।।श्री ललिता सहस्र नामावलि।। ॥ ध्यानम् ॥ सिंदूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामंबिकाम् ॥ अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् । सर्वालंकारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शांतमूर्तिं सकलसुरनुतां सर्वसंपत्प्रदात्रीम् ॥ सकुंकुमविलेपनामलिकचुंबिकस्तूरिकां समंदहसितेक्षणां सशरचापपाशांकुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषांबरां जपाकुसुमभासुरां जपविधौ स्मरेदंबिकाम् ॥ ॥अथ श्री ललिता सहस्रनामावली ॥ ॐ ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः । ॐ श्रीमहाराज्ञै नमः । ॐ श्रीमत्सिंहासनेश्वर्यै नमः । ॐ चिदग्निकुंडसंभूतायै नमः । ॐ देवकार्यसमुद्यतायै नमः । ॐ ॐ उद्यद्भानुसहस्राभायै नमः । ॐ चतुर्बाहुसमन्वितायै नमः । ॐ रागस्वरूपपाशाढ्यायै नमः । ॐ क्रोधाकारांकुशोज्ज्वलायै नमः । ॐ मनोरूपेक्षुकोदंडायै नमः । 10 ॐ पंचतन्मात्रसायकायै नमः । ॐ निजारुणप्रभापूरमज्जद् ब्रह्मांडमंडलायै नमः । ॐ चंपकाशोकपुन्नागसौगंधिक-लसत्कचायै नमः । ॐ कुरुविंदमणिश्रेणीकनत्कोटीरमंडितायै नमः । ॐ ॐ अष्टमीचंद्रविभ्राजदलिकस्थलशोभितायै नमः । ॐ मुखचंद्रकलंकाभमृगनाभिविशेषकायै नमः । ॐ वदनस्मरमांगल्यगृहतोरणचिल्लिकायै नमः । ॐ वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः । ॐ नवचंपकपुष्पाभनासादंडविराजितायै नमः । ॐ ताराकांतितिरस्कारिनासाभरणभासुरायै नमः । 20 ॐ कदंबमंजरीक्~लुप्तकर्णपूरमनोहरायै नमः । ॐ ताटंकयुगलीभूततपनोडुपमंडलायै नमः । ॐ पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः । ॐ नवविद्रुमबिंबश्रीन्यक्कारिरदनच्छदायै नमः । ॐ शुद्धविद्यांकुराकारद्विजपंक्तिद्वयोज्ज्वलायै नमः । ॐ कर्पूरवीटिकामोदसमाकर्षि दिगंतरायै नमः । ॐ निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः । ॐ मंदस्मितप्रभापूरमज्जत्कामेशमानसायै नमः । ॐ अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः । ॐ कामेशबद्धमांगल्यसूत्रशोभितकंधरायै नमः । 30 ॐ कनकांगदकेयूरकमनीयमुजान्वितायै नमः । ॐ रत्नग्रैवेय चिंताकलोलमुक्ताफलान्वितायै नमः । ॐ कामेश्वारप्रेमरत्नमणिप्रतिपणस्तन्यै नमः । ॐ नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः । ॐ लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः । ॐ स्तनभारदलन्मध्यपट्टबंधवलित्रयायै नमः । ॐ ॐ अरुणारुणकौसुंभवस्त्रभास्वत्कटीतट्यै नमः । ॐ रत्नकिंकिणिकारम्यरशनादामभूषितायै नमः । ॐ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः । ॐ माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः । 40 ॐ इंद्रगोपपरिक्षिप्तस्मरतूणाभजंघिकायै नमः । ॐ गूढगूल्फायै नमः । ॐ कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः । ॐ नखदीधितिसंछन्ननमज्जनतमोगुणायै नमः । ॐ पदद्वयप्रभाजालपराकृतसरोरुहायै नमः । ॐ शिंजानमणिमंजीरमंडितश्रीपदांबुजायै नमः । ॐ मरालीमंदगमनायै नमः । ॐ महालावण्यशेवधये नमः । ॐ सर्वारुणायै नमः । ॐ अनवद्यांग्यै नमः । 50 ॐ सर्वाभरणभूषितायै नमः । ॐ शिवकामेश्वरांकस्थायै नमः । ॐ शिवायै नमः । ॐ स्वाधीनवल्लभायै नमः । ॐ सुमेरुमध्यशृंगस्थायै नमः । ॐ श्रीमन्नगरनायिकायै नमः । ॐ चिंतामणिगृहांतस्थायै नमः । ॐ पंचब्रह्मासनस्थितायै नमः । ॐ महापद्माटवीसंस्थायै नमः । ॐ कदंबवनवासिन्यै नमः । 60 ॐ सुधासागरमध्यस्थायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामदायिन्यै नमः । ॐ देवर्षिगणसंघातस्तूयमानात्मवैभायै नमः । ॐ भंडासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः । ॐ संपत्करीसमारूढसिंदुरव्रजसेवितायै नमः । ॐ ॐ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः । ॐ चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः । ॐ गेयचक्ररथारूढमंत्रिणीपरिसेवितायै नमः । ॐ किरिचक्ररथारूढदंडनाथापुरस्कृतायै नमः । 