।। श्रीराम कवच।। अगस्तिरुवाच आजानुबाहुमरविंददलायताक्ष- -माजन्मशुद्धरसहासमुखप्रसादम् । श्यामं गृहीत शरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥ 1 ॥ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छंदः सीतालक्ष्मणोपेतः श्रीरामचंद्रो देवता श्रीरामचंद्रप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानं नीलजीमूतसंकाशं विद्युद्वर्णांबरावृतम् । कोमलांगं विशालाक्षं युवानमतिसुंदरम् ॥ 1 ॥ सीतासौमित्रिसहितं जटामुकुटधारिणम् । सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥ यदा चोरभये राजभये शत्रुभये तथा । ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ 3 ॥ चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् । आकर्णाकृष्टविशिखकोदंडभुजमंडितम् ॥ 4 ॥ रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः । संहरंतं महावीरमुग्रमैंद्ररथस्थितम् ॥ 5 ॥ लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः । सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ 6 ॥ वेगात्करालहुंकारैर्भुभुक्कारमहारवैः । नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ 7 ॥ श्रीराम शत्रुसंघान्मे हन मर्दय खादय । भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ 8 ॥ एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् । सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ 9 ॥ अथ कवचम् श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः । दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ 10 ॥ उत्तरे मे रघुपतिर्भालं दशरथात्मजः । भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ 11 ॥ श्रोत्रं मे पातु राजेंद्रो दृशौ राजीवलोचनः । घ्राणं मे पातु राजर्षिर्गंडौ मे जानकीपतिः ॥ 12 ॥ कर्णमूले खरध्वंसी भालं मे रघुवल्लभः । जिह्वां मे वाक्पतिः पातु दंतपंक्ती रघूत्तमः ॥ 13 ॥ ओष्ठौ श्रीरामचंद्रो मे मुखं पातु परात्परः । कंठं पातु जगद्वंद्यः स्कंधौ मे रावणांतकः ॥ 14 ॥ धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः । सर्वाण्यंगुलिपर्वाणि हस्तौ मे राक्षसांतकः ॥ 15 ॥ वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः । स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ 16 ॥ मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः । कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ 17 ॥ गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः । ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ 18 ॥ जंघे पातु जगद्व्यापी पादौ मे ताटकांतकः । सर्वांगं पातु मे विष्णुः सर्वसंधीननामयः ॥ 19 ॥ ज्ञानेंद्रियाणि प्राणादीन् पातु मे मधुसूदनः । पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ 20 ॥ द्विपदादीनि भूतानि मत्संबंधीनि यानि च । जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ 21 ॥ सौमित्रिपूर्वजः पातु वागादीनींद्रियाणि च । रोमांकुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ 22 ॥ वाङ्मनोबुद्ध्यहंकारैर्ज्ञानाज्ञानकृतानि च । जन्मांतरकृतानीह पापानि विविधानि च ॥ 23 ॥ तानि सर्वाणि दग्ध्वाशु हरकोदंडखंडनः । पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ 24 ॥ इति श्रीरामचंद्रस्य कवचं वज्रसम्मितम् । गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ 25 ॥ यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः । स याति परमं स्थानं रामचंद्रप्रसादतः ॥ 26 ॥ महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा । श्रीरामचंद्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ 27 ॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् । तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ 28 ॥ इति श्रीमदानंदरामायणे मनोहरकांडे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ॥