||दुर्गा कवचम् (ब्रह्मांड पुराणम्) || नारायण उवाच । ॐ दुर्गेति चतुर्थ्यंतः स्वाहांतो मे शिरोऽवतु । मंत्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ 1 ॥ विचारो नास्ति वेदेषु ग्रहणेऽस्य मनोर्मुने । मंत्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥ 2 ॥ मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽंततः । ॐ दुर्गे रक्षयति च कंठं पातु सदा मम ॥ 3 ॥ ॐ ह्रीं श्रीमिति मंत्रोऽयं स्कंधं पातु निरंतरम् । ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥ 4 ॥ ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति संततम् । श्रीं ह्रीं क्लीं पातु सर्वांगं स्वप्ने जागरणे तथा ॥ 5 ॥ प्राच्यां मां प्रकृतिः पातुः पातु वह्नौ च चंडिका । दक्षिणे भद्रकाली च नैरृत्यां च महेश्वरी ॥ 6 ॥ वारुण्यां पातु वाराही वायव्यां सर्वमंगला । उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥ 7 ॥ जले स्थले चांतरिक्षे पातु मां जगदंबिका । इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥ 8 ॥ यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचंदनैः । कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ॥ 9 ॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखंडे नारदनारायणसंवादे दुर्गोपाख्याने सप्तषष्टितमोऽध्याये ब्रह्मांडमोहनं नाम श्री दुर्गा कवचम् ।