70 ॐ ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः । ॐ भंडसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः । ॐ नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः । ॐ भंडपुत्रवधोद्युक्तबालाविक्रमनंदितायै नमः । ॐ मंत्रिण्यंबाविरचितविषंगवधतोषितायै नमः । ॐ विशुक्रप्राणहरणवाराहीवीर्यनंदितायै नमः । ॐ कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः । ॐ महागणेशनिर्भिन्नविघ्नयंत्रप्रहर्षितायै नमः । ॐ भंडासुरेंद्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः । ॐ करांगुलिनखोत्पन्ननारायणदशाकृत्यै नमः । 80 ॐ महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः । ॐ कामेश्वरास्त्रनिर्दग्धसभांडासुरशून्यकायै नमः । ॐ ब्रह्मोपेंद्रमहेंद्रादिदेवसंस्तुतवैभवायै नमः । ॐ हरनेत्राग्निसंदग्धकामसंजीवनौषध्यै नमः । ॐ श्रीमद्वाग्भवकूटैकस्वरूपमुखपंकजायै नमः । ॐ कंठाधः कटिपर्यंतमध्यकूटस्वरूपिण्यै नमः । ॐ शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः । ॐ ॐ मूलमंत्रात्मिकायै नमः । ॐ मूलकूटत्रयकलेबरायै नमः । ॐ कुलामृतैकरसिकायै नमः । 90 ॐ कुलसंकेतपालिन्यै नमः । ॐ कुलांगनायै नमः । ॐ कुलांतःस्थायै नमः । ॐ कौलिन्यै नमः । ॐ कुलयोगिन्यै नमः । ॐ अकुलायै नमः । ॐ समयांतस्थायै नमः । ॐ समयाचारतत्परायै नमः । ॐ मूलाधारैकनिलयायै नमः । ॐ ब्रह्मग्रंथिविभेदिन्यै नमः । 100 ॐ मणिपूरांतरुदितायै नमः । ॐ विष्णुग्रंथिविभेदिन्यै नमः । ॐ आज्ञाचक्रांतरालस्थायै नमः । ॐ रुद्रग्रंथिविभेदिन्यै नमः । ॐ सहस्रारांबुजारूढायै नमः । ॐ सुधासाराभिवर्षिण्यै नमः । ॐ तटिल्लतासमरुच्यै नमः । ॐ षट्चक्रोपरिसंस्थितायै नमः । ॐ महासक्त्यै नमः । ॐ ॐ कुंडलिन्यै नमः । 110 ॐ बिसतंतुतनीयस्यै नमः । ॐ भवान्यै नमः । ॐ भावनागम्यायै नमः । ॐ भवारण्यकुठारिकायै नमः । ॐ भद्रप्रियायै नमः । ॐ भद्रमूर्त्यै नमः । ॐ भक्तसौभाग्यदायिन्यै नमः । ॐ भक्तिप्रियायै नमः । ॐ भक्तिगम्यायै नमः । ॐ भक्तिवश्यायै नमः । 120 ॐ भयापहायै नमः । ॐ शांभव्यै नमः । ॐ शारदाराध्यायै नमः । ॐ शर्वाण्यै नमः । ॐ शर्मदायिन्यै नमः । ॐ शांकर्यै नमः । ॐ श्रीकर्यै नमः । ॐ साध्व्यै नमः । ॐ शरच्चंद्रनिभाननायै नमः । ॐ शातोदर्यै नमः । 130 ॐ शांतिमत्यै नमः । ॐ ॐ निराधारायै नमः । ॐ निरंजनायै नमः । ॐ निर्लेपायै नमः । ॐ निर्मलायै नमः । ॐ नित्यायै नमः । ॐ निराकारायै नमः । ॐ निराकुलायै नमः । ॐ निर्गुणायै नमः । ॐ निष्कलायै नमः । 140 ॐ शांतायै नमः । ॐ निष्कामायै नमः । ॐ निरुपप्लवायै नमः । ॐ नित्यमुक्तायै नमः । ॐ निर्विकारायै नमः । ॐ निष्प्रपंचायै नमः । ॐ निराश्रयायै नमः । ॐ नित्यशुद्धायै नमः । ॐ नित्यबुद्धायै नमः । ॐ निरवद्यायै नमः । 150 ॐ निरंतरायै नमः । ॐ निष्कारणायै नमः । ॐ निष्कलंकायै नमः । ॐ ॐ निरुपाधये नमः । ॐ निरीश्वरायै नमः । ॐ नीरागयै नमः । ॐ रागमथन्यै नमः । ॐ निर्मदायै नमः । ॐ मदनाशिन्यै नमः । ॐ निश्चिंतायै नमः । 160 ॐ निरहंकारायै नमः । ॐ निर्मोहायै नमः । ॐ मोहनाशिन्यै नमः । ॐ निर्ममायै नमः । ॐ ममताहंत्र्यै नमः । ॐ निष्पापायै नमः । ॐ पापनाशिन्यै नमः । ॐ निष्क्रोधायै नमः । ॐ क्रोधशमन्यै नमः । ॐ निर्लोभायै नमः । 170 ॐ लोभनाशिन्यै नमः । ॐ निःसंशयायै नमः । ॐ संशयघ्न्यै नमः । ॐ निर्भवायै नमः । ॐ भवनाशिन्यै नमः । ॐ ॐ निर्विकल्पायै नमः । ॐ निराबाधायै नमः । ॐ निर्भेदायै नमः । ॐ भेदनाशिन्यै नमः । ॐ निर्नाशायै नमः । 180 ॐ मृत्युमथन्यै नमः । ॐ निष्क्रियायै नमः । ॐ निष्परिग्रहायै नमः । ॐ निस्तुलायै नमः । ॐ नीलचिकुरायै नमः । ॐ निरपायायै नमः । ॐ निरत्ययायै नमः । ॐ दुर्लभायै नमः । ॐ दुर्गमायै नमः । ॐ दुर्गायै नमः । 