठप्रमेहार्शभगंदरविषूचिकाः । गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184 ॥ कासं श्वासमुदावर्तं शूलं शोफामयोदरम् । शिरोरोगं वमिं हिक्कां गंडमालामरोचकम् ॥ 185 ॥ वातपित्तकफद्वंद्वत्रिदोषजनितज्वरम् । आगंतुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186 ॥ इत्याद्युक्तमनुक्तं वा रोगदोषादिसंभवम् । सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187 ॥ प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि । सहस्रनाममंत्रोऽयं जपितव्यः शुभाप्तये ॥ 188 ॥ महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् । इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189 ॥ मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः । चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु ॥ 190 ॥ कामरूपः कामगतिः कामदः कामदेश्वरः । भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बंधुभिः ॥ 191 ॥ गणेशानुचरो भूत्वा गणो गणपतिप्रियः । नंदीश्वरादिसानंदैर्नंदितः सकलैर्गणैः ॥ 192 ॥ शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः । शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193 ॥ जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते । निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194 ॥ योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः । निरंतरे निराबाधे परमानंदसंज्ञिते ॥ 195 ॥ विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते । लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ 196 ॥ यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेएन्नरः । राजानो वश्यतां यांति रिपवो यांति दासताम् ॥ 197 ॥ तस्य सिध्यंति मंत्राणां दुर्लभाश्चेष्टसिद्धयः । मूलमंत्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198 ॥ नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि । दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199 ॥ अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः । तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200 ॥ भविष्यति न संदेहः पुत्रपौत्रादिकं सुखम् । इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201 ॥ व्याकृतं चर्चितं ध्यातं विमृष्टमभिवंदितम् । इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202 ॥ स्वच्छंदचारिणाप्येष येन संधार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203 ॥ लिखितं पुस्तकस्तोत्रं मंत्रभूतं प्रपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरंतरम् ॥ 204 ॥ दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च । न तत्फलं विंदति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ 205 ॥ एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहंप्रोज्जिहाने सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जनो यः । स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति दारिद्र्यं हंति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206 ॥ अकिंचनोप्येकचित्तो नियतो नियतासनः । प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207 ॥ दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208 ॥ आयुष्यं वीतरोगं कुलमतिविमलं संपदश्चार्तिनाशः कीर्तिर्नित्यावदाता भवति खलु नवा कांतिरव्याजभव्या । पुत्राः संतः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त - न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209 ॥ गणंजयो गणपतिर्हेरंबो धरणीधरः । महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210 ॥ अमोघसिद्धिरमृतमंत्रश्चिंतामणिर्निधिः । सुमंगलो बीजमाशापूरको वरदः कलः ॥ 211 ॥ काश्यपो नंदनो वाचासिद्धो ढुंढिर्विनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212 ॥ उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति । वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥ 213 ॥ यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214 ॥ नमो नमः सुरवरपूजितांघ्रये नमो नमो निरुपममंगलात्मने । नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ॥ 215 ॥ किंकिणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः । मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना ॥ 216 ॥ ॥ इति श्रीगणेशपुराणे उपासनाखंडे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ॥