190 ॐ दुःखहंत्र्यै नमः । ॐ सुखप्रदायै नमः । ॐ दुष्टदूरायै नमः । ॐ दुराचारशमन्यै नमः । ॐ दोषवर्जितायै नमः । ॐ सर्वज्ञायै नमः । ॐ सांद्रकरुणायै नमः । ॐ ॐ समानाधिकवर्जितायै नमः । ॐ सर्वशक्तिमय्यै नमः । ॐ सर्वमंगलायै नमः । 200 ॐ सद्गतिप्रदायै नमः । ॐ सर्वेश्वयै नमः । ॐ सर्वमय्यै नमः । ॐ सर्वमंत्रस्वरूपिण्यै नमः । ॐ सर्वयंत्रात्मिकायै नमः । ॐ सर्वतंत्ररूपायै नमः । ॐ मनोन्मन्यै नमः । ॐ माहेश्वर्यै नमः । ॐ महादेव्यै नमः । ॐ महालक्ष्म्यै नमः । 210 ॐ मृडप्रियायै नमः । ॐ महारूपायै नमः । ॐ महापूज्यायै नमः । ॐ महापातकनाशिन्यै नमः । ॐ महामायायै नमः । ॐ महासत्वायै नमः । ॐ महाशक्त्यै नमः । ॐ महारत्यै नमः । ॐ महाभोगायै नमः । ॐ ॐ महैश्वर्यायै नमः । 220 ॐ महावीर्यायै नमः । ॐ महाबलायै नमः । ॐ महाबुद्ध्यै नमः । ॐ महासिद्ध्यै नमः । ॐ महायोगेश्वरेश्वर्यै नमः । ॐ महातंत्रायै नमः । ॐ महामंत्रायै नमः । ॐ महायंत्रायै नमः । ॐ महासनायै नमः । ॐ महायागक्रमाराध्यायै नमः । 230 ॐ महाभैरवपूजितायै नमः । ॐ महेश्वरमहाकल्पमहा तांडवसाक्षिण्यै नमः । ॐ महाकामेशमहिष्यै नमः । ॐ महात्रिपुरसुंदर्यै नमः । ॐ चतुःषष्ट्युपचाराढ्यायै नमः । ॐ चतुःषष्टिकलामय्यै नमः । ॐ महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः । ॐ मनुविद्यायै नमः । ॐ चंद्रविद्यायै नमः । ॐ ॐ चंद्रमंडलमध्यगायै नमः । 240 ॐ चारुरूपायै नमः । ॐ चारुहासायै नमः । ॐ चारुचंद्रकलाधरायै नमः । ॐ चराचरजगन्नाथायै नमः । ॐ चक्रराजनिकेतनायै नमः । ॐ पार्वत्यै नमः । ॐ पद्मनयनायै नमः । ॐ पद्मरागसमप्रभायै नमः । ॐ पंचप्रेतासनासीनायै नमः । ॐ पंचब्रह्मस्परूपिण्यै नमः । 250 ॐ चिन्मय्यै नमः । ॐ परमानंदायै नमः । ॐ विज्ञानघनरूपिण्यै नमः । ॐ ध्यानध्यातृध्येयरूपायै नमः । ॐ र्ध्माधर्मविवर्जितायै नमः । ॐ विश्वरूपायै नमः । ॐ जागरिण्यै नमः । ॐ स्वपत्न्यै नमः । ॐ तैजसात्मिकायै नमः । ॐ सुप्तायै नमः । 260 ॐ प्राज्ञात्मिकायै नमः । ॐ ॐ तुर्यायै नमः । ॐ सर्वावस्थाविवर्जितायै नमः । ॐ सृष्ठिकर्त्र्यै नमः । ॐ ब्रह्मरूपायै नमः । ॐ गोप्त्र्यै नमः । ॐ गोविंदरूपिण्यै नमः । ॐ संहारिण्यै नमः । ॐ रुद्ररूपायै नमः । ॐ तिरोधानकर्यै नमः । 270 ॐ ईश्वर्यै नमः । ॐ सदाशिवायै नमः । ॐ अनुग्रहदायै नमः । ॐ पंचकृत्यपरायणायै नमः । ॐ भानुमंडलमध्यस्थायै नमः । ॐ भैरव्यै नमः । ॐ भगमालिन्यै नमः । ॐ पद्मासनायै नमः । ॐ भगवत्यै नमः । ॐ पद्मनाभसहोदर्यै नमः । 280 ॐ उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः । ॐ सहस्रशीर्षवदनायै नमः । ॐ ॐ सहस्राक्ष्यै नमः । ॐ सहस्रपदे नमः । ॐ आब्रह्मकीटजनन्यै नमः । ॐ वर्णाश्रमविधायिन्यै नमः । ॐ निजाज्ञारूपनिगमायै नमः । ॐ पुण्यापुण्यफलप्रदायै नमः । ॐ श्रुतिसीमंतसिंदूरीकृत पादाब्जधूलिकायै नमः । ॐ सकलागमसंदोहशुक्तिसंपुटमौक्तिकायै नमः । 290 ॐ पुरुषार्थप्रदायै नमः । ॐ पूर्णायै नमः । ॐ भोगिन्यै नमः । ॐ भुवनेश्वर्यै नमः । ॐ अंबिकायै नमः । ॐ अनादिनिधनायै नमः । ॐ हरिब्रह्मेंद्रसेवितायै नमः । ॐ नारायण्यै नमः । ॐ नादरूपायै नमः । ॐ नामरूपविवर्जितायै नमः । 300 ॐ ह्रींकार्यै नमः । ॐ ह्रीमत्यै नमः । ॐ ॐ हृद्यायै नमः । ॐ हेयोपादेयवर्जितायै नमः । ॐ राजराजार्चितायै नमः । ॐ राज्ञै नमः । ॐ रम्यायै नमः । ॐ राजीवलोचनायै नमः । ॐ रंजन्यै नमः । ॐ रमण्यै नमः । 310 ॐ रस्यायै नमः । ॐ रणत्किंकिणिमेखलायै नमः । ॐ रमायै नमः । ॐ राकेंदुवदनायै नमः । ॐ रतिरूपायै नमः । ॐ रतिप्रियायै नमः । ॐ रक्षाकर्यै नमः । ॐ राक्षसघ्न्यै नमः । ॐ रामायै नमः । ॐ रमणलंपटायै नमः । 320 ॐ काम्यायै नमः । ॐ कामकलारूपायै नमः । ॐ कदंबकुसुमप्रियायै नमः । ॐ कल्याण्यै नमः । ॐ ॐ जगतीकंदायै नमः । ॐ करुणारससागरायै नमः । ॐ कलावत्यै नमः । ॐ कलालापायै नमः । ॐ कांतायै नमः । ॐ कादंबरीप्रियायै नमः । 330 ॐ वरदायै नमः । ॐ वामनयनायै नमः । ॐ वारुणीमदविह्वलायै नमः । ॐ विश्वाधिकायै नमः । ॐ वेदवेद्यायै नमः । ॐ विंध्याचलनिवासिन्यै नमः । ॐ विधात्र्यै नमः । ॐ वेदजनन्यै नमः । ॐ विष्णुमायायै नमः । ॐ विलासिन्यै नमः । 340 ॐ क्षेत्रस्वरूपायै नमः । ॐ क्षेत्रेश्यै नमः । ॐ क्षेत्रक्षेत्रज्ञपालिन्यै नमः । ॐ क्षयवृद्धिविनिर्मुक्तायै नमः । ॐ क्षेत्रपालसमर्चितायै नमः । ॐ विजयायै नमः । ॐ ॐ विमलायै नमः । ॐ वंद्यायै नमः । ॐ वंदारुजनवत्सलायै नमः । ॐ वाग्वादिन्यै नमः । 350 ॐ वामकेश्यै नमः । ॐ वह्निमंडलवासिन्यै नमः । ॐ भक्तिमत्कल्पलतिकायै नमः । ॐ पशुपाशविमोचिन्यै नमः । ॐ संहृताशेषपाषंडायै नमः । ॐ सदाचारप्रवर्तिकायै नमः । ॐ तापत्रयाग्निसंतप्तसमाह्लादनचंद्रिकायै नमः । ॐ तरुण्यै नमः । ॐ तापसाराध्यायै नमः । ॐ तनुमध्यायै नमः । 360 ॐ तमोपहायै नमः । ॐ चित्यै नमः । ॐ तत्पदलक्ष्यार्थायै नमः । ॐ चिदेकरसरूपिण्यै नमः । ॐ स्वात्मानंदलवीभूत-ब्रह्माद्यानंदसंतत्यै नमः । ॐ परायै नमः । ॐ ॐ प्रत्यक् चितीरूपायै नमः । ॐ पश्यंत्यै नमः । ॐ परदेवतायै नमः । ॐ मध्यमायै नमः । 370 ॐ वैखरीरूपायै नमः । ॐ भक्तमानसहंसिकायै नमः । ॐ कामेश्वरप्राणनाड्यै नमः । ॐ कृतज्ञायै नमः । ॐ कामपूजितायै नमः । ॐ श्रृंगाररससंपूर्णायै नमः । ॐ जयायै नमः । ॐ जालंधरस्थितायै नमः । ॐ ओड्याणपीठनिलयायै नमः । ॐ बिंदुमंडलवासिन्यै नमः । 380 ॐ रहोयागक्रमाराध्यायै नमः । ॐ रहस्तर्पणतर्पितायै नमः । ॐ सद्यः प्रसादिन्यै नमः । ॐ विश्वसाक्षिण्यै नमः । ॐ साक्षिवर्जितायै नमः । ॐ षडंगदेवतायुक्तायै नमः । ॐ षाड्गुण्यपरिपूरितायै नमः । ॐ नित्यक्लिन्नायै नमः । ॐ ॐ निरुपमायै नमः । ॐ निर्वाणसुखदायिन्यै नमः । 390 ॐ नित्याषोडशिकारूपायै नमः । ॐ श्रीकंठार्धशरीरिण्यै नमः । ॐ प्रभावत्यै नमः । ॐ प्रभारूपायै नमः । ॐ प्रसिद्धायै नमः । ॐ परमेश्वर्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्क्ताव्यक्तस्वरूपिण्यै नमः । ॐ व्यापिन्यै नमः । 400 ॐ विविधाकारायै नमः । ॐ विद्याविद्यास्वरूपिण्यै नमः । ॐ महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः । ॐ भक्ताहार्दतमोभेदभानुमद्भानुसंतत्यै नमः । ॐ शिवदूत्यै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवमूर्त्यै नमः । ॐ शिवंकर्यै नमः । ॐ ॐ शिवप्रियायै नमः । ॐ शिवपरायै नमः । 410 ॐ शिष्टेष्टायै नमः । ॐ शिष्टपूजितायै नमः । ॐ अप्रमेयायै नमः । ॐ स्वप्रकाशायै नमः । ॐ मनोवाचामगोचरायै नमः । ॐ चिच्छक्त्यै नमः । ॐ चेतनारूपायै नमः । ॐ जडशक्त्यै नमः । ॐ जडात्मिकायै नमः । ॐ गायत्र्यै नमः । 420 ॐ व्याहृत्यै नमः । ॐ संध्यायै नमः । ॐ द्विजवृंदनिषेवितायै नमः । ॐ तत्त्वासनायै नमः । ॐ तस्मै नमः । ॐ तुभ्यं नमः । ॐ अय्यै नमः । ॐ पंचकोशांतरस्थितायै नमः । ॐ निःसीममहिम्ने नमः । ॐ नित्ययौवनायै नमः । 430 ॐ ॐ मदशालिन्यै नमः । ॐ मदघूर्णितरक्ताक्ष्यै नमः । ॐ मदपाटलगंडभुवे नमः । ॐ चंदनद्रवदिग्धांग्यै नमः । ॐ चांपेयकुसुमप्रियायै नमः । ॐ कुशलायै नमः । ॐ कोमलाकारायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुलेश्वर्यै नमः । ॐ कुलकुंडालयायै नमः । 440 ॐ कौलमार्गतत्परसेवितायै नमः । ॐ कुमारगणनाथांबायै नमः । ॐ तुष्ट्यै नमः । ॐ पुष्ट्यै नमः । ॐ मत्यै नमः । ॐ धृत्यै नमः । ॐ शांत्यै नमः । ॐ स्वस्तिमत्यै नमः । ॐ कांत्यै नमः । ॐ नंदिन्यै नमः । 450 ॐ विघ्ननाशिन्यै नमः । ॐ तेजोवत्यै नमः । ॐ ॐ त्रिनयनायै नमः । ॐ लोलाक्षीकामरूपिण्यै नमः । ॐ मालिन्यै नमः । ॐ हंसिन्यै नमः । ॐ मात्रे नमः । ॐ मलयाचलवासिन्यै नमः । ॐ सुमुख्यै नमः । ॐ नलिन्यै नमः । 460 ॐ सुभ्रुवे नमः । ॐ शोभनायै नमः । ॐ सुरनायिकायै नमः । ॐ कालकंठ्यै नमः । ॐ कांतिमत्यै नमः । ॐ क्षोभिण्यै नमः । ॐ सूक्ष्मरूपिण्यै नमः । ॐ वज्रेश्वर्यै नमः । ॐ वामदेव्यै नमः । ॐ वयोऽवस्थाविवर्जितायै नमः । 470 ॐ सिद्धेश्वर्यै नमः । ॐ सिद्धविद्यायै नमः । ॐ सिद्धमात्रे नमः । ॐ यशस्विन्यै नमः । ॐ ॐ विशुद्धिचक्रनिलयायै नमः । ॐ आरक्तवर्णायै नमः । ॐ त्रिलोचनायै नमः । ॐ खट्वांगादिप्रहरणायै नमः । ॐ वदनैकसमन्वितायै नमः । ॐ पायसान्नप्रियायै नमः । 480 ॐ त्वक्स्थायै नमः । ॐ पशुलोकभयंकर्यै नमः । ॐ अमृतादिमहाशक्तिसंवृतायै नमः । ॐ डाकिनीश्वर्यै नमः । ॐ अनाहताब्जनिलयायै नमः । ॐ श्यामाभायै नमः । ॐ वदनद्वयायै नमः । ॐ दंष्ट्रोज्वलायै नमः । ॐ अक्षमालादिधरायै नमः । ॐ रुधिरसंस्थितायै नमः । 490 ॐ कालरात्र्यादिशक्त्यौघवृतायै नमः । ॐ स्निग्धौदनप्रियायै नमः । ॐ महावीरेंद्रवरदायै नमः । ॐ राकिण्यंबास्वरूपिण्यै नमः । ॐ मणिपूराब्जनिलयायै नमः । ॐ ॐ वदनत्रयसंयुतायै नमः । ॐ वज्राधिकायुधोपेतायै नमः । ॐ डामर्यादिभिरावृतायै नमः । ॐ रक्तवर्णायै नमः । ॐ मांसनिष्ठायै नमः । 500 501. गुडान्नप्रीतमानसायै नमः । ॐ समस्तभक्तसुखदायै नमः । ॐ लाकिन्यंबास्वरूपिण्यै नमः । ॐ स्वाधिष्टानांबुजगतायै नमः । ॐ चतुर्वक्त्रमनोहरायै नमः । ॐ शूलाद्यायुधसंपन्नायै नमः । ॐ पीतवर्णायै नमः । ॐ अतिगर्वितायै नमः । ॐ मेदोनिष्ठायै नमः । ॐ मधुप्रीतायै नमः । 510 ॐ बंदिन्यादिसमन्वितायै नमः । ॐ दध्यन्नासक्तहृदयायै नमः । ॐ काकिनीरूपधारिण्यै नमः । ॐ मूलाधारांबुजारूढायै नमः । ॐ पंचवक्त्रायै नमः । ॐ अस्थिसंस्थितायै नमः । ॐ अंकुशादिप्रहरणायै नमः । ॐ ॐ वरदादि निषेवितायै नमः । ॐ मुद्गौदनासक्तचित्तायै नमः । ॐ साकिन्यंबास्वरूपिण्यै नमः । 520 ॐ आज्ञाचक्राब्जनिलायै नमः । ॐ शुक्लवर्णायै नमः । ॐ षडाननायै नमः । ॐ मज्जासंस्थायै नमः । ॐ हंसवतीमुख्यशक्तिसमन्वितायै नमः । ॐ हरिद्रान्नैकरसिकायै नमः । ॐ हाकिनीरूपधारिण्यै नमः । ॐ सहस्रदलपद्मस्थायै नमः । ॐ सर्ववर्णोपशोभितायै नमः । ॐ सर्वायुधधरायै नमः । 530 ॐ शुक्लसंस्थितायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ सर्वौदनप्रीतचित्तायै नमः । ॐ याकिन्यंबास्वरूपिण्यै नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ अमत्यै नमः । ॐ मेधायै नमः । ॐ ॐ श्रुत्यै नमः । ॐ स्मृत्यै नमः । 540 ॐ अनुत्तमायै नमः । ॐ पुण्यकीर्त्यै नमः । ॐ पुण्यलभ्यायै नमः । ॐ पुण्यश्रवणकीर्तनायै नमः । ॐ पुलोमजार्चितायै नमः । ॐ बंधमोचन्यै नमः । ॐ बर्बरालकायै नमः । ॐ विमर्शरूपिण्यै नमः । ॐ विद्यायै नमः । ॐ वियदादिजगत्प्रसुवे नमः । 550 ॐ सर्व व्याधिप्रशमन्यै नमः । ॐ सर्व मृत्युनिवारिण्यै नमः । ॐ अग्रगण्यायै नमः । ॐ अचिंत्यरूपायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ कात्यायन्यै नमः । ॐ कालहंत्र्यै नमः । ॐ कमलाक्षनिषेवितायै नमः । ॐ तांबूलपूरितमुख्यै नमः । ॐ दाडिमीकुसुमप्रभायै नमः । 560 ॐ ॐ मृगाक्ष्यै नमः । ॐ मोहिन्यै नमः । ॐ मुख्यायै नमः । ॐ मृडान्यै नमः । ॐ मित्ररूपिण्यै नमः । ॐ नित्यतृप्तायै नमः । ॐ भक्तनिधये नमः । ॐ नियंत्र्यै नमः । ॐ निखिलेश्वर्यै नमः । ॐ मैत्र्यादिवासनालभ्यायै नमः । 570 ॐ महाप्रलयसाक्षिण्यै नमः । ॐ पराशक्त्यै नमः । ॐ परानिष्ठायै नमः । ॐ प्रज्ञानघनरूपिण्यै नमः । ॐ माध्वीपानालसायै नमः । ॐ मत्तायै नमः । ॐ मातृकावर्ण रूपिण्यै नमः । ॐ महाकैलासनिलयायै नमः । ॐ मृणालमृदुदोर्लतायै नमः । ॐ महनीयायै नमः । 580 ॐ दयामूर्त्यै नमः । ॐ महासाम्राज्यशालिन्यै नमः । ॐ ॐ आत्मविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ श्रीविद्यायै नमः । ॐ कामसेवितायै नमः । ॐ श्रीषोडशाक्षरीविद्यायै नमः । ॐ त्रिकूटायै नमः । ॐ कामकोटिकायै नमः । ॐ कटाक्षकिंकरीभूतकमलाकोटिसेवितायै नमः । 590 ॐ शिरःस्थितायै नमः । ॐ चंद्रनिभायै नमः । ॐ भालस्थायैऐ नमः । ॐ इंद्रधनुःप्रभायै नमः । ॐ हृदयस्थायै नमः । ॐ रविप्रख्यायै नमः । ॐ त्रिकोणांतरदीपिकायै नमः । ॐ दाक्षायण्यै नमः । ॐ दैत्यहंत्र्यै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । 600 ॐ दरांदोलितदीर्घाक्ष्यै नमः । ॐ दरहासोज्ज्वलन्मुख्यै नमः । ॐ गुरूमूर्त्यै नमः । ॐ ॐ गुणनिधये नमः । ॐ गोमात्रे नमः । ॐ गुहजन्मभुवे नमः । ॐ देवेश्यै नमः । ॐ दंडनीतिस्थायै नमः । ॐ दहराकाशरूपिण्यै नमः । ॐ प्रतिपन्मुख्यराकांततिथिमंडलपूजितायै नमः । 610 ॐ कलात्मिकायै नमः । ॐ कलानाथायै नमः । ॐ काव्यालापविमोदिन्यै नमः । ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः । ॐ आदिशक्तयै नमः । ॐ अमेयायै नमः । ॐ आत्मने नमः । ॐ परमायै नमः । ॐ पावनाकृतये नमः । ॐ अनेककोटिब्रह्मांडजनन्यै नमः । 620 ॐ दिव्यविग्रहायै नमः । ॐ क्लींकार्यै नमः । ॐ केवलायै नमः । ॐ ॐ गुह्यायै नमः । ॐ कैवल्यपददायिन्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिजगद्वंद्यायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ त्रिदशेश्वर्यै नमः । ॐ त्र्यक्षर्यै नमः । 630 ॐ दिव्यगंधाढ्यायै नमः । ॐ सिंदूरतिलकांचितायै नमः । ॐ उमायै नमः । ॐ शैलेंद्रतनयायै नमः । ॐ गौर्यै नमः । ॐ गंधर्वसेवितायै नमः । ॐ विश्वगर्भायै नमः । ॐ स्वर्णगर्भायै नमः । ॐ अवरदायै नमः । ॐ वागधीश्वर्यै नमः । 640 ॐ ध्यानगम्यायै नमः । ॐ अपरिच्छेद्यायै नमः । ॐ ज्ञानदायै नमः । ॐ ज्ञानविग्रहायै नमः । ॐ सर्ववेदांतसंवेद्यायै नमः । ॐ ॐ सत्यानंदस्वरूपिण्यै नमः । ॐ लोपामुद्रार्चितायै नमः । ॐ लीलाक्लृप्तब्रह्मांडमंडलायै नमः । ॐ अदृश्यायै नमः । ॐ दृश्यरहितायै नमः । 650 ॐ विज्ञात्र्यै नमः । ॐ वेद्यवर्जितायै नमः । ॐ योगिन्यै नमः । ॐ योगदायै नमः । ॐ योग्यायै नमः । ॐ योगानंदायै नमः । ॐ युगंधरायै नमः । ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः । ॐ सर्वाधारायै नमः । ॐ सुप्रतिष्ठायै नमः । 660 ॐ सदसद्रूपधारिण्यै नमः । ॐ अष्टमूर्त्यै नमः । ॐ अजाजैत्र्यै नमः । ॐ लोकयात्राविधायिन्यै नमः । ॐ एकाकिन्यै नमः । ॐ ॐ भूमरूपायै नमः । ॐ निद्वैतायै नमः । ॐ द्वैतवर्जितायै नमः । ॐ अन्नदायै नमः । ॐ वसुदायै नमः । 670 ॐ वृद्धायै नमः । ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः । ॐ बृहत्यै नमः । ॐ ब्राह्मण्यै नमः । ॐ ब्राह्मयै नमः । ॐ ब्रह्मानंदायै नमः । ॐ बलिप्रियायै नमः । ॐ भाषारूपायै नमः । ॐ बृहत्सेनायै नमः । ॐ भावाभावविर्जितायै नमः । 680 ॐ सुखाराध्यायै नमः । ॐ शुभकर्यै नमः । ॐ शोभनासुलभागत्यै नमः । ॐ राजराजेश्वर्यै नमः । ॐ राज्यदायिन्यै नमः । ॐ राज्यवल्लभायै नमः । ॐ राजत्कृपायै नमः । ॐ ॐ राजपीठनिवेशितनिजाश्रितायै नमः । ॐ राज्यलक्ष्म्यै नमः । ॐ कोशनाथायै नमः । 690 ॐ चतुरंगबलेश्वर्यै नमः । ॐ साम्राज्यदायिन्यै नमः । ॐ सत्यसंधायै नमः । ॐ सागरमेखलायै नमः । ॐ दीक्षितायै नमः । ॐ दैत्यशमन्यै नमः । ॐ सर्वलोकवंशकर्यै नमः । ॐ सर्वार्थदात्र्यै नमः । ॐ सावित्र्यै नमः । ॐ सच्चिदानंदरूपिण्यै नमः । 700 ॐ देशकालापरिच्छिन्नायै नमः । ॐ सर्वगायै नमः । ॐ सर्वमोहिन्यै नमः । ॐ सरस्वत्यै नमः । ॐ शास्त्रमय्यै नमः । ॐ गुहांबायै नमः । ॐ गुह्यरूपिण्यै नमः । ॐ सर्वोपाधिविनिर्मुक्तायै नमः । ॐ ॐ सदाशिवपतिव्रतायै नमः । ॐ संप्रदायेश्वर्यै नमः । 710 ॐ साधुने नमः । ॐ यै नमः । ॐ गुरूमंडलरूपिण्यै नमः । ॐ कुलोत्तीर्णायै नमः । ॐ भगाराध्यायै नमः । ॐ मायायै नमः । ॐ मधुमत्यै नमः । ॐ मह्यै नमः । ॐ गणांबायै नमः । ॐ गुह्यकाराध्यायै नमः । 720 ॐ कोमलांग्यै नमः । ॐ गुरुप्रियायै नमः । ॐ स्वतंत्रायै नमः । ॐ सर्वतंत्रेश्यै नमः । ॐ दक्षिणामूर्तिरूपिण्यै नमः । ॐ सनकादिसमाराध्यायै नमः । ॐ शिवज्ञानप्रदायिन्यै नमः । ॐ चित्कलायै नमः । ॐ आनंदकलिकायै नमः । ॐ प्रेमरूपायै नमः । 730 ॐ ॐ प्रियंकर्यै नमः । ॐ नामपारायणप्रीतायै नमः । ॐ नंदिविद्यायै नमः । ॐ नटेश्वर्यै नमः । ॐ मिथ्याजगदधिष्ठानायै नमः । ॐ मुक्तिदायै नमः । ॐ मुक्तिरूपिण्यै नमः । ॐ लास्यप्रियायै नमः । ॐ लयकर्यै नमः । ॐ लज्जायै नमः । 740 ॐ रंभादिवंदितायै नमः । ॐ भवदावसुधावृष्ट्यै नमः । ॐ पापारण्यदवानलायै नमः । ॐ दौर्भाग्यतूलवातूलायै नमः । ॐ जराध्वांतरविप्रभायै नमः । ॐ भाग्याब्धिचंद्रिकायै नमः । ॐ भक्तचित्तकेकिघनाघनायै नमः । ॐ रोगपर्वतदंभोलये नमः । ॐ मृत्युदारुकुठारिकायै नमः । ॐ महेश्वर्यै नमः । 750 ॐ महाकाल्यै नमः । ॐ महाग्रासायै नमः । ॐ महाशनायै नमः । ॐ अपर्णायै नमः । ॐ ॐ चंडिकायै नमः । ॐ चंडमुंडासुरनिषूदिन्यै नमः । ॐ क्षराक्षरात्मिकायै नमः । ॐ सर्वलोकेश्यै नमः । ॐ विश्वधारिण्यै नमः । ॐ त्रिवर्गदात्र्यै नमः । 760 ॐ सुभगायै नमः । ॐ त्र्यंबकायै नमः । ॐ त्रिगुणात्मिकायै नमः । ॐ स्वर्गापवर्गदायै नमः । ॐ शुद्धायै नमः । ॐ जपापुष्पनिभाकृतये नमः । ॐ ओजोवत्यै नमः । ॐ द्युतिधरायै नमः । ॐ यज्ञरूपायै नमः । ॐ प्रियव्रतायै नमः । 770 ॐ दुराराध्यायै नमः । ॐ दुराधर्षायै नमः । ॐ पाटलीकुसुमप्रियायै नमः । ॐ महत्यै नमः । ॐ मेरुनिलयायै नमः । ॐ मंदारकुसुमप्रियायै नमः । ॐ ॐ वीराराध्यायै नमः । ॐ विराड्रूपायै नमः । ॐ विरजसे नमः । ॐ विश्वतोमुख्यै नमः । 780 ॐ प्रत्यग्रूपायै नमः । ॐ पराकाशायै नमः । ॐ प्राणदायै नमः । ॐ प्राणरूपिण्यै नमः । ॐ मार्तांडभैरवाराध्यायै नमः । ॐ मंत्रिणीन्यस्तराज्यधुरे नमः । ॐ त्रिपुरेश्यै नमः । ॐ जयत्सेनायै नमः । ॐ निस्त्रैगुण्यायै नमः । ॐ परापरायै नमः । 790 ॐ सत्यज्ञानानंदरूपायै नमः । ॐ सामरस्यपरायणायै नमः । ॐ कपर्दिन्यै नमः । ॐ कलामालायै नमः । ॐ कामदुघे नमः । ॐ कामरूपिण्यै नमः । ॐ कलानिधये नम। ॐ काव्यकलायै नमः । ॐ ॐ रसज्ञायै नमः । ॐ रसशेवधये नमः । 800 ॐ पुष्टायै नमः । ॐ पुरातनायै नमः । ॐ पूज्यायै नमः । ॐ पुष्करायै नमः । ॐ पुष्करेक्षणायै नमः । ॐ परस्मै ज्योतिषे नमः । ॐ परस्मै धाम्ने नमः । ॐ परमाणवे नमः । ॐ परात्परायै नमः । ॐ पाशहस्तायै नमः । 810 ॐ पाशहंत्र्यै नमः । ॐ परमंत्रविभेदिन्यै नमः । ॐ मूर्तायै नमः । ॐ अमूर्तायै नमः । ॐ अनित्यतृप्तायै नमः । ॐ मुनिमानसहंसिकायै नमः । ॐ सत्यव्रतायै नमः । ॐ सत्यरूपायै नमः । ॐ सर्वांतर्यामिण्यै नमः । ॐ सत्यै नमः । 820 ॐ ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मणे नमः । ॐ जनन्यै नमः । ॐ बहुरूपायै नमः । ॐ बुधार्चितायै नमः । ॐ प्रसवित्र्यै नमः । ॐ प्रचंडायै नमः । ॐ आज्ञायै नमः । ॐ प्रतिष्ठायै नमः । ॐ प्रकटाकृतये नमः । 830 ॐ प्राणेश्वर्यै नमः । ॐ प्राणदात्र्यै नमः । ॐ पंचाशत्पीठरूपिण्यै नमः । ॐ विश्रृंखलायै नमः । ॐ विविक्तस्थायै नमः । ॐ वीरमात्रे नमः । ॐ वियत्प्रसुवे नमः । ॐ मुकुंदायै नमः । ॐ मुक्तिनिलयायै नमः । ॐ मूलविग्रहरूपिण्यै नमः । 840 ॐ भावज्ञायै नमः । ॐ भवरोगध्न्यै नमः । ॐ ॐ भवचक्रप्रवर्तिन्यै नमः । ॐ छंदःसारायै नमः । ॐ शास्त्रसारायै नमः । ॐ मंत्रसारायै नमः । ॐ तलोदर्यै नमः । ॐ उदारकीर्तये नमः । ॐ उद्दामवैभवायै नमः । ॐ वर्णरूपिण्यै नमः । 850 ॐ जन्ममृत्युजरातप्तजन विश्रांतिदायिन्यै नमः । ॐ सर्वोपनिषदुद् घुष्टायै नमः । ॐ शांत्यतीतकलात्मिकायै नमः । ॐ गंभीरायै नमः । ॐ गगनांतःस्थायै नमः । ॐ गर्वितायै नमः । ॐ गानलोलुपायै नमः । ॐ कल्पनारहितायै नमः । ॐ काष्ठायै नमः । ॐ अकांतायै नमः । 860 ॐ कांतार्धविग्रहायै नमः । ॐ कार्यकारणनिर्मुक्तायै नमः । ॐ कामकेलितरंगितायै नमः । ॐ कनत्कनकताटंकायै नमः । ॐ लीलाविग्रहधारिण्यै नमः । ॐ अजायै नमः । ॐ क्षयविनिर्मुक्तायै नमः । ॐ मुग्धायै नमः । ॐ क्षिप्रप्रसादिन्यै नमः । ॐ अंतर्मुखसमाराध्यायै नमः । 870 ॐ बहिर्मुखसुदुर्लभायै नमः । ॐ त्रय्यै नमः । ॐ त्रिवर्गनिलयायै नमः । ॐ त्रिस्थायै नमः । ॐ त्रिपुरमालिन्यै नमः । ॐ निरामयायै नमः । ॐ निरालंबायै नमः । ॐ स्वात्मारामायै नमः । ॐ सुधासृत्यै नमः । ॐ संसारपंकनिर्मग्न समुद्धरणपंडितायै नमः । 880 ॐ यज्ञप्रियायै नमः । ॐ यज्ञकर्त्र्यै नमः । ॐ यजमानस्वरूपिण्यै नमः । ॐ धर्माधारायै नमः । ॐ ॐ धनाध्यक्षायै नमः । ॐ धनधान्यविवर्धिन्यै नमः । ॐ विप्रप्रियायै नमः । ॐ विप्ररूपायै नमः । ॐ विश्वभ्रमणकारिण्यै नमः । ॐ विश्वग्रासायै नमः । 890 ॐ विद्रुमाभायै नमः । ॐ वैष्णव्यै नमः । ॐ विष्णुरूपिण्यै नमः । ॐ अयोन्यै नमः वर् अयोनये ॐ योनिनिलयायै नमः । ॐ कूटस्थायै नमः । ॐ कुलरूपिण्यै नमः । ॐ वीरगोष्ठीप्रियायै नमः । ॐ वीरायै नमः । ॐ नैष्कर्म्यायै नमः । 900 ॐ नादरूपिण्यै नमः । ॐ विज्ञानकलनायै नमः । ॐ कल्यायै नमः । ॐ विदग्धायै नमः । ॐ बैंदवासनायै नमः । ॐ तत्वाधिकायै नमः । ॐ ॐ तत्वमय्यै नमः । ॐ तत्वमर्थस्वरूपिण्यै नमः । ॐ सामगानप्रियायै नमः । ॐ सौम्यायै नमः । 910 ॐ सदाशिवकुटुंबिन्यै नमः । ॐ सव्यापसव्यमार्गस्थायै नमः । ॐ सर्वापद्विनिवारिण्यै नमः । ॐ स्वस्थायै नमः । ॐ स्वभावमधुरायै नमः । ॐ धीरायै नमः । ॐ धीरसमर्चितायै नमः । ॐ चैतन्यार्घ्यसमाराध्यायै नमः । ॐ चैतन्यकुसुमप्रियायै नमः । ॐ सदोदितायै नमः । 920 ॐ सदातुष्ठायै नमः । ॐ तरुणादित्यपाटलायै नमः । ॐ दक्षिणादक्षिणाराध्यायै नमः । ॐ दरस्मेरमुखांबुजायै नमः । ॐ कौलिनीकेवलायै नमः । ॐ अनर्ध्य कैवल्यपददायिन्यै नमः । ॐ स्तोत्रप्रियायै नमः । ॐ स्तुतिमत्यै नमः । ॐ ॐ श्रुतिसंस्तुतवैभवायै नमः । ॐ मनस्विन्यै नमः । 930 ॐ मानवत्यै नमः । ॐ महेश्यै नमः । ॐ मंगलाकृत्ये नमः । ॐ विश्वमात्रे नमः । ॐ जगद्धात्र्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ विरागिण्यै नमः । ॐ प्रगल्भायै नमः । ॐ परमोदारायै नमः । ॐ परामोदायै नमः । 940 ॐ मनोमय्यै नमः । ॐ व्योमकेश्यै नमः । ॐ विमानस्थायै नमः । ॐ वज्रिण्यै नमः । ॐ वामकेश्वर्यै नमः । ॐ पंचयज्ञप्रियायै नमः । ॐ पंचप्रेतमंचाधिशायिन्यै नमः । ॐ पंचम्यै नमः । ॐ पंचभूतेश्यै नमः । ॐ पंचसंख्योपचारिण्यै नमः । 950 ॐ ॐ शाश्वत्यै नमः । ॐ शाश्वतैश्वर्यायै नमः । ॐ शर्मदायै नमः । ॐ शंभुमोहिन्यै नमः । ॐ धरायै नमः । ॐ धरसुतायै नमः । ॐ धन्यायै नमः । ॐ धर्मिण्यै नमः । ॐ धर्मवर्धिन्यै नमः । ॐ लोकातीतायै नमः । 960 ॐ गुणातीतायै नमः । ॐ सर्वातीतायै नमः । ॐ शामात्मिकायै नमः । ॐ बंधूककुसुमप्रख्यायै नमः । ॐ बालायै नमः । ॐ लीलाविनोदिन्यै नमः । ॐ सुमंगल्यै नमः । ॐ सुखकर्यै नमः । ॐ सुवेषाढ्यायै नमः । ॐ सुवासिन्यै नमः । 970 ॐ सुवासिन्यर्चनप्रीतायै नमः । ॐ आशोभनायै नमः । ॐ ॐ शुद्धमानसायै नम ॐ बिंदुतर्पणसंतुष्टायै नमः । ॐ पूर्वजायै नमः । ॐ त्रिपुरांबिकायै नमः । ॐ दशमुद्रासमाराध्यायै नमः । ॐ त्रिपुराश्रीवशंकर्यै नमः । ॐ ज्ञानमुद्रायै नमः । ॐ ज्ञानगम्यायै नमः । 980 ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः । ॐ योनिमुद्रायै नमः । ॐ त्रिखंडेश्यै नमः । ॐ त्रिगुणायै नमः । ॐ अंबायै नमः । ॐ त्रिकोणगायै नमः । ॐ अनघायै नमः । ॐ अद्भुतचारित्रायै नमः । ॐ वांछितार्थप्रदायिन्यै नमः । ॐ अभ्यासातिशयज्ञातायै नमः । 990 ॐ षडध्वातीतरूपिण्यै नमः । ॐ अव्याजकरुणामूर्तये नमः । ॐ अज्ञानध्वांतदीपिकायै नमः । ॐ आबालगोपविदितायै नमः । ॐ ॐ सर्वानुल्लंघ्यशासनायै नमः । ॐ श्रीचक्रराजनिलयायै नमः । ॐ श्रीमत्त्रिपुरसुंदर्यै नमः । ॐ ॐ श्रीशिवायै नमः । ॐ शिवशक्त्यैक्यरूपिण्यै नमः । ॐ ललितांबिकायै नमः । 1000 ॥ॐ तत्सत् ब्रह्मार्पणमस्तु ॥ ॥इति श्रीललितसहस्रनामावलिः संपूर्णा ॥